द्वितीयोऽध्यायः—शुक्ल--कृष्ण-चतुर्थी-वरदान-वर्णनम्

॥श्रीगणेशाय नमः॥

मुद्गल उवाच

ततो देवी गणाध्यक्षं स्मृत्वा स्रष्टुं मनो दधे।
ततोऽकस्माद् द्विधा साऽभूद्वामदक्षिणभागतः॥१॥
वामभागं कृष्णवर्णं दक्षिणाङ्गं तथा बभौ।
शुक्लवर्णं महाभाग ततः सा विस्मिताऽभवत्॥२॥
पुनर्गणपतिं ध्यात्वा स्रष्टुं तत्रोपचक्रमे।
ततस्तस्या मुखाम्भोजात् प्रतिपन्निःसृता तिथिः॥३॥
नासिकायां द्वितीया वै वक्षसश्च तृतीयिका।
अङ्गुलीभ्यस्तथा दक्ष पञ्चमी चाभवत्तिथिः॥४॥
उत्पन्ना हृदयात् षष्ठी चक्षुषोः सप्तमी बभौ।
अष्टमी बाहुदेशाच्च समुत्पन्ना महातिथिः॥५॥
नवमी तिथिरुत्पन्ना उदराच्च प्रजापते।
दशमी कर्णदेशाद्वै कण्ठाच्चैकादशी मता॥६॥
द्वादशी पादयोस्तस्याः समुत्पन्ना तथा विभो।
स्तनात् त्रयोदशी तस्या अहङ्काराच्चतुर्दशी॥७॥
मनसः पूर्णिमा जाता अमावास्या तथाऽभवत्।
जिह्वायाः सर्वभावेन तिथयो भिन्नतां दधुः॥८॥
कृष्णा चतुर्थी प्रोक्ता या तस्याः कृष्णाः प्रकीर्तिताः।
तिथयोः दशपञ्चाख्या ज्ञातव्या विबुधैः किल॥९॥
शुक्लाः शुक्लचतुर्थी देहाच्चतुर्दश वै मताः।
तिथयो विधिवत् सर्वा बभुः स्वस्वगुणान्विताः॥१०॥
दिनांशाः पुरुषा जाता रात्रयः स्त्रीस्वरूपकाः।
स्वस्वभावविहारज्ञा बभूवुश्च हिते रताः॥११॥
तिथिभिः सहिता देवी चतुर्थी तपसि स्थिता।
गणेशमभजन्नित्यं मन्त्रध्यानपरायणा॥१२॥
वर्षेणैकेन विघ्नेशस्तां ययौ भक्तवत्सलः।
शुक्लां मध्याह्नसमये कृष्णां चन्द्रोदये तथा॥१३॥
वरं ब्रूहि गणेशानस्तामुवाच विशेषतः।
प्रणम्य विघ्नपं पूजयित्वा स्तुत्वा जगाद सा॥१४॥

चतुर्थ्युवाच

त्वदेकनिलयां देव मां कुरुष्व गजानन।
नान्यं याचे वरं स्वामिन् भक्तिमिच्छामि शाश्वतीम्॥१५॥
तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः।
प्राप्तं चतुर्थि मध्याह्ने मदीयं दर्शनं त्वया॥१६॥
अतो मध्याह्नकालेऽन्ये मां भजन्ते शिवादयः।
चतुर्थ्यां शुक्लपक्षस्य स्थितायां सर्वदा जनाः॥१७॥
मदीयव्रतमुख्यत्वे भव त्वं सर्वभावतः।
निराहारेण मां तत्र त्वद्युक्तं पर्युपासते॥१८॥
चतुर्विधं प्रदास्यामि नानाभावनियन्त्रितम्।
सञ्चितं नास्ति चेद् देवि तथाप्यत्र न संशयः॥१९॥
सञ्चितं चास्ति चेद्वापि ददासि त्वं महामते।
अतस्ते नाम विख्यातं वरदेति भविष्यति॥२०॥
त्वां पूजयन्ति ये नैव मद्युक्तां व्रतभावतः।
तेषां व्रतानि सर्वाणि निष्फलानि भवन्तु वै॥२१॥
एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो देवनायकः।
तदादि सा तिथिः ख्याता वरदा च प्रजापते॥२२॥
गणेशस्य प्रियाऽत्यन्तमिति जन्मतिथिः स्मृता।
तस्यामुपोषणं कार्यं नरैरात्महितेप्सुभिः॥२३॥
पञ्चम्यां पारणं दक्ष कर्तव्यं द्विजसाक्षिकम्।
चतुर्विधं फलं तैश्च सम्प्राप्तं नात्र संशयः॥२४॥
यद्यदिच्छति तत्तत् स लभते व्रतकारकः।
अन्ते स्वानन्दगो भूत्वा सायुज्यं ब्रह्मणस्तथा॥२५॥
तत्र व्रते नराः पापा अन्नं भक्षन्ति चेत् प्रियम्।
नारकास्ते भविष्यन्ति हीना अन्नैः पुनर्जनौ॥२६॥
एवं वरं चतुर्थ्यै स ददौ विघ्नविदारणः।
सा तिथिः सर्वमान्या च बभूव व्रतमूलगा॥२७॥
ततः कृष्णां चतुर्थीं स जगाद गणनायकः।
वरं वृणु महाभागे दास्यामि मनसीप्सितम्॥२८॥
श्रुत्वा सा तं प्रणम्याऽऽदौ पूजयित्वा गजाननम्।
स्तुत्वा जगाद वाक्यं वै हर्षेण महता युता॥२९॥

कृष्णचतुर्थ्युवाच

यदि प्रसन्नभावेन वरदोऽसि गजानन।
तदा भक्तिं दृढां देहि त्वदीयां मे महोदर॥३०॥
त्वत्प्रियत्वं सदा नाथ वियोगो न भवेच्च मे।
सर्वमान्यां कुरुष्व त्वदेकनिष्ठस्वभावतः॥३१॥
तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः।
सदा मम प्रियाऽत्यन्तं भविष्यसि महातिथे॥३२॥
चन्द्रोदये त्वयाऽहं वै प्राप्तस्तेन चतुर्थिके।
तत् काले च व्रतं मुख्यं त्वद्युक्तं भवतु प्रियम्॥३३॥
न वियोगो भवेद् भक्ताः प्रियेऽन्नजलवर्जिताः।
उपासते च तेषां त्वं सङ्कष्टहरणं कुरु॥३४॥
प्रहरान् पञ्च मद्भक्ताः प्रियेऽन्नजलवर्जिताः।
उपासते च तेषां त्वं सङ्कष्टहरणं कुरु॥३५॥
चतुर्विधं स्वसङ्कष्टं जन्म मृत्युश्च कर्मजम्।
व्रतिनां तत्फलं कर्म विद्यते न कदाचन॥३६॥
इत्यादि विविधं देवि विशेषेण चतुर्विधम्।
सङ्कष्टदं हर त्वं वै मत्प्रसादाच्चतुर्थिके॥३७॥
न सङ्कष्टं कदाचिद्वै व्रतकारि नरस्य च।
भवेन् मे भक्तियुक्तस्य पुनस्त्वद्युक्तसेविनः॥३८॥
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात्।
सङ्कष्टहरणी नाम भवेत् तव चतुर्थिके॥३९॥
न करोति चतुर्थीं चेन्नरो मद्भक्तिकारकः।
निष्फलं सकलं तस्य भजनं वै भविष्यति॥४०॥
त्वां त्यक्त्वा ये नराः पापा व्रतमन्यच्च कुर्वते।
व्रतादिकं निष्फलकं तेषां सर्वं भविष्यति॥४१॥
वर्णाश्रमस्थको भूत्वा चतुर्थीं न करोति चेत्।
तस्य सर्वं स्वधर्मस्थं कर्म यन्निष्फलं भवेत्॥४२॥
यती रात्रौ निराहारयुक्तः सन् व्रतमाचरेत्।
सङ्कष्टहरणं देवि स्वानन्दार्थं न संशयः॥४३॥
अन्यैश्च द्विजसंयुक्तैर्भोजनं द्विजसाक्षिकम्।
रात्रौ कर्तव्यमेतस्मिन् मां प्रपूज्य वरानने॥४४॥
श्रावणे लड्डुकान् भक्षेत् भाद्रके दधिभोजनम्।
निर्जलं त्वाश्विने प्रोक्तं दुग्धपानं च कार्तिके॥४५॥
मार्गशीर्षे जलाहारः पौषे गोमूत्रभक्षणम्।
माघे मासि तिलान् शुक्लान् फाल्गुने घृतशर्कराम्॥४६॥
पञ्चगव्यं मधौ मासे वैशाखे पद्मबीजकम्।
ज्येष्ठे घृतं गवां भक्ष्यमाषाढे मधुभोजनम्॥४७॥
यतीनां सर्वदा ह्येतत् व्रतं युक्तं प्रकीर्तितम्।
अन्येषां भोजने नैवानेन वा व्रतकं स्मृतम्॥४८॥
याममात्राऽवशिष्टायां रात्रावुत्थाय सत्वरम्।
प्रातःकृत्यं सुसङ्क्षेपात् कर्तव्यं तन्नरेण वै॥४९॥
तथा माध्याह्निकं कर्म कर्तव्यं प्रातरेव च।
चतुर्घटिकरात्रौ सूर्योदयः स प्रकीर्तितः॥५०॥
एवं कर्मादिकं कृत्वा मां सम्पूज्याल्पमन्त्रतः।
प्रत्यक्षोदयकाले वै सूर्योपस्थानमाचरेत्॥५१॥
चन्द्रोदयस्य पर्यन्तं शमीमूले जपं जपेत्।
मदीयं मौनिभावेन पश्चात् स्नानं समाचरेत्॥५२॥
सायाह्नकालजं कर्म तत्र कुर्यान्नरोत्तमः।
विधिना पूज्य मां पश्चादर्घ्यदानं समाचरेत्॥५३॥
आदौ तेऽर्ध्यप्रदानं च ततो मेऽर्घ्यनिवेदनम्।
ततः सप्तार्घ्यदानं व्रती चन्द्राय समाचरेत्॥५४॥
ब्राह्मणैः पूजितैर्देवि नरः कुर्याच्च भोजनम्।
मोदकापूपलड्डूकपायसादिभिरादरात्॥५५॥
रात्रौ जागरणं कुर्यान् मदीयकथयान्वितः।
पञ्चम्यामुपचारैः सम्पूजयन् मां प्रयत्नतः॥५६॥
एवं व्रतं नरः कुर्यात् स वै सर्वार्थसिद्धिभाक्।
भविष्यत्यमरैर्मान्योऽन्ते ब्रह्मणि लयं व्रजेत्॥५७॥
यथाऽहं देवतादीनां पूज्यः सर्वाद्यभावतः।
तथा त्वं व्रतजातीनामादिपूज्या भविष्यसि॥५८॥
शुक्लां कृष्णां चतुर्थीं ये करिष्यन्त्यमरादयः।
सर्वव्रतादि भावेषु तेषां सिद्धिर्भविष्यति॥५९॥
एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः।
चतुर्थी भक्तिसंयुक्ताऽभवत् तत्रैव संस्थिता॥६०॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शुक्लकृष्णचतुर्थीवरदानवर्णनं नाम द्वितीयोऽध्यायः॥४-२॥