षोडशोपचार-पूजा
सौवर्णरौप्यताम्रमृन्मयाद्यन्यतमां गणपतिमूर्तिं कृत्वा जलपूर्णं पूर्णपात्रं वस्त्रयुतकुम्भोपरि स्थापयित्वा
षोडशोपचारैः पूजयेत्।
लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम्।
नानारत्नैः सुवेषाढ्यं प्रसन्नास्यं विचिन्तयेत्॥
ध्यायेद्गजाननं देवं तप्तकाञ्चनसुप्रभम्।
चतुर्बाहुं महाकायं सूर्यकोटिसमप्रभम्॥
अस्मिन् बिम्बे/प्रतिमायां/चित्रपटे श्री-सिद्धिविनायकं ध्यायामि।
आगच्छ त्वं जगन्नाथ सुरासुरनमस्कृत।
अनाथनाथ सर्वज्ञ विघ्नराज कृपां कुरु॥
स॒हस्र॑शीर्षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात्।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा। अत्य॑तिष्ठद्दशाङ्गु॒लम्॥
गजास्याय नमः, अस्मिन् बिम्बे/प्रतिमायां/चित्रपटे गजास्यमावाहयामि।
गोप्ता त्वं सर्वलोकानामिन्द्रादीनां विशेषतः।
भक्तदारिद्र्यविच्छेत्ता एकदन्त नमोऽस्तु ते॥
पुरु॑ष ए॒वेदꣳ सर्वम्᳚। यद्भू॒तं यच्च॒ भव्यम्᳚।
उ॒तामृ॑त॒त्वस्येशा॑नः। यदन्ने॑नाति॒रोह॑ति॥
विघ्नराजाय नमः, आसनं समर्पयामि।
मोदकान्धारयन्हस्ते भक्तानां वरदायक।
देवदेव नमस्तेऽस्तु भक्तानां फलदो भव॥
ए॒तावा॑नस्य महि॒मा। अतो॒ ज्यायाꣴ॑श्च॒ पूरु॑षः।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑। त्रि॒पाद॑स्या॒मृतं॑ दि॒वि॥
लम्बोदराय नमः, पाद्यं समर्पयामि।
महाकाय महारूप अनन्तफलदो भव।
देवदेव नमस्तेऽस्तु सर्वेषां पापनाशन॥
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः। पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑।
ततो॒ विश्व॒ङ्व्य॑क्रामत्। सा॒श॒ना॒न॒श॒ने अ॒भि॥
शङ्करसूनवे नमः, अर्घ्यं समर्पयामि।
कुरुष्वाचमनं देव सुरवन्द्य सुवाहन।
सर्वाघदलनस्वामिन्नीलकण्ठ नमोऽस्तु ते॥
तस्मा᳚द्वि॒राड॑जायत। वि॒राजो॒ अधि॒ पूरु॑षः।
स जा॒तो अत्य॑रिच्यत। प॒श्चाद्भूमि॒मथो॑ पु॒रः॥
उमासुताय नमः, आचमनीयं समर्पयामि।
स्नानं पञ्चामृतेनैव गृहाण गणनायक।
अनाथनाथ सर्वज्ञ नमो मूषकवाहन॥
पयो-दधि-घृतं चैव शर्करामधुसंयुतम्।
पञ्चामृतेन स्नपनं प्रीत्यर्थं प्रतिगृह्यताम्॥
यत्पुरु॑षेण ह॒विषा᳚। दे॒वा य॒ज्ञमत॑न्वत।
व॒स॒न्तो अ॑स्याऽऽसी॒दाज्यम्᳚। ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः॥
वक्रतुण्डाय नमः, पञ्चामृतस्नानम् समर्पयामि।
गङ्गा च यमुना चैव गोदावरिसरस्वती।
नर्मदा सिन्धुकावेरी जलं स्नानाय कल्पितम्॥
स॒प्तास्या॑ऽऽसन् परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः। अब॑ध्न॒न् पु॑रुषं प॒शुम्॥
हेरम्बाय नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।
रक्तवस्त्रसुयुग्मं च देवानामपि दुर्लभम्।
गृहाण मङ्गलं देव लम्बोदर हरात्मज॥
तं य॒ज्ञं ब॒र्{}हिषि॒ प्रौक्षन्॑। पुरु॑षं जा॒तम॑ग्र॒तः।
तेन॑ दे॒वा अय॑जन्त। सा॒ध्या ऋष॑यश्च॒ ये॥
शूर्पकर्णाय नमः, वस्त्रं समर्पयामि।
ब्रह्मसूत्रं सोत्तरीयं गृहाण गणनायक।
आरक्तं ब्रह्मसूत्रं च कनकस्योत्तरीयकम्॥
तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। सम्भृ॑तं पृषदा॒ज्यम्।
प॒शूꣴस्ताꣴश्च॑क्रे वाय॒व्यान्॑। आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये॥
कुब्जाय नमः, यज्ञोपवीतं समर्पयामि।
उद्यद्भास्करसङ्काशं सन्ध्यावदरुणं प्रभो।
वीरालङ्करणं दिव्यं सिन्दूरं प्रतिगृह्यताम्॥
श्री-सिद्धिविनायकाय नमः, सिन्दूरं समर्पयामि।
नानाविधानि दिव्यानि नानारत्नोज्ज्वलानि च।
भूषणानि गृहाणेश पार्वतीप्रियनन्दन॥
श्री-सिद्धिविनायकाय नमः, आभरणानि समर्पयामि।
गृहाणेश्वर सर्वज्ञ दिव्यचन्दनमुत्तमम्।
करुणाकर गुञ्जाक्ष गौरीसुत नमोऽस्तु ते॥
तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। ऋचः॒ सामा॑नि जज्ञिरे।
छन्दाꣳसि जज्ञिरे॒ तस्मा᳚त्। यजु॒स्तस्मा॑दजायत॥
गणेश्वराय नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण गणनायक॥
श्री-सिद्धिविनायकाय नमः, अक्षतान् समर्पयामि।
सुगन्धिदिव्यमालां च गृहाण गणनायक।
विनायक नमस्तुभ्यं शिवसूनो नमोऽस्तु ते॥
माल्यादीनि सुगन्धीनि मालत्यादीनि मे प्रभो।
मयाऽऽहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥
श्री-सिद्धिविनायकाय नमः, पुष्पमालां समर्पयामि।
करवीरैर्जातिकुसुमैश्चम्पकैर्बकुलैः शुभैः।
शतपत्रैश्च कह्लारैरर्चयेद् गणनायकम्॥
तस्मा॒दश्वा॑ अजायन्त। ये के चो॑भ॒याद॑तः।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त्। तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑॥
विघ्ननाशिने नमः, पुष्पाणि समर्पयामि। पुष्पैः पूजयामि।
विघ्ननाशिने नमः, दूर्वाकुङ्कुमादि समर्पयामि।
[अनेनैव नाम्ना दूर्वाकुङ्कुमादि दद्यात्।]
अङ्ग-पूजा
| १. | गणेश्वराय | पादौ |
| २. | विघ्नराजाय | जानुनी |
| ३. | आखुवाहनाय | ऊरू |
| ४. | हेरम्बाय | कटिं |
| ५. | कामारिसूनवे | नाभिं |
| ६. | लम्बोदराय | उदरं |
| ७. | गौरीसुताय | स्तनौ |
| ८. | गणनायकाय | हृदयं |
| ९. | स्थूलकण्ठाय | कण्ठं |
| १०. | स्कन्दाग्रजाय | स्कन्धौ |
| ११. | पाशहस्ताय | हस्तौ |
| १२. | गजवक्त्राय | वक्त्रं |
| १३. | विघ्नहर्त्रे | ललाटं |
| १४. | सर्वेश्वराय | शिरः |
| १५. | श्रीगणाधिपाय | सर्वाण्यङ्गानि |
एकविंशति-दूर्वायुग्म-पूजा
| १. | गणाधिपाय |
| २. | पाशाङ्कुशधराय |
| ३. | आखुवाहनाय |
| ४. | विनायकाय |
| ५. | ईशपुत्राय |
| ६. | सर्वसिद्धि-प्रदाय |
| ७. | एकदन्ताय |
| ८. | इभवक्त्राय |
| ९. | मूषिकवाहनाय |
| १०. | कुमारगुरवे |
| ११. | कपिलवर्णाय |
| १२. | ब्रह्मचारिणे |
| १३. | मोदकहस्ताय |
| १४. | सुरश्रेष्ठाय |
| १५. | गजनासिकाय |
| १६. | कपित्थफल-प्रियाय |
| १७. | गजमुखाय |
| १८. | सुप्रसन्नाय |
| १९. | सुराग्रजाय |
| २०. | उमापुत्राय |
| २१. | स्कन्दप्रियाय |
दशाङ्गं गुग्गुलं धूपमुत्तमं गणनायक।
गृहाण देव देवेश उमासुत नमोऽस्तु ते॥
यत्पुरु॑षं॒ व्य॑दधुः। क॒ति॒धा व्य॑कल्पयन्।
मुखं॒ किम॑स्य॒ कौ बा॒हू। कावू॒रू पादा॑वुच्येते॥
विकटाय नमः, धूपमाघ्रापयामि।
सर्वज्ञ सर्वरत्नाढ्य सर्वेश विबुधप्रिय।
गृहाण मङ्गलं दीपं घृतवर्तिसमन्वितम्॥
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत्। बा॒हू रा॑ज॒न्यः॑ कृ॒तः।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑। प॒द्भ्याꣳ शू॒द्रो अ॑जायत॥
वामनाय नमः, अलङ्कारदीपं सन्दर्शयामि।
दीपानन्तरम् आचमनीयं समर्पयामि।
नैवेद्यं गृह्यतां देव नानामोदकसंयुतम्।
पक्वान्नफलसंयुक्तं षड्रसैश्च समन्वितम्॥
च॒न्द्रमा॒ मन॑सो जा॒तः। चक्षोः॒ सूर्यो॑ अजायत।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑। प्रा॒णाद्वा॒युर॑जायत॥
सर्वदेवाय नमः, ( ) निवेदयामि,
अमृतापिधानमसि।
कृष्णावेण्यागौतमीनां पयोष्णीनर्मदाजलैः।
आचम्यतां विघ्नराज प्रसन्नो भव सर्वदा॥
निवेदनानन्तरम् आचमनीयं समर्पयामि।
फलान्यमृतकल्पानि सुगन्धीन्यघनाशन।
आनीतानि यथाशक्त्या गृहाण गणनायक॥
सर्वार्तिनाशिने नमः, फलं समर्पयामि।
एकविंशतिसङ्ख्याकान् मोदकान् घृतपाचितान्।
नैवेद्यं सफलं दद्यान्नमस्ते विघ्ननाशिने॥
श्री-सिद्धिविनायकाय नमः, मोदकान् समर्पयामि।
ताम्बूलं गृह्यतां देव नागवल्ल्या दलैर्युतम्।
कर्पूरेण समायुक्तं सुगन्धं मुखभूषणम्॥
नाभ्या॑ आसीद॒न्तरि॑क्षम्। शी॒र्ष्णो द्यौः सम॑वर्तत।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त्। तथा॑ लो॒काꣳ अ॑कल्पयन्॥
विघ्नहर्त्रे नमः, कर्पूरताम्बूलं समर्पयामि।
सर्वदेवाधिदेव त्वं सर्वसिद्धिप्रदायक।
भक्त्या दत्तां मया देव गृहाण दक्षिणां विभो॥
सर्वेश्वराय नमः, दक्षिणां समर्पयामि।
पञ्चवर्तिसमायुक्तं वह्निना योजितं मया।
गृहाण मङ्गलं दीपं विघ्नराज नमोऽस्तु ते॥
चन्द्रादित्यौ च धरणी विद्युदग्निस्तथैव च।
त्वमेव सर्वतेजांसि आर्तिक्यं प्रतिगृह्यताम्॥
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚। आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑। नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚॥
श्री-सिद्धिविनायकाय नमः, समस्त-अपराध-क्षमापनार्थं कर्पूरनीराजनं दर्शयामि।
कर्पूरनीरजनानन्तरम् आचमनीयं समर्पयामि।
रक्षां धारयामि। पुष्पैः पूजयामि।
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑। श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॒ अय॑नाय विद्यते॥
यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति।
य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति।ओं᳚ तद्ब्र॒ह्म। ओं᳚ तद्वा॒युः। ओं᳚ तदा॒त्मा।
ओं᳚ तथ्स॒त्यम्। ओं᳚ तथ्सर्वम्᳚। ओं᳚ तत्पुरो॒र्नमः॥अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु।
त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ
रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः।
त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्॥
यो वेदादौ स्व॑रः प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः।
तस्य॑ प्र॒कृति॑लीन॒स्य॒ यः॒ परः॑ स म॒हेश्व॑रः॥
श्री-सिद्धिविनायकाय नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि।
यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि तानि विनश्यन्ति प्रदक्षिण-पदे पदे॥
प्रदक्षिणं कृत्वा।
नमस्ते विघ्नसंहत्रे नमस्ते ईप्सितप्रद।
नमस्ते देवदेवेश नमस्ते गणनायक॥
विनायकेशपुत्रस्त्वं गजराज सुरोत्तम।
देहि मे सकलान् कामान् वन्दे सिद्धिविनायक॥
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः॥
स॒प्तास्या॑ऽऽसन् परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः। अब॑ध्न॒न् पु॑रुषं प॒शुम्॥
श्री-सिद्धिविनायकाय नमः, नमस्कारान् समर्पयामि।
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः। तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते। यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः॥
श्री-सिद्धिविनायकाय नमः, छत्रचामर-नृत्त-गीत-वाद्यादि समस्तराजोपचारान् समर्पयामि।
यन्मयाऽऽचरितं देव व्रतमेतत् सुदुर्लभम्।
गणेश त्वं प्रसन्नः सन् सफलं कुरु सर्वदा॥
विनायक गणेशान सर्वदेवनमस्कृत।
पार्वतीप्रिय विघ्नेश मम विघ्नान्निवारय॥
नमो नमो गणेशाय नमस्ते विश्वरूपिणे।
निर्विघ्नं कुरु मे कामं नमामि त्वां गजानन॥
अगजाननपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥
विनायक वरं देहि महात्मन् मोदकप्रिय।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
प्रार्थनाः समर्पयामि।
एवं पूजा प्रकर्तव्या षोडशैरुपचारकैः।
मोदकान्कारयेन्मातस्तिलजान्दश पार्वति॥
देवाग्रे स्थापयेत्पञ्च पञ्च विप्राय कल्पयेत्।
पूजयित्वा तु तं विप्रं भक्तिभावेन देववत्॥
दक्षिणां च यथाशक्त्या दत्त्वा वै पञ्चमोदकान्।
पूजयेन्निशि चन्द्रं च अर्घ्यं दत्त्वा यथाविधि॥
अर्घ्यम्
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-सिद्धिविनायक-प्रीत्यर्थं श्री-सङ्कष्टचतुर्थीव्रत-पूजान्ते क्षीरार्घ्यप्रदानं करिष्ये॥
(हस्ते साक्षतपुष्पं क्षीरं गृहीत्वा)
क्षीरसागरसम्भूत सुधारूप निशाकर।
गृहाणार्घ्यं मया दत्तं गणेशप्रीतिवर्धनम्॥१॥
रोहिणीसहितचन्द्रमसे नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
क्षीरोदार्णवसम्भूत सुधारूप निशाकर।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन्॥२॥
रोहिणीसहितचन्द्रमसे नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
गणेशाय नमस्तुभ्यं सर्वसिद्धिप्रदायक।
सङ्कष्टं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते॥३॥
सङ्कष्टहरगणेशाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
कृष्णपक्षे चतुर्थ्यां तु पूजितोऽसि विधूदये।
क्षिप्रं प्रसादितो देव गृहाणार्घ्यं नमोऽस्तु ते॥४॥
सङ्कष्टहरगणेशाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
तिथीनामुत्तमे देवि गणेशप्रियवल्लभे।
सर्वसङ्कष्टनाशाय चतुर्थ्यर्घ्यं नमोऽस्तु ते॥५॥
चतुर्थ्यै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
उपायन-दानम्
आचार्य पूजा
अद्यपूर्वोक्त-एवङ्गुण-विशेषण-विशिष्टायामस्यां चतुर्थ्यां शुभतिथौ श्री-सिद्धिविनायक-पूजा-फलसिद्ध्यर्थं ब्राह्मणपूजाम् उपायन-दानं च करिष्ये॥
श्री-महागणपति-स्वरूपस्य ब्राह्मणस्य इदमासनम्। गन्धादि-सकलाराधनैः स्वर्चितम्॥
[अथैकविंशतिं गृह्य मोदकान् घृतपाचितान्।
स्थापयित्वा गणाध्यक्षसमीपे कुरुनन्दन॥
दश विप्राय दातव्याः स्थापयेद् दश आत्मनि।
एकं गणाधिपे दद्यात् सघृतं मोदकं शुभम्]॥
वायनमन्त्रः
विप्रवर्य नमस्तुभ्यं मोदकान्वै ददाम्यहम्।
मोदकान्सफलान् पञ्च दक्षिणाभिः समन्वितान्।
आपदुद्धरणार्थाय गृहाण द्विजसत्तम॥
प्रार्थना
अबुद्धमतिरिक्तं वा द्रव्यहीनं मया कृतम्।
सत्सर्वं पूर्णतां यातु विप्ररूप गणेश्वर॥
ब्राह्मणान् भोजयेद् देवि यथान्नेन यथासुखम्।
स्वयं भुञ्जीत पञ्चैव मोदकान्फलसंयुतान्॥
अशक्तश्चैकमन्नं वा भुञ्जीत दधिसंयुतम्।
अथवा भोजनं कार्यमेकवारं हिमागजे॥
प्रतिमां गुरवे दद्यादाचार्याय सदक्षिणाम्।
वस्त्रकुम्भसमायुक्तामादौ मन्त्रमिमं जपेत्॥
ॐ नमो हेरम्ब मदमोहित सङ्कष्टान्निवारय निवारय।
इति मूलमन्त्रमेकविंशतिवारं जपेत्।
उपायन-दानम्
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे॥
श्री-सङ्कष्टचतुर्थीव्रत-पूजा-पुण्यकाले अस्मिन् मया क्रियमाण-श्री-सिद्धिविनायक-पूजायां
यद्देयमुपायनदानं तत्प्रत्याम्नायार्थं हिरण्यं श्री-सिद्धिविनायक-प्रीतिं
कामयमानः मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम।
विसर्जनमन्त्रः
गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने त्वं गणेश्वर।
व्रतेनानेन देवेश यथोक्तफलदो भव॥
अनया पूजया श्री-सिद्धिविनायकः प्रीयताम्।
अपराध-क्षमापनम्
यस्य स्मृत्या च नामोक्त्या तपः-पूजा-क्रियादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे गजाननम्॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
सर्वं तत्सद्ब्रह्मार्पणमस्तु।