लघु-पञ्चायतन-पूजा
प्राणान् आयम्य। ॐ भूः + भूर्भुवस्सुवरोम्।
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां
प्रभवादीनां षष्टिसंवत्सराणां मध्ये ( ) नाम संवत्सरे उत्तरायणे / दक्षिणायने
(ग्रीष्म / वर्ष / शरद् / हेमन्त / शिशिर / वसन्त) ऋतौ (मेष / वृषभ / मिथुन / कर्कटक / सिंह / कन्या / तुला /
वृश्चिक / धनुर् / मकर / कुम्भ / मीन) मासे (शुक्ल / कृष्ण) पक्षे (एकादश्यां / द्वादश्यां) शुभतिथौ
(इन्दु / भौम / सौम्य / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायाम्
( ) नक्षत्र ( ) नाम योग ( )-करण-युक्तायां च एवं गुण विशेषण विशिष्टायाम्
अस्यां ( ) शुभतिथौ
अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम्
धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थम्
मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल पापक्षयार्थं
श्री-महागणपति-प्रीत्यर्थं श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-प्रीत्यर्थं श्री-लक्ष्मीनारायण-प्रीत्यर्थं
श्री-महालक्ष्मीसमेतं श्री-सन्तानगोपाल-प्रीत्यर्थं श्री-गौरीदेवी-प्रीत्यर्थं श्री-साम्बपरमेश्वर-प्रीत्यर्थं श्री-नन्दिकेश्वर-प्रीत्यर्थं
श्री-वल्लीदेवसेनासमेत-श्री-सुब्रह्मण्य-प्रीत्यर्थं श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनूमत्-समेत-श्री-रामचन्द्र-प्रीत्यर्थं
यावच्छक्ति ध्यानावाहनादि षोडशोपचार-पूजां पञ्चायतनपूजां क्षीराभिषेकं च करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि।
(गणपति-प्रसादं शिरसा गृहीत्वा)
आसन-पूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥
घण्टा-पूजा
कलश-पूजा
कलशाय नमः दिव्यगन्धान् धारयामि।
श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्म-पूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः
समस्तोपचारान् समर्पयामि।
[संस्काररत्नमालायां पार्थिवलिङ्गपूजनविधौ] लैङ्गे—
रुद्राक्षमालां धृत्वा।
पीठ-पूजा
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः
गुरु-ध्यानम्
षोडशोपचार-पूजा
ॐ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम्।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम्॥
ॐ महागणपतये॒ नमः॥
अस्मिन् बिम्बे श्री-महागणपतिं ध्यायामि। आवाहयामि॥
आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च। हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्॑।
अस्मिन् बिम्बे श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणं ध्यायामि। आवाहयामि॥
स॒हस्र॑शीर्षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात्।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा। अत्य॑तिष्ठद्दशाङ्गु॒लम्॥
हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्णर॑जत॒स्रजाम्।
च॒न्द्रां॒ हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह॥
अस्मिन् बिम्बे श्री-लक्ष्मीनारायणं ध्यायामि।
अस्मिन् बिम्बे श्री-महालक्ष्मीसमेतं श्री-सन्तानगोपालं ध्यायामि।
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त्॥
गौ॒री मि॑माय सलि॒लानि॒ तक्ष॒ती। एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी। स॒हस्रा᳚क्षरा पर॒मे व्यो॑मन्।
अस्मिन् बिम्बे श्री-सपरिवार-साम्बपरमेश्वरं ध्यायामि। आवाहयामि॥
अस्मिन् बिम्बे श्री-गौरीदेवीं ध्यायामि। आवाहयामि॥
अस्मिन् बिम्बे श्री-साम्बपरमेश्वरं ध्यायामि। आवाहयामि॥
तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि। तन्नो॑ नन्दिः प्रचो॒दया᳚त्।
अस्मिन् बिम्बे श्री-नन्दिकेश्वरं ध्यायामि। आवाहयामि॥
तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि। तन्नः॑ षण्मुखः प्रचो॒दया᳚त्॥
अस्मिन् बिम्बे श्री-वल्लीदेवसेनासमेत-श्री-सुब्रह्मण्यस्वामिनं ध्यायामि।
आवाहयामि॥
अस्मिन् बिम्बे श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनूमत्-समेत-श्री-रामचन्द्रं ध्यायामि।
आवाहयामि॥
आवाहिताभ्यः सर्वाभ्यो-देवताभ्यो नमः।
आसनं समर्पयामि।
पादयोः पाद्यं समर्पयामि।
अर्घ्यं समर्पयामि।
आचमनीयं समर्पयामि।
शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।
अभिषेकः
ॐ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम्।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम्॥
ॐ महागणपतये॒ नमः॥
ॐ आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च। हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्॑।
ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात्।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा। अत्य॑तिष्ठद्दशाङ्गु॒लम्॥
ॐ हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्णर॑जत॒स्रजाम्।
च॒न्द्रां॒ हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह॥
गौ॒री मि॑माय सलि॒लानि॒ तक्ष॒ती। एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी। स॒हस्रा᳚क्षरा पर॒मे व्यो॑मन्।
तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि। तन्नो॑ नन्दिः प्रचो॒दया᳚त्।
तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि। तन्नः॑ षण्मुखः प्रचो॒दया᳚त्॥
ॐ नमो भगवते॑ रुद्रा॒य॥
रुद्रप्रश्न-चमकप्रश्न-पुरुषषुक्तैः अभिषेकं कृत्वा।
अभिषेकानन्तरं आचमनीयं समर्पयामि। वस्त्रार्थम् अक्षतान् समर्पयामि। यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि। अक्षतान् समर्पयामि।
पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
महागणपति-अर्चना
ॐ सुमुखाय नमः
ॐ एकदन्ताय नमः
ॐ कपिलाय नमः
ॐ गजकर्णकाय नमः
ॐ लम्बोदराय नमः
ॐ विकटाय नमः
ॐ विघ्नराजाय नमः
ॐ विनायकाय नमः
ॐ धूमकेतवे नमः
ॐ गणाध्यक्षाय नमः
ॐ फालचन्द्राय नमः
ॐ गजाननाय नमः
ॐ वक्रतुण्डाय नमः
ॐ शूर्पकर्णाय नमः
ॐ हेरम्बाय नमः
ॐ स्कन्दपूर्वजाय नमः
ॐ सिद्धिविनायकाय नमः
ॐ विघ्नेश्वराय नमः
ॐ श्री-महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
आदित्य-अर्चना
ॐ मित्राय नमः
ॐ रवये नमः
ॐ सूर्याय नमः
ॐ भानवे नमः
ॐ खगाय नमः
ॐ पूष्णे नमः
ॐ हिरण्यगर्भाय नमः
ॐ मरीचये नमः
ॐ आदित्याय नमः
ॐ सवित्रे नमः
ॐ अर्काय नमः
ॐ भास्कराय नमः
ॐ श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-परब्रह्मणे नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
लक्ष्मीनारायण-अर्चना
ॐ केशवाय नमः
ॐ नारायणाय नमः
ॐ माधवाय नमः
ॐ गोविन्दाय नमः
ॐ विष्णवे नमः
ॐ मधुसूदनाय नमः
ॐ त्रिविक्रमाय नमः
ॐ वामनाय नमः
ॐ श्रीधराय नमः
ॐ हृषीकेशाय नमः
ॐ पद्मनाभाय नमः
ॐ दामोदराय नमः
ॐ सङ्कर्षणाय नमः
ॐ वासुदेवाय नमः
ॐ प्रद्युम्नाय नमः
ॐ अनिरुद्धाय नमः
ॐ पुरुषोत्तमाय नमः
ॐ अधोक्षजाय नमः
ॐ नृसिंहाय नमः
ॐ अच्युताय नमः
ॐ जनार्दनाय नमः
ॐ उपेन्द्राय नमः
ॐ हरये नमः
ॐ श्रीकृष्णाय नमः
ॐ आदिलक्ष्म्यै नमः
ॐ धान्यलक्ष्म्यै नमः
ॐ धैर्यलक्ष्म्यै नमः
ॐ गजलक्ष्म्यै नमः
ॐ सन्तानलक्ष्म्यै नमः
ॐ विजयलक्ष्म्यै नमः
ॐ विद्यालक्ष्म्यै नमः
ॐ धनलक्ष्म्यै नमः
ॐ वरलक्ष्म्यै नमः
ॐ महालक्ष्म्यै नमः
ॐ श्री-लक्ष्मीनारायणाय नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
महालक्ष्मी-समेत-श्री-सन्तानगोपाल-अर्चना
ॐ केशवाय नमः
ॐ नारायणाय नमः
ॐ माधवाय नमः
ॐ गोविन्दाय नमः
ॐ विष्णवे नमः
ॐ मधुसूदनाय नमः
ॐ त्रिविक्रमाय नमः
ॐ वामनाय नमः
ॐ श्रीधराय नमः
ॐ हृषीकेशाय नमः
ॐ पद्मनाभाय नमः
ॐ दामोदराय नमः
ॐ सङ्कर्षणाय नमः
ॐ वासुदेवाय नमः
ॐ प्रद्युम्नाय नमः
ॐ अनिरुद्धाय नमः
ॐ पुरुषोत्तमाय नमः
ॐ अधोक्षजाय नमः
ॐ नृसिंहाय नमः
ॐ अच्युताय नमः
ॐ जनार्दनाय नमः
ॐ उपेन्द्राय नमः
ॐ हरये नमः
ॐ श्रीकृष्णाय नमः
ॐ आदिलक्ष्म्यै नमः
ॐ धान्यलक्ष्म्यै नमः
ॐ धैर्यलक्ष्म्यै नमः
ॐ गजलक्ष्म्यै नमः
ॐ सन्तानलक्ष्म्यै नमः
ॐ विजयलक्ष्म्यै नमः
ॐ विद्यालक्ष्म्यै नमः
ॐ धनलक्ष्म्यै नमः
ॐ वरलक्ष्म्यै नमः
ॐ महालक्ष्म्यै नमः
ॐ श्री-महालक्ष्मीसमेत-श्री-सन्तानगोपाल-स्वामिने नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री-साम्बपरमेश्वर-अर्चना
ॐ भवाय देवाय नमः
ॐ शर्वाय देवाय नमः
ॐ ईशानाय देवाय नमः
ॐ पशुपतये देवाय नमः
ॐ रुद्राय देवाय नमः
ॐ उग्राय देवाय नमः
ॐ भीमाय देवाय नमः
ॐ महते देवाय नमः
ॐ श्री-साम्बपरमेश्वराय नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
ॐ नन्दिकेश्वराय नमः।
गौरी-अर्चना
ॐ भवस्य देवस्य पत्न्यै नमः
ॐ शर्वस्य देवस्य पत्न्यै नमः
ॐ ईशानस्य देवस्य पत्न्यै नमः
ॐ पशुपतेर्देवस्य पत्न्यै नमः
ॐ रुद्रस्य देवस्य पत्न्यै नमः
ॐ उग्रस्य देवस्य पत्न्यै नमः
ॐ भीमस्य देवस्य पत्न्यै नमः
ॐ महतो देवस्य पत्न्यै नमः
ॐ श्री-गौरी-देव्यै नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री-वल्लीदेवसेनासमेत-सुब्रह्मण्यस्वामी-अर्चना
ॐ ज्ञानशक्त्यात्मने नमः
ॐ स्कन्दाय नमः
ॐ अग्निभुवे नमः
ॐ बाहुलेयाय नमः
ॐ गाङ्गेयाय नमः
ॐ शरवणोद्भवाय नमः
ॐ कार्त्तिकेयाय नमः
ॐ कुमाराय नमः
ॐ षण्मुखाय नमः
ॐ कुक्कुटध्वजाय नमः
ॐ शक्तिधराय नमः
ॐ गुहाय नमः
ॐ ब्रह्मचारिणे नमः
ॐ षण्मातुराय नमः
ॐ क्रौञ्चभित्रे नमः
ॐ शिखिवाहनाय नमः
ॐ श्री-वल्लीदेवसेनासमेत-श्री-सुब्रह्मण्यस्वामिने नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री-राम-अर्चना
ॐ श्रीरामाय नमः
ॐ रामभद्राय नमः
ॐ रामचन्द्राय नमः
ॐ शाश्वताय नमः
ॐ राजीवलोचनाय नमः
ॐ श्रीमते नमः
ॐ राजेन्द्राय नमः
ॐ रघुपुङ्गवाय नमः
ॐ जानकीवल्लभाय नमः
ॐ जैत्राय नमः
ॐ जितामित्राय नमः
ॐ जनार्दनाय नमः
ॐ परमात्मने नमः
ॐ परस्मै ब्रह्मणे नमः
ॐ सच्चिदानन्दविग्रहाय
ॐ परस्मै ज्योतिषे नमः
ॐ परस्मै धाम्ने नमः
ॐ पराकाशाय नमः
ॐ परात्पराय नमः
ॐ परेशाय नमः
ॐ पारगाय नमः
ॐ पाराय नमः
ॐ सर्वदेवात्मकाय नमः
ॐ पराय नमः
श्री-सीता-अर्चना
ॐ श्रीसीतायै नमः
ॐ जानक्यै नमः
ॐ देव्यै नमः
ॐ वैदेह्यै नमः
ॐ राघवप्रियायै नमः
ॐ रमायै नमः
ॐ अवनिसुतायै नमः
ॐ रामायै नमः
ॐ राक्षसान्तप्रकारिण्यै
ॐ रत्नगुप्तायै नमः
ॐ मातुलुङ्ग्यै नमः
ॐ मैथिल्यै नमः
श्री-हनूमद्-अर्चना
ॐ हनुमते नमः
ॐ अञ्जनासूनवे नमः
ॐ वायुपुत्राय नमः
ॐ महाबलाय नमः
ॐ कपीन्द्राय नमः
ॐ पिङ्गलाक्षाय नमः
ॐ लङ्काद्वीपभयङ्कराय नमः
ॐ प्रभञ्जनसुताय नमः
ॐ वीराय नमः
ॐ सीताशोकविनाशकाय नमः
ॐ अक्षहन्त्रे नमः
ॐ रामसखाय नमः
ॐ रामकार्यधुरन्धराय नमः
ॐ महौषधगिरेर्धारिणे नमः
ॐ वानरप्राणदायकाय नमः
ॐ वारीशतारकाय नमः
ॐ मैनाकगिरिभञ्जनाय नमः
ॐ निरञ्जनाय नमः
ॐ जितक्रोधाय नमः
ॐ कदलीवनसंवृताय नमः
ॐ ऊर्ध्वरेतसे नमः
ॐ महासत्त्वाय नमः
ॐ सर्वमन्त्रप्रवर्तकाय नमः
ॐ महालिङ्गप्रतिष्ठात्रे नमः
ॐ बाष्पकृज्जपतान्तराय नमः
ॐ नित्यं शिवध्यानपराय नमः
ॐ शिवपूजापरायणाय नमः
ॐ श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनूमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
उत्तराङ्ग-पूजा
धूपमाघ्रापयामि।पञ्च॑हूतो ह॒ वै नामै॒षः। तं वा ए॒तं पञ्च॑हूत॒ꣳ॒ सन्तम्।
पञ्च॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण। प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः॥
पञ्चहारतीदीपं दर्शयामि। दीपानन्तरम् आचमनीयं समर्पयामि।गायत्रीदीपं दर्शयामि। दीपानन्तरम् आचमनीयं समर्पयामि।उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन्निर्ऋ॑तिं॒ मम॑।
प॒शूꣴश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश॥
मा नो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त्।
अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय॥
एकहारतीदीपं दर्शयामि।
दीपानन्तरम् आचमनीयं समर्पयामि।नैवेद्यं कृत्वा।
श्री महागणपतये नमः श्री छाया-सुवर्चलाम्बा-समेतश्री सूर्यनारायण-परब्रह्मणे नमः लक्ष्मी-नारायणाय नमः श्री-महालक्ष्मी-समेत-श्री-सन्तानगोपाल-स्वामिने नमः श्री-साम्बपरमेश्वराय नमः नन्दिकेश्वराय नमः श्री वल्लीदेवसेनासमेत-श्री-सुब्रह्मण्यस्वामिने नमः श्री सीता-लक्ष्मण-भरत-शत्रुघ्न-हनूमत्-समेत-श्री-रामचन्द्र परब्रह्मणे नमः, ( ) महानैवेद्यं निवेदयामि।
मध्ये मध्ये अमृतपानीयं समर्पयामि। अमृतापिधानमसि।
हस्तप्रक्षालनं समर्पयामि। पादप्रक्षालनं समर्पयामि।
निवेदनानन्तरम् आचमनीयं समर्पयामि।
कर्पूरताम्बूलं समर्पयामि।सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते।
यो राजा॒ सन्रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते।
दे॒व॒सु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्ति।
ए॒ताव॑न्तो॒ वै दे॒वाना स॒वाः।
त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति।
त ए॑नं॒ पुनः॑ सुवन्ते रा॒ज्याय॑।
दे॒व॒सू राजा॑ भवति॥
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति॥
श्री महागणपतये नमः श्री छाया-सुवर्चलाम्बा-समेतश्री सूर्यनारायण-परब्रह्मणे नमः लक्ष्मी-नारायणाय नमः श्री-महालक्ष्मी-समेत-श्री-सन्तानगोपाल-स्वामिने नमः श्री-साम्बपरमेश्वराय नमः नन्दिकेश्वराय नमः श्री वल्लीदेवसेनासमेत-श्री-सुब्रह्मण्यस्वामिने नमः श्री सीता-लक्ष्मण-भरत-शत्रुघ्न-हनूमत्-समेत-श्री-रामचन्द्र परब्रह्मणे नमः, समस्त-अपराध-क्षमापनार्थं कर्पूरनीराजनं दर्शयामि। कर्पूरनीरजनानन्तरम् आचमनीयं समर्पयामि।यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति।
य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति।ओं᳚ तद्ब्र॒ह्म। ओं᳚ तद्वा॒युः। ओं᳚ तदा॒त्मा।
ओं᳚ तथ्स॒त्यम्।
ओं᳚ तथ्सर्वम्᳚। ओं᳚ तत्पुरो॒र्नमः॥अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु।
त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ
रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः।
त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्॥
आवाहिताभ्यः सर्वाभ्यो-देवताभ्यो नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि।स्वर्णपुष्पं समर्पयामि।
प्रदक्षिणं कृत्वा।
नमस्कारमन्त्राः
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये॑ नमो॒ नमः॥
ऋ॒तꣳ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम्।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑॥
सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु।
पुरु॑षो॒ वै रु॒द्रः सन्म॒हो नमो॒ नमः॑।
विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑मानं च॒ यत्।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॥
कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से।
वो॒ चेम॒ शन्त॑मꣳ हृ॒दे।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॥
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि। नमस्कारान् कृत्वा।छत्त्र-चामर-नृत्त-गीत-वाद्य-समस्त-राजोपचारान् समर्पयामि।
नन्दिकेश्वराय नमः, बलिं निवेदयामि। ॐ हर। ॐ हर। ॐ हर।
शङ्खजलेन प्रोक्ष्य।
इति अभिषेकतीर्थं प्राश्य।
अनया पूजया सपरिवार-साम्ब-परमेश्वरः प्रीयताम्।
उद्वासनम्
निर्याणमुद्रया पुष्पाण्यादाय आघ्राय हृदये स्थापयित्वा उद्वासयेत्। निर्माल्यं शिरसि धारयेत्।
ॐ तत्सद्ब्रह्मार्पणमस्तु।आचामेत्।