पञ्चाङ्ग-पूजा
पूर्वाङ्ग-विघ्नेश्वर-पूजा
(आचम्य)
प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]
ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]
अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
अर्चना
सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
प्रार्थनाः समर्पयामि।
षोडशोपचार-पूजा
प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।
सङ्कल्पः
ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे अस्मिन् वर्तमाने व्यावहारिकाणां
प्रभवादि-षष्टिसंवत्सराणां मध्ये ( )-नाम-संवत्सरे उत्तरायणे वसन्त-ऋतौ
चान्द्रमान-संवत्सरारम्भः
चैत्र-मासे शुक्ल-पक्षे प्रथमायां शुभतिथौ ( )वासरयुक्तायां ( )-नक्षत्रयुक्तायां ( )-योगयुक्तायां ( )-करण-युक्तायाम् एवं-गुण-विशेषण-विशिष्टायाम् अस्यां ( )
सौरमान-संवत्सरारम्भः
मीन-चैत्र-मासे शुक्ल-पक्षे प्रथमायां शुभतिथौ ( )वासरयुक्तायां ( )-नक्षत्रयुक्तायां ( )-योगयुक्तायां ( )-करणयुक्तायाम् एवं-गुण-विशेषण-विशिष्टायाम् अस्यां ( )
अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुर्-आरोग्य-ऐश्वर्याभिवृद्ध्यर्थं
धर्मार्थकाममोक्ष-चतुर्विधफलपुरुषार्थसिद्ध्यर्थं सत्सन्तानाभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थम्
महागणपत्यादि-त्रयस्त्रिंशत्-कोटि-देवता-प्रीत्यर्थं
संवत्सर-अयन-ऋतु-मास-पक्ष-तिथि-वार-
नक्षत्र-योग-करण-देवता-प्रीत्यर्थम्
आदित्यादि-नवग्रह-देवता-प्रीत्यर्थं च यावच्छक्ति-ध्यान-आवाहनादि-षोडशोपचारपूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि।
(गणपति-प्रसादं शिरसा गृहीत्वा)
आसन-पूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥
घण्टा-पूजा
कलश-पूजा
कलशाय नमः दिव्यगन्धान् धारयामि।
श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्म-पूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः
समस्तोपचारान् समर्पयामि।
पीठ-पूजा
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः
गुरु-ध्यानम्
ध्यान-श्लोकः
अस्मिन् पञ्चाङ्ग-पुस्तके ( )-संवत्सर-देवतां ( ) ध्यायामि। ( ) आवाहयामि।
उत्तरायण-देवतां ध्यायामि। उत्तरायण-देवताम् आवाहयामि।
दक्षिणायन-देवतां ध्यायामि। दक्षिणायन-देवताम् आवाहयामि।
वसन्तादि-ऋतु-देवताः ध्यायामि। वसन्तादि-ऋतु-देवताः आवाहयामि।
मेषादि-मास-देवताः ध्यायामि। मेषादि-मास-देवताः आवाहयामि।
शुक्ल-पक्ष-देवताम् इन्दुं ध्यायामि। शुक्ल-पक्ष-देवताम् इन्दुम् आवाहयामि।
कृष्ण-पक्ष-देवतां सूर्यं ध्यायामि। कृष्ण-पक्ष-देवतां सूर्यम् आवाहयामि।
तिथि-देवताः ध्यायामि। तिथि-देवताः आवाहयामि।
वार-देवताः ध्यायामि। वार-देवताः आवाहयामि।
कृत्तिकादि-अष्टाविंशति-नक्षत्र-देवताः ध्यायामि। कृत्तिकादि-अष्टाविंशति-नक्षत्र-देवताः आवाहयामि।
विष्कम्भादि-योग-देवताः ध्यायामि। विष्कम्भादि-योग-देवताः आवाहयामि।
बवादि-करण-देवताः ध्यायामि। बवादि-करण-देवताः आवाहयामि।
आदित्यादि-नवग्रह-देवताः ध्यायामि। आदित्यादि-नवग्रह-देवताः आवाहयामि।
( )-समस्त-देवताभ्यो नमः, आसनं समर्पयामि।
( )-समस्त-देवताभ्यो नमः, पाद्यं समर्पयामि।
( )-समस्त-देवताभ्यो नमः, अर्घ्यं समर्पयामि।
( )-समस्त-देवताभ्यो नमः, आचमनीयं समर्पयामि।
( )-समस्त-देवताभ्यो नमः, शुद्धोदकस्नानं समर्पयामि।
( )-समस्त-देवताभ्यो नमः, स्नानानन्तरम् आचमनीयं समर्पयामि।
( )-समस्त-देवताभ्यो नमः, वस्त्रार्थम् अक्षतान् समर्पयामि।
( )-समस्त-देवताभ्यो नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
( )-समस्त-देवताभ्यो नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
( )-समस्त-देवताभ्यो नमः, अक्षतान् समर्पयामि। पुष्पैः पूजयामि।
( )-संवत्सर-देवतायै ( ) नमः
उत्तरायण-देवतायै नमः
दक्षिणायन-देवतायै नमः
वसन्तादि-ऋतु-देवताभ्यो नमः
मेषादि-मास-देवताभ्यो नमः
शुक्ल-पक्ष-देवतायै इन्दवे नमः
कृष्ण-पक्ष-देवतायै सूर्याय नमः
तिथि-देवताभ्यो नमः
वार-देवताभ्यो नमः
कृत्तिकादि-अष्टाविंशति-नक्षत्र-देवताभ्यो नमः
विष्कम्भादि-योग-देवताभ्यो नमः
बवादि-करण-देवताभ्यो नमः
आदित्याय नमः
सोमाय नमः
मङ्गलाय नमः
बुधाय नमः
गुरवे नमः
शुक्राय नमः
शनैश्चराय नमः
राहवे नमः
केतवे नमः
( )-समस्त-देवताभ्यो नमः, नानाविध-परिमल-पत्र-पुष्पाणि समर्पयामि।
( )-समस्त-देवताभ्यो नमः, धूपमाघ्रापयामि।
( )-समस्त-देवताभ्यो नमः, दीपं दर्शयामि।
नैवेद्यम्। ( )-समस्त-देवताभ्यो नमः, निम्बकुसुमभक्षणं कदलीफलं च निवेदयामि। आचमनीयं समर्पयामि।
( )-समस्त-देवताभ्यो नमः, कर्पूरताम्बूलं समर्पयामि। ( )-समस्त-देवताभ्यो नमः, कर्पूरनीराजनं दर्शयामि।
( )-समस्त-देवताभ्यो नमः, समस्तोपचारान् समर्पयामि।
( )-समस्त-देवताभ्यो नमः, प्रदक्षिणनमस्कारान् समर्पयामि।
प्रार्थनाः समर्पयामि।
अनेन पूजनेन अग्न्यादयः प्रीयन्ताम्।
ॐ तत्सद्ब्रह्मार्पणमस्तु।
लघु-पञ्चाङ्ग-पठन-पद्धतिः
During the Panchanga reading, the following should be read:
The year’s Navanayaka phalam,
Makara Sankranti phalam,
Kandhaaya phalam,
Rashi phalam,
Grahanas, and
details on the Udaya and Astamana of the Grahas.
Then, the Chithirai 1st date Panchanga should be read twice.
These details will be given in every Panchanga in different places. One should note them down the previous day and read them after the Panchanga Puja, while others listen.
निम्बकुसुमभक्षणम्
Shloka for partaking the Nimba Kusuma Bhakshanam
नवग्रहस्तोत्रम्
(सूर्यः)
(चन्द्रः)
(अङ्गारकः)
(बुधः)
(बृहस्पतिः)
(शुक्रः)
(शनैश्चरः)
(राहुः)
(केतुः)
॥इति श्रीव्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम्॥