षोडशोपचार-पूजा

सौवर्णरौप्यताम्रमृन्मयाद्यन्यतमां गणपतिमूर्तिं कृत्वा जलपूर्णं पूर्णपात्रं वस्त्रयुतकुम्भोपरि स्थापयित्वा
षोडशोपचारैः पूजयेत्।

लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम्।
नानारत्नैः सुवेषाढ्यं प्रसन्नास्यं विचिन्तयेत्॥
ध्यायेद्गजाननं देवं तप्तकाञ्चनसुप्रभम्।
चतुर्बाहुं महाकायं सूर्यकोटिसमप्रभम्॥

अस्मिन् बिम्बे/प्रतिमायां/चित्रपटे श्री-सिद्धिविनायकं ध्यायामि।

आगच्छ त्वं जगन्नाथ सुरासुरनमस्कृत।
अनाथनाथ सर्वज्ञ विघ्नराज कृपां कुरु॥
स॒हस्र॑शीर्‌षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात्।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा। अत्य॑तिष्ठद्दशाङ्गु॒लम्॥

गजास्याय नमः, अस्मिन् बिम्बे/प्रतिमायां/चित्रपटे गजास्यमावाहयामि।

गोप्ता त्वं सर्वलोकानामिन्द्रादीनां विशेषतः।
भक्तदारिद्र्यविच्छेत्ता एकदन्त नमोऽस्तु ते॥
पुरु॑ष ए॒वेदꣳ सर्वम्᳚। यद्भू॒तं यच्च॒ भव्यम्᳚।
उ॒तामृ॑त॒त्वस्येशा॑नः। यदन्ने॑नाति॒रोह॑ति॥

विघ्नराजाय नमः, आसनं समर्पयामि।

मोदकान्धारयन्हस्ते भक्तानां वरदायक।
देवदेव नमस्तेऽस्तु भक्तानां फलदो भव॥
ए॒तावा॑नस्य महि॒मा। अतो॒ ज्यायाꣴ॑श्च॒ पूरु॑षः।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑। त्रि॒पाद॑स्या॒मृतं॑ दि॒वि॥

लम्बोदराय नमः, पाद्यं समर्पयामि।

महाकाय महारूप अनन्तफलदो भव।
देवदेव नमस्तेऽस्तु सर्वेषां पापनाशन॥
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः। पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑।
ततो॒ विश्व॒ङ्व्य॑क्रामत्। सा॒श॒ना॒न॒श॒ने अ॒भि॥

शङ्करसूनवे नमः, अर्घ्यं समर्पयामि।

कुरुष्वाचमनं देव सुरवन्द्य सुवाहन।
सर्वाघदलनस्वामिन्नीलकण्ठ नमोऽस्तु ते॥
तस्मा᳚द्वि॒राड॑जायत। वि॒राजो॒ अधि॒ पूरु॑षः।
स जा॒तो अत्य॑रिच्यत। प॒श्चाद्भूमि॒मथो॑ पु॒रः॥

उमासुताय नमः, आचमनीयं समर्पयामि।

स्नानं पञ्चामृतेनैव गृहाण गणनायक।
अनाथनाथ सर्वज्ञ नमो मूषकवाहन॥
पयो-दधि-घृतं चैव शर्करामधुसंयुतम्।
पञ्चामृतेन स्नपनं प्रीत्यर्थं प्रतिगृह्यताम्॥
यत्पुरु॑षेण ह॒विषा᳚। दे॒वा य॒ज्ञमत॑न्वत।
व॒स॒न्तो अ॑स्याऽऽसी॒दाज्यम्᳚। ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः॥

वक्रतुण्डाय नमः, पञ्चामृतस्नानम् समर्पयामि।

गङ्गा च यमुना चैव गोदावरिसरस्वती।
नर्मदा सिन्धुकावेरी जलं स्नानाय कल्पितम्॥
स॒प्तास्या॑ऽऽसन् परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः। अब॑ध्न॒न् पु॑रुषं प॒शुम्॥

हेरम्बाय नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।

रक्तवस्त्रसुयुग्मं च देवानामपि दुर्लभम्।
गृहाण मङ्गलं देव लम्बोदर हरात्मज॥
तं य॒ज्ञं ब॒र्{}हिषि॒ प्रौक्षन्॑। पुरु॑षं जा॒तम॑ग्र॒तः।
तेन॑ दे॒वा अय॑जन्त। सा॒ध्या ऋष॑यश्च॒ ये॥

शूर्पकर्णाय नमः, वस्त्रं समर्पयामि।

ब्रह्मसूत्रं सोत्तरीयं गृहाण गणनायक।
आरक्तं ब्रह्मसूत्रं च कनकस्योत्तरीयकम्॥
तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। सम्भृ॑तं पृषदा॒ज्यम्।
प॒शूꣴस्ताꣴश्च॑क्रे वाय॒व्यान्॑। आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये॥

कुब्जाय नमः, यज्ञोपवीतं समर्पयामि।

उद्यद्भास्करसङ्काशं सन्ध्यावदरुणं प्रभो।
वीरालङ्करणं दिव्यं सिन्दूरं प्रतिगृह्यताम्॥

श्री-सिद्धिविनायकाय नमः, सिन्दूरं समर्पयामि।

नानाविधानि दिव्यानि नानारत्नोज्ज्वलानि च।
भूषणानि गृहाणेश पार्वतीप्रियनन्दन॥

श्री-सिद्धिविनायकाय नमः, आभरणानि समर्पयामि।

गृहाणेश्वर सर्वज्ञ दिव्यचन्दनमुत्तमम्।
करुणाकर गुञ्जाक्ष गौरीसुत नमोऽस्तु ते॥
तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। ऋचः॒ सामा॑नि जज्ञिरे।
छन्दाꣳसि जज्ञिरे॒ तस्मा᳚त्। यजु॒स्तस्मा॑दजायत॥

गणेश्वराय नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।

अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण गणनायक॥

श्री-सिद्धिविनायकाय नमः, अक्षतान् समर्पयामि।

सुगन्धिदिव्यमालां च गृहाण गणनायक।
विनायक नमस्तुभ्यं शिवसूनो नमोऽस्तु ते॥
माल्यादीनि सुगन्धीनि मालत्यादीनि मे प्रभो।
मयाऽऽहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥

श्री-सिद्धिविनायकाय नमः, पुष्पमालां समर्पयामि।

करवीरैर्जातिकुसुमैश्चम्पकैर्बकुलैः शुभैः।
शतपत्रैश्च कह्लारैरर्चयेद् गणनायकम्॥
तस्मा॒दश्वा॑ अजायन्त। ये के चो॑भ॒याद॑तः।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त्। तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑॥

विघ्ननाशिने नमः, पुष्पाणि समर्पयामि। पुष्पैः पूजयामि।
विघ्ननाशिने नमः, दूर्वाकुङ्कुमादि समर्पयामि।
[अनेनैव नाम्ना दूर्वाकुङ्कुमादि दद्यात्।]

अङ्ग-पूजा

१.गणेश्वरायपादौ
२.विघ्नराजायजानुनी
३.आखुवाहनायऊरू
४.हेरम्बायकटिं
५.कामारिसूनवेनाभिं
६.लम्बोदरायउदरं
७.गौरीसुतायस्तनौ
८.गणनायकायहृदयं
९.स्थूलकण्ठायकण्ठं
१०.स्कन्दाग्रजायस्कन्धौ
११.पाशहस्तायहस्तौ
१२.गजवक्त्रायवक्त्रं
१३.विघ्नहर्त्रेललाटं
१४.सर्वेश्वरायशिरः
१५.श्रीगणाधिपायसर्वाण्यङ्गानि

एकविंशति-दूर्वायुग्म-पूजा

१.गणाधिपाय
२.पाशाङ्कुशधराय
३.आखुवाहनाय
४.विनायकाय
५.ईशपुत्राय
६.सर्वसिद्धि-प्रदाय
७.एकदन्ताय
८.इभवक्त्राय
९.मूषिकवाहनाय
१०.कुमारगुरवे
११.कपिलवर्णाय
१२.ब्रह्मचारिणे
१३.मोदकहस्ताय
१४.सुरश्रेष्ठाय
१५.गजनासिकाय
१६.कपित्थफल-प्रियाय
१७.गजमुखाय
१८.सुप्रसन्नाय
१९.सुराग्रजाय
२०.उमापुत्राय
२१.स्कन्दप्रियाय