तृतीयोऽध्यायः—प्रतिपदादिव्रत-वर्णनम्
॥श्रीगणेशाय नमः॥
मुद्गल उवाच
ततो गणपतिर्दक्ष ययौ सर्वतिथीः प्रति।
उवाच वृणुत प्राज्ञा वरं यं मनसीप्सितम्॥१॥
श्रुत्वा गणपतेर्वाक्यं प्रणम्य गणनायकम्।
पूजयित्वा च तं स्तुत्वा जगदुस्तिथयः पराः॥२॥
प्रतिपदाद्या उचुः
यदि विघ्नेश्वर स्वामिन् वरदोऽसि गजानन।
किं कर्तव्यं दयासिन्धो अस्माभिर्वद साम्प्रतम्॥३॥
स्वस्वव्यापारजं देवं सामर्थ्यं देहि चाद्भुतम्।
भक्तिं त्वदीयपादाब्जे सर्वं मान्यं त्वया प्रभो॥४॥
तासां वचनमाकर्ण्य जगाद गणनायकः।
ताः शृणु त्वं प्रजानाथ सर्वेषां हितकारकम्॥५॥
गणेश उवाच
मदीया भक्तिरत्यन्तं भविष्यति न संशयः।
भवतीनां महाभागास्तिथयः पुण्यभागिकाः॥६॥
मत्कलांशसमुद्भूता देवास्तान् प्रीणयन्तु वै।
भवतीभिर्युता देवा नराणां प्रीतिदाऽस्तु च॥७॥
सदा वह्निं प्रतिपदि पूजयिष्यन्ति ये नराः।
हुतद्रव्यैश्च हुत्वा तं दुग्धाहारा व्रते रताः॥८॥
उपोषणं करिष्यन्ति तैश्च देवाः सहेश्वराः।
तोषितास्ते सदा तेभ्यो दास्यन्ति मनसीप्सितम्॥९॥
ते मृताः सङ्गमिष्यन्त्यग्निलोके भोगकारकाः।
अग्नितुल्यप्रकाशेन विमानेन विहायसा॥१०॥
चरिष्यन्ति न सन्देहः प्रतिपद्व्रतकारकाः।
ब्रह्मार्पणस्वभावेन गमिष्यन्ति मदात्मनि॥११॥
द्वितीयायां नरो यस्तु पूजयेदश्विनौ शुभौ।
पत्राहारसमायुक्तो रूपवान् जायते किल॥१२॥
इह भुक्त्वाऽखिलान् भोगानन्ते तल्लोकमाप्नुयात्।
द्वितीयाव्रतकारी स देवमान्यो भविष्यति॥१३॥
ब्रह्मार्पणस्वभावेन द्वितीयाव्रतमाचरेत्।
स स्वानन्दे मदीये वै लीनश्चैव भविष्यति॥१४॥
तृतीयायां महाशक्तिं पूजयेद् भक्तिसंयुतः।
सर्वैः सौभाग्यदैर्द्रव्यैर्लवणाहारवर्जितः॥१५॥
स शक्तिलोकगो भूत्वा भोगयुक्तो भविष्यति।
ब्रह्मार्पणतया सोऽपि मल्लोके चागमिष्यति॥१६॥
पञ्चम्यां नागमुख्यांश्च दुग्धेन स्नापयेन्नरः।
पूजयेत्तान् प्रयत्नेन निरम्लाहारकारकः॥१७॥
स नागलोकगो भूत्वा भोगयुक्तश्चरिष्यति।
निष्कामेन मदीये वै लोकेऽन्ते आगमिष्यति॥१८॥
षष्ठ्यां स्कन्दं फलाहारः पूजयेद् भक्तिसंयुतः।
स्कन्दलोके चरेत् सोऽपि महाभोगपरायणः॥१९॥
निष्कामभावयुक्तश्चेत् स्वानन्देऽन्ते गमिष्यति।
शुक्लगत्याः क्रमेणैव सर्वभावनियन्त्रितः॥२०॥
सप्तम्यामर्चयेत् सूर्यमुपोषणपरायणः।
स सूर्यलोकमाश्रित्य प्रचरेद् भोगसंयुतः॥२१॥
निष्कामव्रतकारी चेन् महालयसमुत्थिते।
स्वानन्दे मे सदेहो वै ब्रह्मभूतो भविष्यति॥२२॥
अष्टम्यां मातृकानां यः पूजको भावसंयुतः।
बिल्वाहारसमायुक्तो मातृकालोकगो भवेत्॥२३॥
मदर्पणस्वभावेन सदा व्रतपरायणः।
अष्टम्यां सोऽपि मल्लोके गच्छेत् क्रमविनिश्चिते॥२४॥
नवम्यामेव दुर्गायाः पूजनं यः समाचरेत्।
पिष्टाशी भोगसंयुक्तोऽन्ते तल्लोकमवाप्नुयात्॥२५॥
ब्रह्मार्पणतया सोऽपि निजलोके गमिष्यति।
शुक्लगत्या महाभागो ब्रह्मभूतो न संशयः॥२६॥
दशम्यां व्रतसंस्थो यो दधिभक्षणसंयुतः।
दिशां दिगीशकानां वै पूजकस्तत्प्रियो भवेत्॥२७॥
इह भुक्त्वाऽखिलात् भोगानन्ते तल्लोकमाप्नुयात्।
निष्कामव्रतभावेन ब्रह्मभूतो भविष्यति॥२८॥
एकादश्यां नरो भक्षेद्वह्निपक्वविवर्जितम्।
धनपं पूजयेच्चैव भक्तियुक्तेन चेतसा॥२९॥
स वै तस्य वसेल्लोके नानाभोगकरः सदा।
ब्रह्मार्पणतया तद्वद्व्रतं कृत्वा सुखी भवेत्॥३०॥
विष्णुं सम्पूजयेद्यो वै द्वादश्यां घृतभोजनः।
स विकुण्ठे वसेन्नित्यं नानाभोगपरायणः॥३१॥
ब्रह्मार्पणविधानेन व्रतं कुर्याद्यदा नरः।
महालये मदीये स लोके ब्रह्ममयो भवेत्॥३२॥
धर्मं त्रयोदशीसंस्थं पूजयेत् क्षीरभोजनः।
स धर्मलोकगो भूत्वा भुञ्जीत विविधं सुखम्॥३३॥
ब्रह्मार्पणतया येन साधिता चेत् त्रयोदशी।
स स्वानन्दे समागम्य ब्रह्मभूतो भविष्यति॥३४॥
चतुर्दश्यां शिवं यश्च पूजयेद् भक्तिसंयुतः।
उपोषणसमायुक्तो गोधूमान्नेन पारणम्॥३५॥
करिष्यति च कैलासे वासस्तस्य भविष्यति।
निष्कामश्चेत्तदन्ते स मल्लोके मन्मयो भवेत्॥३६॥
पूर्णिमायां देवगणान् देवांश्चद्रमसं तथा।
पूजयेद् भक्तिभावेन चन्द्रलोकं स आप्नुयात्॥३७॥
इह भुक्त्वाऽखिलान् भोगानन्ते देवान् गमिष्यति।
निष्कामनो मदीये स लोके ब्रह्ममयो भवेत्॥३८॥
उपोषणसमायुक्तोऽर्घ्यदानं यः करिष्यति।
चन्द्राय निशिभुग् वाऽपि सर्वदेवपरायणः॥३९॥
सर्वदेवमयी रम्या पूर्णिमा परिकीर्तिता।
चान्द्री चैव तथा ज्ञेया तिथिः पुण्यप्रदा मता॥४०॥
अमायां तर्पयेद्यो वै पितॄन् पितृपरायणः।
उपोषणं वा कुर्वीत स सर्वार्थमवाप्नुयात्॥४१॥
अन्ते पितृमये लोके वसतिस्तस्य सम्भवेत्।
आगमिष्यति निष्कामश्चेत् स्वानन्दे स तल्लये॥४२॥
कृष्णाः शुक्लाः सदा पूज्यास्तिथयो व्रतकारिणा।
एवं भावयुतेनैव स सर्वार्थमवाप्नुयात्॥४३॥
मत्प्रियास्तिथयः सर्वा भविष्यथ न संशयः।
मत्कलांशयुतैर्देवैः संयुक्ताः प्रभवेत वै॥४४॥
चतुर्थीं ये न कुर्वन्ति तेषां सर्वं निरर्थकम्।
भवदीयव्रते संस्थं भविष्यति न संशयः॥४५॥
अतश्चतुर्थीसंयुक्ताः सदा भवत मानदाः।
तिथयः कालमानेन सर्वपूज्या भविष्यथ॥४६॥
एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो गणवल्लभः।
तथा जातं प्रजानाथ तिथियुक्तव्रतं सदा॥४७॥
चतुर्थीजं च माहात्म्यं तिथीनां यद्विशेषतः।
शृणुयाद्यः पठेद् वाऽपि स सर्वार्थमवाप्नुयात्॥४८॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते प्रतिपदादिव्रतवर्णनं नाम तृतीयोऽध्यायः॥४-३॥