चतुर्थोऽध्यायः—दशरथ-व्रतोपदेशः

॥श्रीगणेशाय नमः॥

मुद्गल उवाच

अधुना श‍ृणु दक्ष त्वं संवादं तं पुरातनम्।
दशरथस्य राजर्षेर्वसिष्ठस्य महात्मनः॥१॥
येन त्वं तिथिमुख्यायाश्चतुर्थ्या व्रतजे परे।
महिम्नि निपुणोऽत्यन्तं सम्भवेर्ब्रह्मपुत्रक॥२॥
महायशा दशरथो वन्ध्यदोषभयार्दितः।
वसिष्ठं शरणं गत्वा नत्वा पप्रच्छ तं मुनिम्॥३॥

दशरथ उवाच

पुत्रप्राप्त्यर्थमेवं भो वदोपायं महामुने।
शिष्यं मां शाधि भावज्ञ तारयस्व भवार्णवात्॥४॥
ततस्तं मुनिशार्दूल उवाच नृपमुत्तमम्।
कुलदेवं गणेशं ते भजस्व व्रतसंयुतः॥५॥
वसिष्ठस्य वचः श्रुत्वा पुनस्तं प्रणनाम ह।
पप्रच्छ विनयेनैव संयुतः स नृपोत्तमः॥६॥
कीदृशं तद्व्रतं विप्र गणेशस्य महात्मनः।
कृतं केन व्रतं तत्र भवेत् सिद्धिश्च कीदृशी॥७॥
कस्मिन् काले व्रतं कार्यं पूजनं कीदृशं मुने।
वद सर्वं विशेषेण करिष्यामि त्वदाज्ञया॥८॥

वसिष्ठ उवाच

चतुर्थी गणनाथस्य प्रियाऽत्यन्तं नृपोत्तम।
शुक्ला कृष्णा समाख्याता सर्वसिद्धिप्रदा भवेत्॥९॥
चन्द्रोदये यदा प्राप्ता कृष्णा सैव चतुर्थिका।
सा सङ्कष्टहरा प्रोक्ता चतुर्विधफलप्रदा॥१०॥
चतुर्विधं जगत् सर्वं जानीहि त्वं नृपात्मज।
सङ्कष्टं तत् समाख्यातं बन्धनेन विशेषतः॥११॥
इह भुक्त्वाऽखिलान् भोगान् सङ्कष्टीकरणान्नृप।
सर्वसङ्कटहीनः स स्वानन्दे प्रगमिष्यति॥१२॥
यदा चन्द्रोदये भूप चतुर्थी नैव लभ्यते।
प्रदोषव्यापिनी ग्राह्या सर्वसङ्कटमुक्तये॥१३॥
उभये चन्द्रसंयुक्ता प्राप्ता सा व्रतधारिणी।
तदा स्वेच्छाविहारेण कर्तव्या चन्द्रव्यापिनी॥१४॥
तृतीयायां प्रदोषाच्च चन्द्रस्योदयगा भवेत्।
तदा सैव सदा ग्राह्या परां त्यक्त्वा विशेषतः॥१५॥
शुक्ला सा वरदा प्रोक्ता चतुर्णां नात्र संशयः।
सञ्चिताऽसञ्चितानां वै व्रतकारिजनाय च॥१६॥
धर्मार्थकाममोक्षाद्याश्चत्वारो ये पदार्थकाः।
तान् ददाति गणेशस्य प्रीतिदा सा चतुर्थिका॥१७॥
मध्याह्नव्यापिनी ग्राह्या सदा शुक्लचतुर्थिका।
उभयत्र यदा नाप्ता पूर्वविद्धा मता तिथिः॥१८॥
उभयत्र यदा प्राप्ता भवेत् प्रहरभानुगा।
तृतीया चेत्तदा साऽपि पूर्वविद्धा मता तिथिः॥१९॥
प्रहरादूर्ध्वगा भूप तृतीया सूर्यसंयुता।
तदा पूर्वा परा वाऽपि कार्या सैव चतुर्थिका॥२०॥
चतुर्थीव्रतहीनस्य फलहीनानि भूमिप।
व्रतानि सर्वकालेष्वाद्या कार्या सा ततः प्रभो॥२१॥
एतद्व्रतं महाभाग ब्रह्मणाऽऽचरितं पुरा।
व्रतस्यैव प्रभावेण निर्ममे सकलं जगत्॥२२॥
विष्णुना शङ्करेणैव कृतं व्रतमनुत्तमम्।
पालने हरणे देवौ समर्थौ तौ बभूवतुः॥२३॥
योगिभिः शुकमुख्यैश्च कश्यपादिमुनीश्वरैः।
मुनिभिश्च कृतं पूर्वं स्वस्वकार्यार्थसिद्धये॥२४॥
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगा बभुः।
नानेन सदृशं विद्धि चतुर्णां साधकं नृप॥२५॥
अन्यैर्नानाविधैरेतत् कृतं वर्णाश्रमस्थितैः।
ते सर्वे ब्रह्मभूता वै ययुः स्वानन्दके पुरे॥२६॥
एतद् व्रतं महीपाल कुरु त्वं भावसंयुतः।
भविताऽसि सपुत्रश्च तथा स्वानन्दगो भवेः॥२७॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते दशरथव्रतोपदेशो नाम चतुर्थोऽध्यायः॥४-४॥