स्तोत्रसंहिताStotraSamhita
Pūjā

श्री-लक्ष्मी–कुबेर-पूजा

Śrī-lakṣmī–kubera-pūjā

पूर्वाङ्ग-विघ्नेश्वर-पूजा

(आचम्य)

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि॥

ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]

अगजानानपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥

अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।

अर्चना

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः॥
गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम्।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम्॥

अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते॥

प्रार्थनाः समर्पयामि।

❀

प्रधान-पूजा — श्रीमहालक्ष्मी-पूजा

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।

सङ्कल्पः

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे दक्षिणायने
शरद्-ऋतौ तुला-मासे कृष्णपक्षे अमावास्यायां शुभतिथौ
(इन्दु / भौम / बुध / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायाम्
( ) नक्षत्र ( )-योग (चतुष्पात्/नागव) करण युक्तायां च एवं गुण विशेषण विशिष्टायाम्
अस्याम् अमावास्यायां शुभतिथौ
अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम्
धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थम्
मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं
श्रीमहालक्ष्मी-प्रीत्यर्थं श्रीमहालक्ष्मी-पूजां करिष्ये। तदङ्गं मातृगणपूजां नवग्रहपूजां लोकपाल-पूजां च करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)

आसन-पूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु॥

घण्टा-पूजा

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताऽऽह्वानकारणम्॥

कलश-पूजा

कलशाय नमः दिव्यगन्धान् धारयामि।

गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु॥

श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः।
अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः॥
सर्वे समुद्राः सरितः तीर्थानि च ह्रदा नदाः।
आयान्तु देवपूजार्थं दुरितक्षयकारकाः॥

(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)

आत्म-पूजा

आत्मने नमः, दिव्यगन्धान् धारयामि।

१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः

समस्तोपचारान् समर्पयामि।

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत्॥

पीठ-पूजा

आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः

गुरु-ध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥

मातृगण-पूजा

ॐ गौर्यै नमः
ॐ पद्मायै नमः
ॐ शच्यै नमः
ॐ मेधायै नमः
ॐ सावित्र्यै नमः
ॐ विजयायै नमः
ॐ जयायै नमः
ॐ देवसेनायै नमः
ॐ स्वधायै नमः
ॐ स्वाहायै नमः
ॐ मातृभ्यो नमः
ॐ लोकमातृभ्यो नमः
ॐ धृत्यै नमः
ॐ पुष्ट्यै नमः
ॐ तुष्ट्यै नमः
ॐ आत्मनः कुलदेवतायै नमः
षोडश-मातृभ्यो नमः ध्यायामि। आवाहयामि। आसनं समर्पयामि।
पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि।
ॐ भूर्भुवस्सुवः। शुद्धोदकस्नानं समर्पयामि।
स्नानानन्तरमाचमनीयं समर्पयामि।
वस्त्रार्थमक्षतान् समर्पयामि।
आभरणार्थम् अक्षतान् समर्पयामि।
दिव्यपरिमलगन्धान् धारयामि।
गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि। अक्षतान् समर्पयामि।
पुष्पमालिकां समर्पयामि।
धूपदीपार्थम् अक्षतान् समर्पयामि।
नैवेद्यम्। (कदलीफलानि)
कर्पूरताम्बूलं कर्पूरनीराजनार्थं अक्षतान् समर्पयामि।
प्रार्थनाः समर्पयामि।

आयुरारोग्यमैश्वर्यं ददध्वं मातरो मम।
निर्विघ्नं सर्वकार्येषु कुरुध्वं सगणाधिपाः॥
गौरी पद्मा शची मेधा सावित्री विजया जया।
देवसेना स्वधा स्वाहा मातरो लोकमातरः॥
धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता।
गणेशेनाधिका ह्येता वरदाभयपाणयः॥

अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

नवग्रहपूजा

(चित्रे दर्शितया रीत्या मण्डलानि प्रतिष्ठाप्य आरभेत।)

जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥१॥

आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च। हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽदे॒वो या॑ति॒
भुव॑ना वि॒पश्यन्॑। अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम्। अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुम्᳚॥
येषा॒मीशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त च॑ द्वि॒पदा᳚म्। निष्क्री॑तो॒ऽयं य॒ज्ञियं॑ भा॒गमे॑तु
रा॒यस्पोषा॒ यज॑मानस्य सन्तु॥ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं आदित्य-ग्रहं ध्यायामि। आवाहयामि।

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम्॥२॥

अ॒ग्निर्मू॒र्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम्। अ॒पाꣳ रेतासि जिन्वति। स्यो॒ना पृ॑थिवि॒
भवा॑ऽनृक्ष॒रा नि॒वेश॑नी। यच्छा॑नः॒ शर्म॑ स॒प्रथाः᳚। क्षेत्र॑स्य॒ पति॑ना व॒यꣳ हि॒ते ने॑व जयामसि।
गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृडाती॒दृशे᳚॥ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं अङ्गारक-ग्रहं ध्यायामि। आवाहयामि।

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्॥३॥

प्रवः॑ शु॒क्राय॑ भा॒नवे॑ भरध्वꣳ ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू॑तम्॥ यो दैव्या॑नि॒ मानु॑षा
ज॒नूꣴष्य॒न्तर्विश्वा॑नि वि॒द्म ना॒ जिगा॑ति॥ इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्नी॑म॒हम॑श्रवम्। न
ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पतिः॑॥ इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने᳚भ्यः। अ॒स्माक॑मस्तु॒
केव॑लः॥ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं शुक्र-ग्रहं ध्यायामि। आवाहयामि।

दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥४॥

आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम्। भवा॒ वाज॑स्य सङ्ग॒थे॥ अ॒प्सु मे॒ सोमो॑
अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा। अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः। गौ॒री मि॑माय
सलि॒लानि॒ तक्ष॒ती। एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी। अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी। स॒हस्रा᳚क्षरा पर॒मे
व्यो॑मन्। अधिदेवता प्रत्यधिदेवता सहिताय सोमाय॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं सोम-ग्रहं ध्यायामि। आवाहयामि।

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥५॥

उद्बु॑ध्यस्वाग्ने॒ प्रति॑जागृह्येनमिष्टापू॒र्ते सꣳसृ॑जेथाम॒यं च॑। पुनः॑ कृ॒ण्वꣴस्त्वा॑ पि॒तरं॒
युवा॑नम॒न्वातासी॒त्वयि॒ तन्तु॑मे॒तम्॥ इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम्। समू॑ढमस्यपाꣳ
सु॒रे॥ विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णोः॒ श्नप्त्रे᳚स्थो॒ विष्णोः॒ स्यूर॑सि॒
विष्णो᳚र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा। अधिदेवता प्रत्यधिदेवता सहिताय बुधाय॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं बुध-ग्रहं ध्यायामि। आवाहयामि।

देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम्।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥६॥

बृह॑स्पते॒ अति॒यद॒र्यो अर्हा᳚द्वि॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु। यद्दी॒दय॒च्छव॑सर्तप्रजात॒
तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम्॥ इन्द्र॑मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑।
तव॒ प्रणी॑ती॒ तव॑ शूर॒शर्म॒न्नावि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः॥ ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं
पु॒रस्ता॒द्विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः। सबु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒
विवः॑॥ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं बृहस्पति-ग्रहं ध्यायामि। आवाहयामि।

नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्॥७॥

शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚। शंयोर॒भिस्र॑वन्तु नः॥ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो
विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव। यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्। इ॒मं
य॑मप्रस्त॒रमाहि सीदाऽङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः। आत्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्
ह॒विषा॑ मादयस्व॥ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्चराय॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं शनैश्चर-ग्रहं ध्यायामि। आवाहयामि।

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्।
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्॥८॥

कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑धः॒ सखा᳚। कया॒ शचि॑ष्ठया वृ॒ता। आऽयङ्गौः
पृश्नि॑रक्रमी॒दस॑नन्मा॒तरं॒ पुनः॑। पि॒तरं॑ च प्र॒यन्त्सुवः॑। यत्ते॑ दे॒वी निर्ऋ॑तिराब॒बन्ध॒ दाम॑
ग्री॒वास्व॑विच॒र्त्यम्। इ॒दं ते॒ तद्विष्या॒म्यायु॑षो॒ न मध्या॒दथा॑जी॒वः पि॒तुम॑द्धि॒ प्रमु॑क्तः॥
अधिदेवता प्रत्यधिदेवता सहिताय राहवे॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं राहु-ग्रहं ध्यायामि। आवाहयामि।

पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम्।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥९॥

के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚। समु॒षद्भि॑रजायथाः॥ ब्र॒ह्मा दे॒वानां᳚ पद॒वीः
क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म्। श्ये॒नो गृध्रा॑णा॒ꣴ॒ स्वधि॑ति॒र्वना॑ना॒ꣳ॒ सोमः॑
प॒वित्र॒मत्ये॑ति॒ रेभन्॑। (ऋक्) सचि॑त्र चि॒त्रं चि॒तयन्᳚ तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम्।
च॒न्द्रं र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ चन्द्र॑च॒न्द्राभि॑र्गृण॒ते यु॑वस्व॥ अधिदेवता प्रत्यधिदेवता
सहिताय केतवे॒ नमः॑॥
अस्मिन् मण्डले अधिदेवता-प्रत्यधिदेवता-सहितं केतु-ग्रहं ध्यायामि। आवाहयामि।
आदित्यादि नवग्रहदेवताभ्यो नमः आसनं समर्पयामि।
पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि।
शुद्धोदकस्नानं समर्पयामि।
स्नानानन्तरम् आचमनीयं समर्पयामि।
वस्त्रार्थम् अक्षतान् समर्पयामि।
यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
दिव्यपरिमलगन्धान् धारयामि।
गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि। अक्षतान् समर्पयामि।
पुष्पैः पूजयामि।
ॐ आदित्याय नमः
ॐ अङ्गारकाय नमः
ॐ शुक्राय नमः
ॐ सोमाय नमः
ॐ बुधाय नमः
ॐ बृहस्पतये नमः
ॐ शनैश्चराय नमः
ॐ राहवे नमः
ॐ केतवे नमः
नानाविध-परिमल-पत्र-पुष्पाणि समर्पयामि।
आदित्यादि नवग्रहदेवताभ्यो नमः धूपमाघ्रापयामि।
दीपं दर्शयामि।
नैवेद्यम्।
कर्पूरताम्बूलं समर्पयामि। कर्पूरनीराजनं दर्शयामि।
प्रार्थनाः समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
आदित्यादि नवग्रहदेवताभ्यो नमः (अक्षतान् समर्पयित्वा) यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।

लोकपाल-पूजा

प्राणान् आयम्य।
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् अद्य-पूर्वोक्त एवं गुण-विशेषेण विशिष्टायाम् अस्यां
अमावास्यायां शुभतिथौ श्रीमहालक्ष्मी-पूजाङ्गभूतां ब्रह्म-विष्णु-त्र्यम्बक-क्षेत्रपाल-पूजां करिष्ये।
अस्मिन् कूर्चे ब्रह्मादीन् ध्यायामि। ब्रह्मन् सरस्वत्या सह इह आगच्छ आगच्छ। सरस्वती-सहित-ब्रह्माणम् आवाहयामि। आसनं समर्पयामि।
लक्ष्मी-विष्णुभ्यां नमः।
ध्यायामि। आवाहयामि। आसनं समर्पयामि।
दुर्गा-त्र्यम्बकाभ्यां नमः।
ध्यायामि। आवाहयामि। आसनं समर्पयामि।
क्षेत्रपाल-भूमिभ्यां नमः।
ध्यायामि। आवाहयामि। आसनं समर्पयामि।
ब्रह्मादिभ्यो नमः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि।
आचमनीयं समर्पयामि। शुद्धोदकस्नानं समर्पयामि।
स्नानानन्तरम् आचमनीयं समर्पयामि।
वस्त्रार्थम् अक्षतान् समर्पयामि।
यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
दिव्यपरिमलगन्धान् धारयामि।
गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि। अक्षतान् समर्पयामि।
पुष्पैः पूजयामि।
नैवेद्यम्।
कर्पूरताम्बूलं समर्पयामि। कर्पूरनीराजनं दर्शयामि।
प्रार्थनाः समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
ब्रह्मादिभ्यो नमः (अक्षतान् समर्पयित्वा) यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।

प्रार्थना

विघ्नराजं नमस्कृत्य नमस्कृत्य विधिं परम्।
विष्णुं रुद्रं श्रियं दुर्गां वन्दे भक्त्या सरस्वतीम्॥
क्षेत्राधिपं नमस्कृत्य दिवानाथं निशाकरम्।
धरणीगर्भसम्भूतं शशिपुत्रं बृहस्पतिम्॥
दैत्याचार्यं नमस्कृत्य सूर्यपुत्रं महाग्रहम्।
राहुकेतू नमस्कृत्य यज्ञारम्भे विशेषतः॥
शक्राद्या देवताः सर्वाः मुनींश्च प्रणमाम्यहम्।
गर्गं मुनिं नमस्कृत्य नारदं मुनिसत्तमम्॥
वसिष्ठं मुनिशार्दूलं विश्वामित्रं भृगोः सुतम्।
व्यासं मुनिं नमस्कृत्य आचार्यांश्च तपोधनान्॥
सर्वान् तान् प्रणमाम्येवं यज्ञरक्षाकरान् सदा।
शङ्खचक्रगदाशार्ङ्ग-पद्मपाणिर्जनार्दनः॥
सर्वासु दिक्षु रक्षेन्मां यावत् पूजावसानकम्।

षोडशोपचार-पूजा

अरुणकमलसंस्था तद्रजःपुञ्जवर्णा
करकमलधृतेष्टाऽभीतियुग्माम्बुजा च।
मणिमकुटविचित्रालङ्कृता कल्पजातैः
भवतु भुवनमाता सन्ततं श्रीः श्रियै नः॥

हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्णर॑जत॒स्रजाम्।
च॒न्द्रां॒ हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह॥१॥
अस्मिन् बिम्बे श्रीमहालक्ष्मीं ध्यायामि।

आवाहये महालक्ष्मि चैतन्यस्तन्यदायिनि।
विष्णुपत्नि जगन्मातः पूजां गृह्णीष्व ते नमः॥

श्रीमहालक्ष्मीम् आवाहयामि।
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म्।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम्॥२॥

तप्तकाञ्चनवर्णाभं मुक्तामणिविराजितम्।
अमलं कमलं दिव्यम् आसनं प्रतिगृह्यताम्॥

श्री-महालक्ष्म्यै नमः, आसनं समर्पयामि।अ॒श्व॒पू॒र्वां र॑थम॒ध्यां॒ ह॒स्तिना॑दप्र॒बोधि॑नीम्।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम्॥३॥

गङ्गातीर्थ-समुद्भूतं गन्ध-पुष्पादिभिर्युतम्।
पाद्यं ददाम्यहं देवि गृहाणाऽऽशु नमोऽस्तु ते॥

श्री-महालक्ष्म्यै नमः, पाद्यं समर्पयामि।कां॒ सो॒ऽ॒स्मि॒तां हिर॑ण्यप्राकारामा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम्।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम्॥४॥

एलागन्धसमायुक्तं स्वर्णपात्रे प्रपूरितम्।
अर्घ्यं गृहाण मद्दत्तं प्रसीद त्वं महेश्वरि॥

श्री-महालक्ष्म्यै नमः, अर्घ्यं समर्पयामि।च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम्।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे॥५॥

सर्वलोकस्य या शक्तिः ब्रह्मरुद्रादिभिः स्तुता।
ददाम्याचमनं तस्यै महालक्ष्म्यै मनोहरम्॥

श्री-महालक्ष्म्यै नमः, आचमनीयं समर्पयामि।आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः॥६॥
श्री-महालक्ष्म्यै नमः, घृतेन स्नपयामि। पुनः शुद्धोदकं समर्पयामि।
श्री-महालक्ष्म्यै नमः, पयसा स्नपयामि। पुनः शुद्धोदकं समर्पयामि।
श्री-महालक्ष्म्यै नमः, दध्ना स्नपयामि। पुनः शुद्धोदकं समर्पयामि।
श्री-महालक्ष्म्यै नमः, मधुना स्नपयामि। पुनः शुद्धोदकं समर्पयामि।
श्री-महालक्ष्म्यै नमः, पञ्चामृतेन स्नपयामि। पुनः शुद्धोदकं समर्पयामि।
(कलशजलेन श्री-सूक्तं जप्य) श्री-महालक्ष्म्यै नमः, शुद्धोदकस्नानं समर्पयामि।
स्नानानन्तरम् आचमनीयं समर्पयामि।उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽ॒स्मि॒न्॒ की॒र्तिमृद्धिं॑ ददा॒तु मे॥७॥

दिव्याम्बरयुगं सूक्ष्मं कञ्चुकं च मनोहरम्।
महालक्ष्मि महादेवि गृहाणेदं मयाऽर्पितम्॥

श्री-महालक्ष्म्यै नमः, वस्त्रं समर्पयामि।क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठा॒मल॒क्ष्मीं ना॑शया॒म्यहम्।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहात्॥८॥

माङ्गल्यमणिसंयुक्तं मुक्ताविद्रुमसंयुतम्।
दत्तं मङ्गलसूत्रं च गृहाण हरिवल्लभे॥

श्री-महालक्ष्म्यै नमः, कण्ठसूत्रं समर्पयामि।

रत्नकङ्कणवैडूर्य-मुक्ताहारादिकानि च।
सुप्रसन्नेन मनसा दत्तानि त्वं गृहाण मे॥

श्री-महालक्ष्म्यै नमः, आभरणानि समर्पयामि।ग॒न्ध॒द्वा॒रां दु॑राध॒र्॒‌षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म्।
ई॒श्वरीं᳚ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम्॥९॥

सिन्दूरारुणवर्णा च सिन्दूरतिलकप्रिया।
अतो दत्तं मया देवि सिन्दूरं प्रतिगृह्यताम्॥

श्री-महालक्ष्म्यै नमः, तिलकं समर्पयामि।मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यशः॑॥१०॥

मन्दार-पारिजाताद्याः पाटली केतकी तथा।
माकन्दं कुरवं चैव गृहाणाऽऽशु नमोऽस्तु ते॥

श्री-महालक्ष्म्यै नमः, पुष्पमालां धारयामि।

अङ्ग-पूजा

१.ॐ चपलायै नमःपादौ पूजयामि
२.चञ्चलायै नमःजानुनी पूजयामि
३.कमलायै नमःकटिं पूजयामि
४.कात्यायन्यै नमःनाभिं पूजयामि
५.जगन्मात्रे नमःजठरं पूजयामि
६.विश्ववल्लभायै नमःवक्षःस्थलं पूजयामि
७.कमलवासिन्यै नमःहस्तौ पूजयामि
८.पद्माननायै नमःमुखं पूजयामि
९.कमलपत्राक्ष्यै नमःनेत्रत्रयं पूजयामि
१०.श्रियै नमःशिरः पुजयामि
११.महालक्ष्म्यै नमःसर्वाणि अङ्गानि पूजयामि

अष्टलक्ष्मी-अर्चना

(प्राच्याम् आरभ्य अष्टदिक्षु प्रदक्षिणेन)

ॐ आद्यलक्ष्म्यै नमः
ॐ विद्यालक्ष्म्यै नमः
ॐ सौभाग्यलक्ष्म्यै नमः
ॐ अमृतलक्ष्म्यै नमः
ॐ कामलक्ष्म्यै नमः
ॐ सत्यलक्ष्म्यै नमः
ॐ भोगलक्ष्म्यै नमः
ॐ योगलक्ष्म्यै नमः

आद्यादिलक्ष्मीनां षोडशोपचार-पूजार्थे पुष्पाणि समर्पयामि।

लक्ष्म्यष्टोत्तरशतनामावलिः

ध्यानम्

वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम्।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां
पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः॥
सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्॥

प्रकृत्यै नमःविकृत्यै नमःविद्यायै नमःसर्वभूतहितप्रदायै नमःश्रद्धायै नमःविभूत्यै नमःसुरभ्यै नमःपरमात्मिकायै नमःवाचे नमःपद्मालयायै नमः१०पद्मायै नमःशुचये नमःस्वाहायै नमःस्वधायै नमःसुधायै नमःधन्यायै नमःहिरण्मय्यै नमःलक्ष्म्यै नमःनित्यपुष्टायै नमःविभावर्यै नमः२०अदित्यै नमःदित्यै नमःदीप्तायै नमःवसुधायै नमःवसुधारिण्यै नमःकमलायै नमःकान्तायै नमःक्षमायै नमःक्षीरोदसम्भवायै नमःअनुग्रहप्रदायै नमः३०बुद्धये नमःअनघायै नमःहरिवल्लभायै नमःअशोकायै नमःअमृतायै नमःदीप्तायै नमःलोकशोकविनाशिन्यै नमःधर्मनिलयायै नमःकरुणायै नमःलोकमात्रे नमः४०पद्मप्रियायै नमःपद्महस्तायै नमःपद्माक्ष्यै नमःपद्मसुन्दर्यै नमःपद्मोद्भवायै नमःपद्ममुख्यै नमःपद्मनाभप्रियायै नमःरमायै नमःपद्ममालाधरायै नमःदेव्यै नमः५०पद्मिन्यै नमःपद्मगन्धिन्यै नमःपुण्यगन्धायै नमःसुप्रसन्नायै नमःप्रसादाभिमुख्यै नमःप्रभायै नमःचन्द्रवदनायै नमःचन्द्रायै नमःचन्द्रसहोदर्यै नमःचतुर्भुजायै नमः६०चन्द्ररूपायै नमःइन्दिरायै नमःइन्दुशीतलायै नमःआह्लादजनन्यै नमःपुष्ट्यै नमःशिवायै नमःशिवकर्यै नमःसत्यै नमःविमलायै नमःविश्वजनन्यै नमः७०तुष्ट्यै नमःदारिद्र्यनाशिन्यै नमःप्रीतिपुष्करिण्यै नमःशान्तायै नमःशुक्लमाल्याम्बरायै नमःश्रियै नमःभास्कर्यै नमःबिल्वनिलयायै नमःवरारोहायै नमःयशस्विन्यै नमः८०वसुन्धरायै नमःउदाराङ्गायै नमःहरिण्यै नमःहेममालिन्यै नमःधनधान्यकर्यै नमःसिद्ध्यै नमःस्त्रैणसौम्यायै नमःशुभप्रदायै नमःनृपवेश्मगतानन्दायै नमःवरलक्ष्म्यै नमः९०वसुप्रदायै नमःशुभायै नमःहिरण्यप्राकारायै नमःसमुद्रतनयायै नमःजयायै नमःमङ्गलायै देव्यै नमःविष्णुवक्षःस्थलस्थितायै नमःविष्णुपत्न्यै नमःप्रसन्नाक्ष्यै नमःनारायणसमाश्रितायै नमः१००दारिद्र्यध्वंसिन्यै नमःदेव्यै नमःसर्वोपद्रवहारिण्यै नमःनवदुर्गायै नमःमहाकाल्यै नमःब्रह्मविष्णुशिवात्मिकायै नमःत्रिकालज्ञानसम्पन्नायै नमःभुवनेश्वर्यै नमः१०८

॥इति श्री-लक्ष्म्यष्टोत्तरशतनामावलिः सम्पूर्णा॥

उत्तराङ्ग-पूजा

क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्ममा॒लिनीम्॥११॥

वनस्पति-रसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥

श्री-महालक्ष्म्यै नमः, धूपमाघ्रापयामि।
आपः॑ सृ॒जन्तु॑ स्निग्धा॒नि॒ चिक्ली॒त व॑स मे॒ गृहे।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले॥१२॥

कार्पासवर्तिसंयुक्तं घृतयुक्तं मनोहरम्।
तमोनाशकरं दीपं गृहाण परमेश्वरि॥

श्री-महालक्ष्म्यै नमः, अलङ्कारदीपं सन्दर्शयामि।
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम्।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह॥१३॥

नैवेद्यं गृह्यतां लक्ष्मि भक्ष्य-भोज्य-समन्वितम्।
षड्रसैर्रचितं दिव्यं लक्ष्मीदेवि नमोऽस्तु ते॥

नैवेद्यम्
श्री-महालक्ष्म्यै नमः, ( ) निवेदयामि।
अमृतापिधानमसि। निवेदनानन्तरम् आचमनीयं समर्पयामि।
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
श्री-महालक्ष्म्यै नमः, कर्पूरताम्बूलं समर्पयामि।
श्री-महालक्ष्म्यै नमः, समस्त-अपराध-क्षमापनार्थं कर्पूरनीराजनं दर्शयामि।
कर्पूरनीरजनानन्तरम् आचमनीयं समर्पयामि।
यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति।
य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति।
ओं᳚ तद्ब्र॒ह्म। ओं᳚ तद्वा॒युः। ओं᳚ तदा॒त्मा। ओं᳚ तथ्स॒त्यम्‌।
ओं᳚ तथ्सर्वम्᳚‌। ओं᳚ तत्पुरो॒र्नमः॥
अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु।
त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः।
त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम्‌॥
श्री-महालक्ष्म्यै नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
श्री-महालक्ष्म्यै नमः, अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
श्री-महालक्ष्म्यै नमः, छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

ईशानादि पूजा

ॐ ईशानाय नमः
ॐ शचिने नमः
ॐ मरुद्भ्यो नमः
ॐ प्रजापतये नमः
ॐ विश्वेभ्यो देवेभ्यो नमः
ॐ अमरराजाय नमः
ॐ सूर्याय नमः
ॐ विश्वकर्मणे नमः
ॐ गुरवे नमः
ॐ अथर्वाङ्गिरोभ्यां नमः
ॐ अश्विभ्यां नमः
ॐ मित्रावरुणाभ्यां नमः
ॐ विष्णवे नमः
ॐ ईशानादिभ्यो नमः
षोडशोपचार-पूजार्थे पुष्पाणि समर्पयामि।

कुबेर पूजा

धनदाय नमस्तुभ्यं निधिपद्माय ते नमः।
भवन्तु त्वत्प्रसादान्मे धनधान्यानि सम्पदः॥
कुबेरं पुष्पकगतं निधिभिर्नवभिर्युतम्।
सुवर्णवर्णं पिङ्गाक्षं मनसा भावयाम्यहम्॥
नरवाहन यक्षेश सर्वपुण्यजनेश्वर।

कुबेराय नमः, षोडशोपचार-पूजां करिष्ये।
कुबेराय नमः, आवाहयामि।
कुबेराय नमः, आसनं समर्पयामि।
कुबेराय नमः, पाद्यं समर्पयामि।
कुबेराय नमः, अर्घ्यं समर्पयामि।
कुबेराय नमः, आचमनीयं समर्पयामि।
कुबेराय नमः, शुद्धोदकस्नानं समर्पयामि।
स्नानानन्तरम् आचमनीयं समर्पयामि।
कुबेराय नमः, वस्त्रं समर्पयामि।
कुबेराय नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
कुबेराय नमः, अक्षतान् समर्पयामि।
कुबेराय नमः, पुष्पैः पूजयामि।
कुबेराय नमः, धूपमाघ्रापयामि।
कुबेराय नमः, अलङ्कारदीपं सन्दर्शयामि।
कुबेराय नमः, कदलीफलानि निवेदयामि,
कुबेराय नमः, अमृतापिधानमसि। निवेदनानन्तरम् आचमनीयं समर्पयामि।
कुबेराय नमः, कर्पूरताम्बूलं समर्पयामि।
कुबेराय नमः, कर्पूरनीराजनं दर्शयामि।
कुबेराय नमः, कर्पूरनीरजनानन्तरम् आचमनीयं समर्पयामि।
कुबेराय नमः, समस्तोपचारान् समर्पयामि।

मनुजबाह्यविमानवरस्तुतं
गरुडरत्ननिभं निधिनायकम्।
शिवसखं मुकुटादिविभूषितं
वररुचिं तमहमुपास्महे सदा॥
अगस्त्य देवदेवेश मर्त्यलोकहितेच्छया।
पूजयामि विधानेन प्रसन्नसुमुखो भव॥

कुबेराष्टोत्तरशतनामावलिः

कुबेराय नमःधनदाय नमःश्रीमते नमःयक्षेशाय नमःगुह्यकेश्वराय नमःनिधीशाय नमःशङ्करसखाय नमःमहालक्ष्मीनिवासभुवे नमःमहापद्मनिधीशाय नमःपूर्णाय नमः१०पद्मनिधीश्वराय नमःशङ्खाख्यनिधिनाथाय नमःमकराख्यनिधिप्रियाय नमःसुकच्छपाख्यनिधीशाय नमःमुकुन्दनिधिनायकाय नमःकुन्दाख्यनिधिनाथाय नमःनीलनित्याधिपाय नमःमहते नमःवरनिधिदीपाय नमःपूज्याय नमः२०लक्ष्मीसाम्राज्यदायकाय नमःइलपिलापत्याय नमःकोशाधीशाय नमःकुलोचिताय नमःअश्वारूढाय नमःविश्ववन्द्याय नमःविशेषज्ञाय नमःविशारदाय नमःनलकूबरनाथाय नमःमणिग्रीवपित्रे नमः३०गूढमन्त्राय नमःवैश्रवणाय नमःचित्रलेखामनःप्रियाय नमःएकपिनाकाय नमःअलकाधीशाय नमःपौलस्त्याय नमःनरवाहनाय नमःकैलासशैलनिलयाय नमःराज्यदाय नमःरावणाग्रजाय नमः४०चित्रचैत्ररथाय नमःउद्यानविहाराय नमःविहारसुकुतूहलाय नमःमहोत्सहाय नमःमहाप्राज्ञाय नमःसदापुष्पकवाहनाय नमःसार्वभौमाय नमःअङ्गनाथाय नमःसोमाय नमःसौम्यादिकेश्वराय नमः५०पुण्यात्मने नमःपुरुहूतश्रियै नमःसर्वपुण्यजनेश्वराय नमःनित्यकीर्तये नमःनिधिवेत्रे नमःलङ्काप्राक्तननायकाय नमःयक्षिणीवृताय नमःयक्षाय नमःपरमशान्तात्मने नमःयक्षराजे नमः६०यक्षिणीहृदयाय नमःकिन्नरेश्वराय नमःकिम्पुरुषनाथाय नमःखड्गायुधाय नमःवशिने नमःईशानदक्षपार्श्वस्थाय नमःवायुवामसमाश्रयाय नमःधर्ममार्गनिरताय नमःधर्मसम्मुखसंस्थिताय नमःनित्येश्वराय नमः७०धनाध्यक्षाय नमःअष्टलक्ष्म्याश्रितालयाय नमःमनुष्यधर्मिणे नमःसुकृतिने नमःकोषलक्ष्मीसमाश्रिताय नमःधनलक्ष्मीनित्यवासाय नमःधान्यलक्ष्मीनिवासभुवे नमःअष्टलक्ष्मीसदावासाय नमःगजलक्ष्मीस्थिरालयाय नमःराज्यलक्ष्मीजन्मगेहाय नमः८०धैर्यलक्ष्मीकृपाश्रयाय नमःअखण्डैश्वर्यसंयुक्ताय नमःनित्यानन्दाय नमःसुखाश्रयाय नमःनित्यतृप्ताय नमःनिराशाय नमःनिरुपद्रवाय नमःनित्यकामाय नमःनिराकाङ्क्षाय नमःनिरूपाधिकवासभुवे नमः९०शान्ताय नमःसर्वगुणोपेताय नमःसर्वज्ञाय नमःसर्वसम्मताय नमःशर्वाणीकरुणापात्राय नमःसदानन्दकृपालयाय नमःगन्धर्वकुलसंसेव्याय नमःसौगन्धिकुसुमप्रियाय नमःसुवर्णनगरीवासाय नमःनिधिपीठसमाश्रयाय नमः१००महामेरूत्तरस्थाय नमःमहर्षिगणसंस्तुताय नमःतुष्टाय नमःशूर्पणखाज्येष्ठाय नमःशिवपूजारताय नमःअनघाय नमःराजयोगसमायुक्ताय नमःराजशेखरपूज्याय नमःराजराजाय नमः

॥इति श्री-कुबेराष्टोत्तरशतनामावलिः सम्पूर्णा॥

नमस्कारः

नमस्ते देवदेवेशि नमस्ते ईफ्सितप्रदे।
नमस्तेऽस्तु जगन्मातः नमस्ते केशवप्रिये॥

महालक्ष्म्यै नमः, नमस्करोमि।

प्रार्थना

दामोदरि नमस्तेऽस्तु नमस्त्रैलोक्यमातृके।
नमस्तेऽस्तु महालक्ष्मि त्राहि मां परमेश्वरि॥
सर्वदा देहि मे द्रव्यं दानायापि च भुक्तये।
धनधान्यं धरां हर्षं कीर्तिम् आयुश्च देहि मे॥
यन्मया वाञ्छितं देवि तत्सर्वं सफलं कुरु।
न बाधन्तां कुकर्माणि सङ्कटं मे निवारय॥

अपराध-क्षमापनम्

न्यूनं वाऽप्यगुणं वाऽपि यन्मया मोहितं कृतम्।
सर्वं तदस्तु सम्पूर्णं त्वत्प्रसादान्महेश्वरि॥
लक्ष्मि त्वत्कृपया नित्यं कृता पूजा तवाऽऽज्ञया।
स्थिरा भव गृहे ह्यस्मिन् मम सन्तानकर्मणि॥
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे॥

आश्वयुज-अमावास्या-पुण्यकालेऽस्मिन् मया क्रियमाण-श्रीमहालक्ष्मी-पूजायां
यद्देयमुपायनदानं तत्प्रतिनिधित्वेन हिरण्यं श्री-महालक्ष्मीप्रीतिं
कामयमानः मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम।
अनया पूजया श्री-महालक्ष्मीः प्रीयताम्।

कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥

ॐ तत्सद्ब्रह्मार्पणमस्तु।