सङ्कष्ट-चतुर्थी-व्रत-कथा
(मूलम्—श्री-व्रतराजः)
ऋषय ऊचुः
दारिद्र्यशोककष्टाद्यैः पीडितानां च वैरिभिः।
राज्यभ्रष्टैर्नृपैः सर्वैः क्रियते किं शुभार्थिभिः॥१॥
धनहीनैर्नरैः स्कन्द सर्वोपद्रवपीडितैः।
विद्यापुत्रगृहभ्रष्टै रोगयुक्तैः शुभार्थिभिः॥२॥
कर्तव्यं किं वदोपायं पुनः क्षेमार्थसिद्धये।
स्कन्द उवाच
शृणुध्वं मुनयः सर्वे व्रतानामुत्तमं व्रतम्॥३॥
सङ्कष्टतरणं नामामुत्रेह सुखदायकम्।
येनोपायेन सङ्कष्टं तरन्ति भुवि देहिनः॥४॥
यद्व्रतं देवकीपुत्रः कृष्णो धर्माय दत्तवान्।
अरण्ये क्लिश्यमानाय पुनः क्षेमार्थसिद्धये॥५॥
यथा कथितवान् पूर्वं गणेशो मातरं प्रति।
तथा कथितवाञ्छ्रीशो द्वापरे पाण्डवान् प्रति॥६॥
ऋषय ऊचुः
कथं कथितवानम्बां पार्वतीं श्रीगणेश्वरः।
यथा पृच्छन्ति मुनयो लोकानुग्रहकाङ्क्षिणः॥७॥
स्कन्द उवाच
पुरा कृतयुगे पुण्ये हिमाचलसुता सती।
तपस्तप्तवती भूरि तेनालब्धः शिवः पतिः॥८॥
तदाऽस्मरत् सा हेरम्बं गणेशं पूर्वजं सुतम्।
तत्क्षणादागतं दृष्ट्वा गणेशं परिपृच्छति॥९॥
पार्वत्युवाच
तपस्तप्तं मया घोरं दुश्चरं लोमहर्षणम्।
न प्राप्तः स मया कान्तो गिरीशो मम वल्लभः॥१०॥
सङ्कष्टतरणं दिव्यं व्रतं नारद उक्तवान्।
त्वदीयं यद्व्रतं तावत् कथयस्व पुरातनम्॥११॥
तच्छ्रुत्वा पार्वतीवाक्यं सङ्कष्टतरणं व्रतम्।
प्रीत्या कथितवान् देवो गणेशो ज्ञानसिद्धिदः॥१२॥
गणेश उवाच
श्रावणे बहुले पक्षे चतुर्थ्यां तु विधूदये।
गणेशं पूजयित्वा तु चन्द्रायार्घ्यं प्रदापयेत्॥१३॥
पार्वत्युवाच
क्रियते केन विधिना किं कार्य किं च पूजनम्।
उद्यापनं कदा कार्यं मन्त्राः के स्युस्तु पूजने॥१४॥
किं ध्यानं श्रीगणेशस्य गणेश वद विस्तरात्।
गणेश उवाच
चतुर्थ्यां प्रातरुत्थाय दन्तधावनपूर्वकम्॥१५॥
ग्राह्यं व्रतमिदं पुण्यं सङ्कष्टतरणं शुभम्।
कर्तव्यमिति सङ्कल्प्य व्रतेऽस्मिन् गणपं स्मरेत्॥१६॥
स्वीकारमन्त्रः—
निराहारोऽस्मि देवेश यावच्चन्द्रोदये भवेत्।
भोक्ष्यामि पूजयित्वाऽहं सङ्कष्टात् तारयस्व माम्॥१७॥
एवं सङ्कल्प्य राजेन्द्र स्नात्वा कृष्णतिलैः शुभैः।
आह्निकं तु विधायैव पश्चात्पूज्यो गणाधिपः॥१८॥
त्रिभिर्माषैस्तदर्धेन तृतीयांशेन वा पुनः।
यथाशक्त्या तु वा हैमी प्रतिमा क्रियते मम॥१९॥
हेमाभावे तु रौप्यस्य ताम्रस्यापि यथासुखम्।
सर्वथैव दरिद्रेण क्रियते मृन्मयी शुभा॥२०॥
वित्तशाठ्यं न कर्तव्यं कृते कार्यं विनश्यति।
जलपूर्णं वस्त्रयुतं कुम्भं तदुपरि न्यसेत्॥२१॥
पूर्णपात्रं तत्र पद्मं लिखेदष्टदलं शुभम्।
देवतां तत्र संस्थाप्य गन्धपुष्पैः प्रपूजयेत्॥२२॥
एवं व्रतं प्रकर्तव्यं प्रतिमासं त्वयाऽद्रिजे।
यावज्जीवं तु वा वर्षाण्येकविंशतिमेव वा॥२३॥
अशक्तोऽप्येकवर्षं वा प्रतिवर्षमथापि वा।
उद्यापनं तु कर्तव्यं चतुर्थ्यां श्रावणेऽसिते॥२४॥
स्वीकारश्च तथा कार्यः सङ्कष्टहरणे तिथौ।
गाणपत्यं तथाऽऽचार्यं सर्वशास्त्रविशारदम्॥२५॥
श्रद्धया प्रार्थयेदादौ तेनोक्तं विधिमाचरेत्।
एकविंशतिविप्रांश्च वस्त्रालङ्कारभूषणैः॥२६॥
पूजयेद् गोहिरण्याद्यैर्हुत्वाऽग्नौ विधिपूर्वकम्।
होमद्रव्यं मोदकाश्च तिलयुक्ता घृतप्लुताः॥२७॥
अष्टोत्तरसहस्रं वा नोचेदष्टोत्तरं शतम्।
अष्टाविंशतिसङ्ख्याकान् मोदकान् वा सशर्करान्॥२८॥
अशक्तोऽष्टौ शुभान् स्थूलाञ्जुहुयाज्जातवेदसि।
वैदिकेन च मन्त्रेण आगमोक्तेन वा तथा॥२९॥
अथवा नाममन्त्रेण होमं कुर्याद् यथाविधि।
पुष्पमण्डपिका कार्या गणेशाह्लादकारिणी॥३०॥
पूजयेत् तत्र गणपं भक्तसङ्कष्टनाशनम्।
गीतवादित्रनिनदैर्भक्तिभावपुरस्कृतैः॥३१॥
पुराणवेदनिर्घोषैस्तोषयेच्च गणेश्वरम्।
एवं जागरणं कार्यं शक्त्या दानादिकं तथा॥३२॥
सपत्नीकमथाऽऽचार्यं तोषयेद् वस्त्रभूषणैः।
उपानच्छत्रगोदानकमण्डलुफलादिभिः॥३३॥
शय्यावाहनभूदानं धनधान्यगृहादिभिः।
यथाशक्त्या प्रकर्तव्यं दारिद्र्याभावमिच्छता॥३४॥
एकविंशतिविप्रांश्च भोजयेन्नामभिर्मम।
गजास्यो विघ्नराजश्च लम्बोदरशिवात्मजौ॥३५॥
वक्रतुण्डः शूर्पकर्णः कुब्जश्चैव विनायकः।
विघ्ननाशो हि विकटो वामनः सर्वदैवतः॥३६॥
सर्वार्तिनाशी भगवान् विघ्नहर्ता च धूम्रकः।
सर्वदेवाधिदेवश्च सर्वे षोडश वै स्मृताः॥३७॥
एकदन्तः कृष्णपिङ्गो भालचन्द्रो गणेश्वरः।
गणपश्चैकविंशश्च सर्व एते गणेश्वराः॥३८॥
दुर्गोपेन्द्रश्च रुद्रश्च कुलदेव्याधिकं भवेत्।
विशेषेणाष्टसङ्ख्याकैर्मोदकैर्हवनं स्मृतम्॥३९॥
एवं कृते विधानेन प्रसन्नोऽहं न संशयः।
ददामि वाञ्छितान् कामांस्तद्व्रतं मत्प्रियं कुरु॥४०॥
श्रीकृष्ण उवाच
एवं तु कथितं सर्वं गणेशेन स्वयं नृप।
पार्वत्या तत्कृतं राजन् व्रतं सङ्कष्टनाशनम्॥४१॥
व्रतेनानेन सा प्राप महादेवं पतिं स्वकम्।
तत् कुरुष्व महाराज व्रतं सङ्कष्टनाशनम्॥४२॥
चतुर्थी सङ्कटा नाम स्कन्देन कथिता ऋषीन्।
ऋषिभिर्लोककामैस्तैर्लोके ततमिदं व्रतम्॥४३॥
सूत उवाच
कृतं युधिष्ठिरेणैतद् राज्यकामेन वै द्विज।
तेन शत्रून् निहत्याऽऽजौ स्वराज्यं प्राप्तवान् स्वयम्॥४४॥
तस्मात् सर्वप्रयत्नेन व्रतं कार्यं विचक्षणैः।
येन धर्मार्थकामाश्च मोक्षश्चापि भवेत् किल॥४५॥
यः करोति व्रतं विप्राः सर्वकामार्थसिद्धिदम्।
स वाञ्छितफलं प्राप्य पश्चाद् गणपतां व्रजेत्॥४६॥
यदा यदा परं विप्रा नरः प्राप्नोति सङ्कटम्।
तदा तदा प्रकर्तव्यं व्रतं सङ्कष्टनाशनम्॥४७॥
त्रिपुरं हन्तुकामेन कृतं देवेन शूलिना।
त्रैलोक्यभूतिकामेन महेन्द्रेण तथा कृतम्॥४८॥
रावणेन कृतं पूर्वं वालिबन्धनसङ्कटे।
स्वकीयं प्राप्तवान् राज्यं गणेशस्य प्रसादतः॥४९॥
सीतान्वेषणकामेन कृतं वायुसुतेन च।
सङ्कल्प्य दृष्टवान् सोऽयं सीतां रामप्रियां पुरा॥५०॥
दमयन्त्या कृतं पूर्वं नलान्वेषणकारणात्।
सा पतिं नैषधं लेभे पुण्यश्लोकं द्विजोत्तमाः।
अहल्याऽपि पतिं लेभे गौतमं प्राणवल्लभम्॥५१॥
विद्यार्थी लभते विद्यां धनार्थी धनमाप्नुयात्।
पुत्रार्थी पुत्रमाप्नोति रोगी रोगात् प्रमुच्यते॥५२॥
॥इति श्रीस्कन्दपुराणोक्तं सङ्कष्टचतुर्थीव्रतम्॥
❀ ❀ ❀
मुद्गलपुराणान्तर्गत-चतुर्थीव्रत-माहात्म्यानि
चतुर्थी-तपो-वर्णनम्
शुक्ल--कृष्ण-चतुर्थी-वरदान-वर्णनम्
प्रतिपदादिव्रत-वर्णनम्
दशरथ-व्रतोपदेशः
चतुर्थीविवेक-वर्णनम्
चन्द्रदर्शन-दोष-हरण-चरित-वर्णनम्
भाद्रपद-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
आश्विन-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
कार्तिक-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
मार्गशीर्ष-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
पौष-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
माघ-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
फाल्गुन-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
चैत्र-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
वैशाख-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
ज्येष्ठ-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
आषाढ-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
श्रावण-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
मलमास-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
माघ-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
फाल्गुन-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
चैत्र-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
वैशाख-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
ज्येष्ठ-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
आषाढ-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
श्रावण-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
भाद्रपद-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
आश्विन-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
कार्तिक-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
मार्गशीर्ष-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
पौष-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
मलमास-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
शमी-मूल-चतुर्थी-व्रताचरण-वर्णनम्
वसिष्ठ-दशरथ-संवाद-समाप्ति-वर्णनम्
चतुर्थ्युद्यापन-निरूपणम्