प्रथमोऽध्यायः—चतुर्थी-तपो-वर्णनम्

॥श्रीगणेशाय नमः॥

शौनक उवाच

त्वया सूत महाप्राज्ञ महोदरचरित्रकम्।
कथितं शान्तिदं मोहनाशकं संश्रुतं मया॥१॥
तथा तृप्तिं न याम्येव पायं पायं सुधामिव।
नानेन सदृशं किञ्चिच्छान्तिदं विद्यते द्विज॥२॥
अतो गजाननस्यापि चरित्रं वद विस्तरात्।
सर्वज्ञस्त्वं महाभाग मतोऽस्माभिर्न संशयः॥३॥
मुद्गलस्य च दक्षस्य संवादं वद मानद।
किं पृष्टं ब्रह्मपुत्रेण दक्षेणाग्रे सुबुद्धिना॥४॥

सूत उवाच

श‍ृणु भार्गव विप्रेन्द्र महाज्ञानकरं प्रभो।
गजाननस्य माहात्म्यं कथयामि यथा श्रुतम्॥५॥
श्रुत्वा महोदराख्यानं नानाख्यानसमन्वितम्।
मोहनाशकरं दक्षो हर्षितो ह्यभवन् मुने॥६॥
मुद्गलं पुनरप्याह योगीन्द्रं वेदपारगम्।
विनयेन समायुक्तो गणेशज्ञानलालसः॥७॥

दक्ष उवाच

महोदरस्य माहात्म्यं श्रुतं भक्तियुतेन भोः।
तेनाऽऽनन्दसमायुक्तः कृतोऽहं योगिना त्वया॥८॥
अधुना वद विप्रेश गजाननचरित्रकम्।
कीदृशोऽवतरद् देवः कीदृशं ब्रह्म तत्र च॥९॥
किमर्थं देहधारी स बभूव मुनिसत्तम।
किं कर्मा किं गुणज्ञश्च वद सर्वं महामते॥१०॥
पूर्वपुण्यप्रभावेण सङ्गतिस्ते प्रजायते।
धन्योऽहं सर्वभावेन श‍ृणोमि च कथां शुभाम्॥११॥

सूत उवाच

दक्षेणैवं महायोगी स पृष्टो बुद्धिशालिना।
तं प्रत्युवाच भावज्ञो गाणपत्यपरायणः॥१२॥

मुद्गल उवाच

श‍ृणु दक्ष महाभाग धन्योऽस्यत्र न संशयः।
कथां वर्धयसि प्राज्ञ गाणेशीं योगदां पराम्॥१३॥
तव भावेन सन्तुष्टो वदामि सकलं प्रभो।
गजाननस्य माहात्म्यं योगशान्तिपदप्रदम्॥१४॥
साङ्ख्यं ब्रह्म विदेहाख्यं कथितं योगिभिः परम्।
तदेव गजवक्त्रं वै जानीहि त्वं प्रजापते॥१५॥
बिन्दुब्रह्मात्मको देहः सोऽहं वक्त्रं प्रकीर्तितम्।
तयोरभेदको बोधो बभावेव स देहवान्॥१६॥
त्रिविधेषु स्थितो देवो तथाऽपि तद्विवर्जितः।
विदेहो गजवक्त्रश्च शोभत साङ्ख्यधारकः॥१७॥
बोधत्यागे महाभाग कः सङ्ख्यां कुरुते वद।
ब्रह्मणां तेन साङ्ख्यं तद्ब्रह्म वेदे प्रकाशितम्॥१८॥
लोभासुरविनाशाय प्रकटोऽभूद्गजाननः।
देवैर्विप्रैः प्रजानाथ प्रार्थितो भक्तिलालसः॥१९॥
चतुर्थ्यां मध्यगे भानौ देहधारी समागतः।
सा तिथिः परमा तस्य प्रीतिदा सम्बभूव वै॥२०॥

सूत उवाच

इति श्रुत्वा वचो रम्यं दक्षो हृष्टमना मुने।
जगाद मुद्गलं विप्रं चतुर्थीज्ञानसिद्धये॥२१॥

दक्ष उवाच

का चतुर्थी तिथिः प्रोक्ता शुक्ला कृष्णा वद प्रभो।
गणनाथप्रियाऽत्यन्तं बभूव कथमेव सा॥२२॥
पुनः पुनस्त्वया ब्रह्मन् कथितं तद् व्रतं शुभम्।
अतो ब्रूहि चतुर्थ्यास्त्वं माहात्म्यं सकलं परम्॥२३॥
दक्षस्य वचनं श्रुत्वा हर्षयुक्तो महामुनिः।
मुद्गलस्तमथोवाच चतुर्थीसम्भवां कथाम्॥२४॥

मुद्गल उवाच

सङ्क्षेपेण प्रवक्ष्यामि चतुर्थ्याश्च चरित्रकम्।
गणनाथप्रियं पूर्णं ज्ञास्यसि त्वं प्रजापते॥२५॥
पुरा सृष्टिं स सृष्ट्वा वै ब्रह्मा लोकपितामहः।
स्थितानां तत्र जन्तूनां कालार्थं स दधे मनः॥२६॥
नानाकार्यप्रसिद्ध्यर्थं सञ्चिन्त्य गणपं हृदि।
अभवद्ध्यानमास्थाय संस्थितश्चिन्तयान्वितः॥२७॥
ततस्तस्य शरीराद्वै निःसृता प्रकृतिः परा।
महामाया तिथीनां सा जननी कामरूपिणी॥२८॥
चतुष्पदां तथा दक्ष चतुर्हस्तां सुशोभनाम्।
चतुर्मुखयुतां वीक्ष्य हर्षितोऽभूत् प्रजापतिः॥२९॥
ततः सा तं नमस्कृत्य तुष्टाव जगदीश्वरम्।
नानास्तोत्रैः प्रसाद्यैनमुवाच घननिःस्वना॥३०॥

प्रकृतिरुवाच

तवाङ्गनिःसृतां मां त्वं विद्धि ब्रह्माण्डनायक।
आज्ञां कुरु पितर्मां च कुर्वेऽहं भावयन्त्रिता॥३१॥
स्थानं देहि तथा भक्ष्यं नानाभोगादिकं प्रभो।
मह्यं देव दयासिन्धो नमस्ते परमेश्वर॥३२॥
तस्यास्तद्वचनं श्रुत्वा तां जगाद प्रजापतिः।
सृष्टिं गणेशं सञ्चिन्त्य विचित्रां कुरु मानदे॥३३॥
स तस्यै गणनाथस्य ददौ मन्त्रं षडक्षरम्।
सविधिं सा नमस्कृत्य ययौ तं वनमादरात्॥३४॥
तताप तप उग्रं सा नासाग्रनयना सती।
गणेशं हृदि सन्ध्याय जजाप मन्त्रमुत्तमम्॥३५॥
प्रजापते गते वर्षसहस्रे तु गजाननः।
आययौ तां महाभागामगदद् भक्तवत्सलः॥३६॥

गणेश उवाच

वरान् वृणु महाभागे बहून् मनसि वाञ्छितान्।
निराहारेण सन्तुष्टो ददामि तपसा च ते॥३७॥
तस्य तद्वचनं श्रुत्वा हर्षिता प्रणनाम तम्।
गजाननं प्रसम्पूज्य तुष्टाव च कृताञ्जलिः॥३८॥

प्रकृतिरुवाच

नमस्ते विघ्ननाथाय गणेशाय परात्मने।
अनाथाय विशेषेण सर्वनाथाय ते नमः॥३९॥
नमो मूषकवाहाय मूषकध्वजिने नमः।
स्वानन्दपतये तुभ्यं गणानां पतये नमः॥४०॥
सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे।
योगेशाय सदा शान्तिप्रदात्रे योगिने नमः॥४१॥
सर्वादये सदा सर्वपूज्याय भक्तपालका।
ज्येष्ठराजाय ज्येष्ठानां पतये ते नमो नमः॥४२॥
ब्रह्मणे ब्रह्मदात्रे वै ब्रह्मणां पतये नमः।
सिद्धेश्वराय देवानां दैत्यानां पतये नमः॥४३॥
चतुर्भुजाय हेरम्ब परशोर्धारकाय ते।
अङ्कुशन्धारिणे तुभ्यं निरङ्कुश नमो नमः॥४४॥
रजसा सृष्टिकर्त्रे ते पालने सात्त्विकाय ते।
तामसाय महाहन्त्रे गुणेशाय नमो नमः॥४५॥
स्थावराय चरायैव चराचरमयाय ते।
चराचरविहीनाय बोधाय च नमो नमः॥४६॥
चतुर्विधस्वरूपाय चतुर्विधसुखप्रद।
चतुःसुखस्वरूपाय स्वसंवेद्याय ते नमः॥४७॥
विनायकाय सर्वेषां नायकाय नमो नमः।
गजाननाय देवाय देवदेवेश ते नमः॥४८॥
किं स्तौमि त्वां गणाध्यक्ष ब्रह्मणस्पतिरूपिणम्।
यं स्तोतुं न समर्थाश्च योगिनो वेदमुख्यकाः॥४९॥
तवदर्शनबोधेन तथाऽपि संस्तुतो मया।
तेन तुष्टो भव स्वामिन् भक्तिं देहि दृढां त्वयि॥५०॥
इति स्तुत्वा गणेशानं दण्डवत् प्रणनाम तम्।
तामुत्थाप्य गणाधीश उवाच व्रतमातरम्॥५१॥

गणेश उवाच

वरं वृणु महाभागे यं यमिच्छसि शोभने।
तं तं दास्यामि सुप्रीतो भक्त्या स्तोत्रेण तोषितः॥५२॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत्।
यः पठेच्छृणुयाद् देवि ईप्सितं लभते नरः॥५३॥
एककालं द्विकालं वा त्रिकालं लभते सदा।
अव्रती व्रतसाफल्यं पठनान्नात्र संशयः॥५४॥
ब्रुवन्तं गणनाथं सोवाच गम्भीरनिःस्वना।
देवी प्रणम्य भावेन साश्रुनेत्रा प्रजापते॥५५॥

देव्युवाच

वरदोऽसि गणाधीश तदा देहि त्वयि स्थिराम्।
भक्तिं मे च तथा कार्ये सामर्थ्यं करुणानिधे॥५६॥
सृष्टिसर्जनसामर्थ्यं देहि नाथ नमोऽस्तु ते।
सदा तव प्रियत्वं मे वियोगो न च ते भवेत्॥५७॥
ओमित्युक्त्वा गणाधीशो जगाद वदतां वरः।
चतुर्विधप्रदा देवि प्रिया मम भविष्यसि॥५८॥
तिथीनां मातृभावेन चतुर्थी संज्ञिता भव।
वामभागे सदा कृष्णा शुक्ला दक्षिणभागके॥५९॥
मम जन्मतिथिस्त्वं वै भविष्यसि न संशयः।
सदा तव व्रते संस्थान् पालयामि विशेषतः॥६०॥
मदीयव्रतजा पुण्या तिथिस्त्वं च भविष्यसि।
व्रतेषु त्वत्समं नैव दायकं कुत्र वर्तते॥६१॥
एवमुक्त्वा गणेशानोऽन्तर्धानं प्रचकार ह।
व्रतमाता प्रजानाथाऽभवत् तत्रैव संस्थिता॥६२॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चतुर्थीतपोवर्णनं नाम प्रथमोऽध्यायः॥४-१॥