श्री-लक्ष्मी--कुबेर-पूजा
पूर्वाङ्ग-विघ्नेश्वर-पूजा
(आचम्य)
प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]
ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]
अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
अर्चना
सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
प्रार्थनाः समर्पयामि।
प्रधान-पूजा — श्रीमहालक्ष्मी-पूजा
प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे दक्षिणायने
शरद्-ऋतौ तुला-मासे कृष्णपक्षे अमावास्यायां शुभतिथौ
(इन्दु / भौम / बुध / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायाम्
( ) नक्षत्र ( )-योग (चतुष्पात्/नागव) करण युक्तायां च एवं गुण विशेषण विशिष्टायाम्
अस्याम् अमावास्यायां शुभतिथौ
अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम्
धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थम्
मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं
श्रीमहालक्ष्मी-प्रीत्यर्थं श्रीमहालक्ष्मी-पूजां करिष्ये। तदङ्गं मातृगणपूजां नवग्रहपूजां लोकपाल-पूजां च करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)
आसन-पूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥
घण्टा-पूजा
कलश-पूजा
कलशाय नमः दिव्यगन्धान् धारयामि।
श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्म-पूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः
समस्तोपचारान् समर्पयामि।
पीठ-पूजा
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः
गुरु-ध्यानम्
मातृगण-पूजा
ॐ गौर्यै नमः
ॐ पद्मायै नमः
ॐ शच्यै नमः
ॐ मेधायै नमः
ॐ सावित्र्यै नमः
ॐ विजयायै नमः
ॐ जयायै नमः
ॐ देवसेनायै नमः
ॐ स्वधायै नमः
ॐ स्वाहायै नमः
ॐ मातृभ्यो नमः
ॐ लोकमातृभ्यो नमः
ॐ धृत्यै नमः
ॐ पुष्ट्यै नमः
ॐ तुष्ट्यै नमः
ॐ आत्मनः कुलदेवतायै नमः
षोडश-मातृभ्यो नमः ध्यायामि। आवाहयामि। आसनं समर्पयामि।
पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि।
ॐ भूर्भुवस्सुवः। शुद्धोदकस्नानं समर्पयामि।
स्नानानन्तरमाचमनीयं समर्पयामि।
वस्त्रार्थमक्षतान् समर्पयामि।
आभरणार्थम् अक्षतान् समर्पयामि।
दिव्यपरिमलगन्धान् धारयामि।
गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि। अक्षतान् समर्पयामि।
पुष्पमालिकां समर्पयामि।
धूपदीपार्थम् अक्षतान् समर्पयामि।
नैवेद्यम्। (कदलीफलानि)
कर्पूरताम्बूलं कर्पूरनीराजनार्थं अक्षतान् समर्पयामि।
प्रार्थनाः समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
नवग्रहपूजा
(चित्रे दर्शितया रीत्या मण्डलानि प्रतिष्ठाप्य आरभेत।)
आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च। हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽदे॒वो या॑ति॒
भुव॑ना वि॒पश्यन्॑। अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम्। अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुम्᳚॥
येषा॒मीशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त च॑ द्वि॒पदा᳚म्। निष्क्री॑तो॒ऽयं य॒ज्ञियं॑ भा॒गमे॑तु
रा॒यस्पोषा॒ यज॑मानस्य सन्तु॥ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं आदित्य-ग्रहं ध्यायामि। आवाहयामि।
अ॒ग्निर्मू॒र्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम्। अ॒पाꣳ रेतासि जिन्वति। स्यो॒ना पृ॑थिवि॒
भवा॑ऽनृक्ष॒रा नि॒वेश॑नी। यच्छा॑नः॒ शर्म॑ स॒प्रथाः᳚। क्षेत्र॑स्य॒ पति॑ना व॒यꣳ हि॒ते ने॑व जयामसि।
गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृडाती॒दृशे᳚॥ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं अङ्गारक-ग्रहं ध्यायामि। आवाहयामि।
प्रवः॑ शु॒क्राय॑ भा॒नवे॑ भरध्वꣳ ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू॑तम्॥ यो दैव्या॑नि॒ मानु॑षा
ज॒नूꣴष्य॒न्तर्विश्वा॑नि वि॒द्म ना॒ जिगा॑ति॥ इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्नी॑म॒हम॑श्रवम्। न
ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पतिः॑॥ इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने᳚भ्यः। अ॒स्माक॑मस्तु॒
केव॑लः॥ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं शुक्र-ग्रहं ध्यायामि। आवाहयामि।
आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम्। भवा॒ वाज॑स्य सङ्ग॒थे॥ अ॒प्सु मे॒ सोमो॑
अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा। अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः। गौ॒री मि॑माय
सलि॒लानि॒ तक्ष॒ती। एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी। अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी। स॒हस्रा᳚क्षरा पर॒मे
व्यो॑मन्। अधिदेवता प्रत्यधिदेवता सहिताय सोमाय॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं सोम-ग्रहं ध्यायामि। आवाहयामि।
उद्बु॑ध्यस्वाग्ने॒ प्रति॑जागृह्येनमिष्टापू॒र्ते सꣳसृ॑जेथाम॒यं च॑। पुनः॑ कृ॒ण्वꣴस्त्वा॑ पि॒तरं॒
युवा॑नम॒न्वातासी॒त्वयि॒ तन्तु॑मे॒तम्॥ इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम्। समू॑ढमस्यपाꣳ
सु॒रे॥ विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णोः॒ श्नप्त्रे᳚स्थो॒ विष्णोः॒ स्यूर॑सि॒
विष्णो᳚र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा। अधिदेवता प्रत्यधिदेवता सहिताय बुधाय॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं बुध-ग्रहं ध्यायामि। आवाहयामि।
बृह॑स्पते॒ अति॒यद॒र्यो अर्हा᳚द्वि॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु। यद्दी॒दय॒च्छव॑सर्तप्रजात॒
तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम्॥ इन्द्र॑मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑।
तव॒ प्रणी॑ती॒ तव॑ शूर॒शर्म॒न्नावि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः॥ ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं
पु॒रस्ता॒द्विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः। सबु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒
विवः॑॥ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं बृहस्पति-ग्रहं ध्यायामि। आवाहयामि।
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚। शंयोर॒भिस्र॑वन्तु नः॥ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो
विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव। यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्। इ॒मं
य॑मप्रस्त॒रमाहि सीदाऽङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः। आत्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्
ह॒विषा॑ मादयस्व॥ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्चराय॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं शनैश्चर-ग्रहं ध्यायामि। आवाहयामि।
कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑धः॒ सखा᳚। कया॒ शचि॑ष्ठया वृ॒ता। आऽयङ्गौः
पृश्नि॑रक्रमी॒दस॑नन्मा॒तरं॒ पुनः॑। पि॒तरं॑ च प्र॒यन्त्सुवः॑। यत्ते॑ दे॒वी निर्ऋ॑तिराब॒बन्ध॒ दाम॑
ग्री॒वास्व॑विच॒र्त्यम्। इ॒दं ते॒ तद्विष्या॒म्यायु॑षो॒ न मध्या॒दथा॑जी॒वः पि॒तुम॑द्धि॒ प्रमु॑क्तः॥
अधिदेवता प्रत्यधिदेवता सहिताय राहवे॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं राहु-ग्रहं ध्यायामि। आवाहयामि।
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚। समु॒षद्भि॑रजायथाः॥ ब्र॒ह्मा दे॒वानां᳚ पद॒वीः
क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म्। श्ये॒नो गृध्रा॑णा॒ꣴ॒ स्वधि॑ति॒र्वना॑ना॒ꣳ॒ सोमः॑
प॒वित्र॒मत्ये॑ति॒ रेभन्॑। (ऋक्) सचि॑त्र चि॒त्रं चि॒तयन्᳚ तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम्।
च॒न्द्रं र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ चन्द्र॑च॒न्द्राभि॑र्गृण॒ते यु॑वस्व॥ अधिदेवता प्रत्यधिदेवता
सहिताय केतवे॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं केतु-ग्रहं ध्यायामि। आवाहयामि।
आदित्यादि नवग्रहदेवताभ्यो नमः आसनं समर्पयामि।
पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि।
शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।
वस्त्रार्थम् अक्षतान् समर्पयामि।
यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
दिव्यपरिमलगन्धान् धारयामि।
गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि। अक्षतान् समर्पयामि।
पुष्पैः पूजयामि।
ॐ आदित्याय नमः
ॐ अङ्गारकाय नमः
ॐ शुक्राय नमः
ॐ सोमाय नमः
ॐ बुधाय नमः
ॐ बृहस्पतये नमः
ॐ शनैश्चराय नमः
ॐ राहवे नमः
ॐ केतवे नमः
नानाविध-परिमल-पत्र-पुष्पाणि समर्पयामि।
आदित्यादि नवग्रहदेवताभ्यो नमः धूपमाघ्रापयामि।
दीपं दर्शयामि।
नैवेद्यम्।
कर्पूरताम्बूलं समर्पयामि। कर्पूरनीराजनं दर्शयामि।
प्रार्थनाः समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
आदित्यादि नवग्रहदेवताभ्यो नमः (अक्षतान् समर्पयित्वा) यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
लोकपाल-पूजा
प्राणान् आयम्य।
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् अद्य-पूर्वोक्त एवं गुण-विशेषेण विशिष्टायाम् अस्यां
अमावास्यायां शुभतिथौ श्रीमहालक्ष्मी-पूजाङ्गभूतां ब्रह्म-विष्णु-त्र्यम्बक-क्षेत्रपाल-पूजां करिष्ये।
अस्मिन् कूर्चे ब्रह्मादीन् ध्यायामि। ब्रह्मन् सरस्वत्या सह इह आगच्छ आगच्छ। सरस्वती-सहित-ब्रह्माणम् आवाहयामि। आसनं समर्पयामि।
लक्ष्मी-विष्णुभ्यां नमः।
ध्यायामि। आवाहयामि। आसनं समर्पयामि।
दुर्गा-त्र्यम्बकाभ्यां नमः।
ध्यायामि। आवाहयामि। आसनं समर्पयामि।
क्षेत्रपाल-भूमिभ्यां नमः।
ध्यायामि। आवाहयामि। आसनं समर्पयामि।
ब्रह्मादिभ्यो नमः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि।
आचमनीयं समर्पयामि। शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।
वस्त्रार्थम् अक्षतान् समर्पयामि।
यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
दिव्यपरिमलगन्धान् धारयामि।
गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि। अक्षतान् समर्पयामि।
पुष्पैः पूजयामि।
नैवेद्यम्।
कर्पूरताम्बूलं समर्पयामि। कर्पूरनीराजनं दर्शयामि।
प्रार्थनाः समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
ब्रह्मादिभ्यो नमः (अक्षतान् समर्पयित्वा) यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
प्रार्थना
षोडशोपचार-पूजा
हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्णर॑जत॒स्रजाम्।
च॒न्द्रां॒ हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह॥१॥
अस्मिन् बिम्बे श्रीमहालक्ष्मीं ध्यायामि।
श्रीमहालक्ष्मीम् आवाहयामि।
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म्।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम्॥२॥
श्री-महालक्ष्म्यै नमः, आसनं समर्पयामि।अ॒श्व॒पू॒र्वां र॑थम॒ध्यां॒ ह॒स्तिना॑दप्र॒बोधि॑नीम्।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम्॥३॥
श्री-महालक्ष्म्यै नमः, पाद्यं समर्पयामि।कां॒ सो॒ऽ॒स्मि॒तां हिर॑ण्यप्राकारामा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम्।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम्॥४॥
श्री-महालक्ष्म्यै नमः, अर्घ्यं समर्पयामि।च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम्।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे॥५॥
श्री-महालक्ष्म्यै नमः, आचमनीयं समर्पयामि।आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः॥६॥
श्री-महालक्ष्म्यै नमः, घृतेन स्नपयामि। पुनः शुद्धोदकं समर्पयामि।
श्री-महालक्ष्म्यै नमः, पयसा स्नपयामि। पुनः शुद्धोदकं समर्पयामि।
श्री-महालक्ष्म्यै नमः, दध्ना स्नपयामि। पुनः शुद्धोदकं समर्पयामि।
श्री-महालक्ष्म्यै नमः, मधुना स्नपयामि। पुनः शुद्धोदकं समर्पयामि।
श्री-महालक्ष्म्यै नमः, पञ्चामृतेन स्नपयामि। पुनः शुद्धोदकं समर्पयामि।
(कलशजलेन श्री-सूक्तं जप्य) श्री-महालक्ष्म्यै नमः, शुद्धोदकस्नानं समर्पयामि।
स्नानानन्तरम् आचमनीयं समर्पयामि।उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽ॒स्मि॒न्॒ की॒र्तिमृद्धिं॑ ददा॒तु मे॥७॥
श्री-महालक्ष्म्यै नमः, वस्त्रं समर्पयामि।क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठा॒मल॒क्ष्मीं ना॑शया॒म्यहम्।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहात्॥८॥
श्री-महालक्ष्म्यै नमः, कण्ठसूत्रं समर्पयामि।
श्री-महालक्ष्म्यै नमः, आभरणानि समर्पयामि।ग॒न्ध॒द्वा॒रां दु॑राध॒र्॒षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म्।
ई॒श्वरीं᳚ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम्॥९॥
श्री-महालक्ष्म्यै नमः, तिलकं समर्पयामि।मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यशः॑॥१०॥
श्री-महालक्ष्म्यै नमः, पुष्पमालां धारयामि।
अङ्ग-पूजा
| १. | ॐ चपलायै नमः | पादौ पूजयामि |
| २. | चञ्चलायै नमः | जानुनी पूजयामि |
| ३. | कमलायै नमः | कटिं पूजयामि |
| ४. | कात्यायन्यै नमः | नाभिं पूजयामि |
| ५. | जगन्मात्रे नमः | जठरं पूजयामि |
| ६. | विश्ववल्लभायै नमः | वक्षःस्थलं पूजयामि |
| ७. | कमलवासिन्यै नमः | हस्तौ पूजयामि |
| ८. | पद्माननायै नमः | मुखं पूजयामि |
| ९. | कमलपत्राक्ष्यै नमः | नेत्रत्रयं पूजयामि |
| १०. | श्रियै नमः | शिरः पुजयामि |
| ११. | महालक्ष्म्यै नमः | सर्वाणि अङ्गानि पूजयामि |
अष्टलक्ष्मी-अर्चना
(प्राच्याम् आरभ्य अष्टदिक्षु प्रदक्षिणेन)
ॐ आद्यलक्ष्म्यै नमः
ॐ विद्यालक्ष्म्यै नमः
ॐ सौभाग्यलक्ष्म्यै नमः
ॐ अमृतलक्ष्म्यै नमः
ॐ कामलक्ष्म्यै नमः
ॐ सत्यलक्ष्म्यै नमः
ॐ भोगलक्ष्म्यै नमः
ॐ योगलक्ष्म्यै नमः
आद्यादिलक्ष्मीनां षोडशोपचार-पूजार्थे पुष्पाणि समर्पयामि।
उत्तराङ्ग-पूजा
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्ममा॒लिनीम्॥११॥
श्री-महालक्ष्म्यै नमः, धूपमाघ्रापयामि।
आपः॑ सृ॒जन्तु॑ स्निग्धा॒नि॒ चिक्ली॒त व॑स मे॒ गृहे।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले॥१२॥
श्री-महालक्ष्म्यै नमः, अलङ्कारदीपं सन्दर्शयामि।
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम्।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह॥१३॥
नैवेद्यम्
श्री-महालक्ष्म्यै नमः, ( ) निवेदयामि।
अमृतापिधानमसि। निवेदनानन्तरम् आचमनीयं समर्पयामि।
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
श्री-महालक्ष्म्यै नमः, कर्पूरताम्बूलं समर्पयामि।
श्री-महालक्ष्म्यै नमः, समस्त-अपराध-क्षमापनार्थं कर्पूरनीराजनं दर्शयामि।
कर्पूरनीरजनानन्तरम् आचमनीयं समर्पयामि।
यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति।
य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति।
ओं᳚ तद्ब्र॒ह्म। ओं᳚ तद्वा॒युः। ओं᳚ तदा॒त्मा। ओं᳚ तथ्स॒त्यम्।
ओं᳚ तथ्सर्वम्᳚। ओं᳚ तत्पुरो॒र्नमः॥
अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु।
त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः।
त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम्॥
श्री-महालक्ष्म्यै नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
श्री-महालक्ष्म्यै नमः, अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
श्री-महालक्ष्म्यै नमः, छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
ईशानादि पूजा
ॐ ईशानाय नमः
ॐ शचिने नमः
ॐ मरुद्भ्यो नमः
ॐ प्रजापतये नमः
ॐ विश्वेभ्यो देवेभ्यो नमः
ॐ अमरराजाय नमः
ॐ सूर्याय नमः
ॐ विश्वकर्मणे नमः
ॐ गुरवे नमः
ॐ अथर्वाङ्गिरोभ्यां नमः
ॐ अश्विभ्यां नमः
ॐ मित्रावरुणाभ्यां नमः
ॐ विष्णवे नमः
ॐ ईशानादिभ्यो नमः
षोडशोपचार-पूजार्थे पुष्पाणि समर्पयामि।
कुबेर पूजा
कुबेराय नमः, षोडशोपचार-पूजां करिष्ये।
कुबेराय नमः, आवाहयामि।
कुबेराय नमः, आसनं समर्पयामि।
कुबेराय नमः, पाद्यं समर्पयामि।
कुबेराय नमः, अर्घ्यं समर्पयामि।
कुबेराय नमः, आचमनीयं समर्पयामि।
कुबेराय नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।
कुबेराय नमः, वस्त्रं समर्पयामि।
कुबेराय नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
कुबेराय नमः, अक्षतान् समर्पयामि।
कुबेराय नमः, पुष्पैः पूजयामि।
कुबेराय नमः, धूपमाघ्रापयामि।
कुबेराय नमः, अलङ्कारदीपं सन्दर्शयामि।
कुबेराय नमः, कदलीफलानि निवेदयामि,
कुबेराय नमः, अमृतापिधानमसि। निवेदनानन्तरम् आचमनीयं समर्पयामि।
कुबेराय नमः, कर्पूरताम्बूलं समर्पयामि।
कुबेराय नमः, कर्पूरनीराजनं दर्शयामि।
कुबेराय नमः, कर्पूरनीरजनानन्तरम् आचमनीयं समर्पयामि।
कुबेराय नमः, समस्तोपचारान् समर्पयामि।
नमस्कारः
महालक्ष्म्यै नमः, नमस्करोमि।
प्रार्थना
अपराध-क्षमापनम्
आश्वयुज-अमावास्या-पुण्यकालेऽस्मिन् मया क्रियमाण-श्रीमहालक्ष्मी-पूजायां
यद्देयमुपायनदानं तत्प्रतिनिधित्वेन हिरण्यं श्री-महालक्ष्मीप्रीतिं
कामयमानः मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम।
अनया पूजया श्री-महालक्ष्मीः प्रीयताम्।
ॐ तत्सद्ब्रह्मार्पणमस्तु।