श्री-कावेरी-पूजा
(मूलम्—व्रतचूडामणिः)
पूर्वाङ्ग-विघ्नेश्वर-पूजा
(आचम्य)
प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]
ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]
अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
अर्चना
सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
प्रार्थनाः समर्पयामि।
प्रधान-पूजा — कावेरी-पूजा
प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां
प्रभवादीनां षष्टिसंवत्सराणां मध्ये ( ) नाम संवत्सरे उत्तरायणे / दक्षिणायने
(ग्रीष्म / वर्ष / शरद् / हेमन्त / शिशिर / वसन्त)-ऋतौ (मेष / वृषभ / मिथुन / कर्कटक / सिंह / कन्या / तुला /
वृश्चिक / धनुर् / मकर / कुम्भ / मीन)-मासे (शुक्ल / कृष्ण)-पक्षे ( ) शुभतिथौ
(इन्दु / भौम / सौम्य / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायाम्
( )-नक्षत्र ( )-योग ( )-करण युक्तायां च एवं गुण विशेषण विशिष्टायाम्
अस्यां ( ) शुभतिथौ
अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम्
धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थम्
मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं
कावेरी-देवी-प्रीत्यर्थं यावच्छक्ति-ध्यानावाहनादि-षोडशोपचार-कावेरी-पूजां करिष्ये तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि।
(गणपति-प्रसादं शिरसा गृहीत्वा)
आसन-पूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥
घण्टा-पूजा
कलश-पूजा
कलशाय नमः दिव्यगन्धान् धारयामि।
श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्म-पूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः
समस्तोपचारान् समर्पयामि।
पीठ-पूजा
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः
गुरु-ध्यानम्
षोडशोपचार-पूजा
कावेरी-देवीं ध्यायामि।
कावेरी-देवीम् आवाहयामि।
कावेरी-देव्यै नमः, आसनं समर्पयामि।
कावेरी-देव्यै नमः, पाद्यं समर्पयामि।
कावेरी-देव्यै नमः, अर्घ्यं समर्पयामि।
कावेरी-देव्यै नमः, आचमनीयं समर्पयामि।
कावेरी-देव्यै नमः, पञ्चामृतस्नानं समर्पयामि।
कावेरी-देव्यै नमः, शुद्धोदकस्नानं समर्पयामि।
स्नानानन्तरम् आचमनीयं समर्पयामि।
कावेरी-देव्यै नमः, वस्त्रं समर्पयामि।
कावेरी-देव्यै नमः, यज्ञोपवीतं समर्पयामि।
कावेरी-देव्यै नमः, मङ्गलद्रव्यं समर्पयामि। हरिद्रा-कुङ्कुमं समर्पयामि।
कावेरी-देव्यै नमः, गन्धान् धारयामि।
कावेरी-देव्यै नमः, अक्षतान् समर्पयामि।
कावेरी-देव्यै नमः, आभरणानि समर्पयामि।
कावेरी-देव्यै नमः, ताटङ्कादिकान् समर्पयामि।
कावेरी-देव्यै नमः, पुष्पमालां समर्पयामि।
कावेरी-देव्यै नमः, पुष्पैः सम्पूजयामि।
अङ्ग-पूजा
| मरुद्वृधायै नमः | पादौ पूजयामि |
| महालक्ष्म्यै नमः | गुल्फौ पूजयामि |
| सह्यकन्यकायै नमः | जङ्घे पूजयामि |
| सरस्वत्यै नमः | जानुनी पूजयामि |
| अगस्त्यपत्न्यै नमः | मध्यम् पूजयामि |
| कावेर्यै नमः | नाभिम् पूजयामि |
| लोपामुद्रायै नमः | हृदयम् पूजयामि |
| वरप्रदायै नमः | स्तनौ पूजयामि |
| कमण्डलुसमुत्पन्नयै नमः | बाहू पूजयामि |
| सर्वतीर्थाधिदेवतायै नमः | कण्ठम् पूजयामि |
| विरजायै नमः | नासिकाम् पूजयामि |
| दक्षिणगङ्गायै नमः | श्रोत्रे पूजयामि |
| ब्रह्मविष्णुशिवात्मिकायै नमः | नेत्रे पूजयामि |
| चतुर्विधफलोद्धात्र्यै नमः | वक्त्रम् पूजयामि |
| चतुरानन कन्यकायै नमः | शिरः पूजयामि |
| सर्वाभीष्टप्रदात्र्यै नमः | सर्वाण्यङ्गानि पूजयामि |
कावेर्यष्टोत्तरशतनामावलिः
अनन्त-गुण-गम्भीरायै नमःअर्कपुष्कर-सेवितायै नमःअमृतस्वादु-सलिलायै नमःअगस्त्यमुनि-नायिकायै नमःआशान्त-कीर्ति-तिलकायै नमःआशुगागम-वर्धिन्यै नमःइतिहास-पुराणोक्तायै नमःईतिबाधा-निवारिण्यै नमःउन्मत्तजन-दूरस्थायै नमःऊर्जितानन्द-दायिन्यै नमः१०ऋषिसङ्घ-सुसंवीतायै नमःऋणत्रय-विमोचनायै नमःलुप्त-धर्म-जनोद्धारायै नमःलूनभाव-विवर्जितायै नमःएधिताखिल-लोकश्रियै नमःऐहिकामुष्मिकप्रदायै नमःओङ्कारनाद-निनदायै नमःओषधीकृत-जीवनायै नमःऔदार्यगुण-निर्दिष्टायै नमःऔदासीन्य-निवारिण्यै नमः२०अन्तःकरण-संसेव्यायै नमःअच्छ-स्वच्छ-जलाश्रयायै नमःकपिलाख्य-नदी-स्निग्धायै नमःकरुणा-पूर्ण-मानसायै नमःकावेरी-नाम-विख्यातायै नमःकामितार्थ-फल-प्रदायै नमःकुम्भघोण-क्षेत्र-नाथायै नमःकौतुकप्रथम-प्रभायै नमःखगराज-रथोत्साह-रङ्गस्थल-सुशोभितायै नमःखगावली-समाक्रान्तकल्लोलावलिमण्डितायै नमः३०गजारण्य-सुविस्तीर्ण-प्रवाह-जनमोहिन्यै नमःगायत्र्याख्य-शिला-मध्यायै नमःगरुडासन-भक्तिदायै नमःघन-गम्भीर-निनाद-निर्जरप्राप्ति-निर्झरायै नमःचन्द्रपुष्कर-मध्यस्थायै नमःचतुरानन-पुत्रिकायै नमःचोलदेश-जनोद्धार-ग्रीष्मकाल-प्रवाहिन्यै नमःचुञ्चुक्षेत्र-समानीतायै नमःछद्मदोष-निवारिण्यै नमःजम्बूद्वीप-सरिच्छ्रेष्ठ-नदी-नद-गरीयस्यै नमः४०झङ्कारनाद-संमृष्ट-षट्पदालि-समाकुलायै नमःज्ञानैक-साधन-परायै नमःज्ञप्तिमात्रार्ति-हारिण्यै नमःटिट्टिभारावस-व्याज-दिविज-स्तुति-पात्रिण्यै नमःठङ्कारनाद-सम्भेद-झर्झरीकृत-पर्वतायै नमःडाकिनी-शाकिनी-सङ्घनिवारण-सरित्तटायै नमःढक्का-निनादपारीण-पार्वतीश-समाश्रितायै नमःणान्तवाच्य-द्विजाष्टाङ्ग-योगसाधन-तत्परायै नमःतरङ्गावलि-संविद्ध-मृदु-वालुक-शोभितायै नमःतपस्विजन-सत्कार-निवेशित-शिलासनायै नमः५०तापत्रय-तरून्मूल-गङ्गादिभिरभिष्टुतायै नमःथान्त-प्रमथ-संसेव्य-साम्ब-सान्निध्य-कारिण्यै नमःदया-दाक्षिण्य-सत्कारशील-लोक-सुभावितायै नमःदाक्षिणात्य-जनोद्धार-निर्विचार-दयान्वितायै नमःधन-मान-मदान्धादि-मर्त्य-निर्वर्तन-प्रियायै नमःनमज्जनोद्धार-शीलायै नमःनिमज्जज्जन-पावनायै नमःनागारिकेतु-निलयायै नमःनाना-तीर्थाधि-देवतायै नमःनारीजन-मनोल्लासायै नमः६०नानारूप-फल-प्रदायै नमःनारायण-कृपा-रूपायै नमःनादब्रह्म-स्वरूपिण्यै नमःपराभूत-समस्ताघायै नमःपशु-पक्ष्यादि-जीवनायै नमःपापतूलाग्नि-सदृशायै नमःपापिष्ठजन-पावनायै नमःफणीन्द्र-कीर्तित-कलायै नमःफलदान-परायणायै नमःबहुजन्म-तपो-योग-फलसम्प्राप्त-दर्शनायै नमः७०बाहुरूप-द्विपार्श्वस्थ-स्वमातृक-जलार्थिनां-(कमल)(क्लौम)क्षेत्र-शाल्यन्न-दान-निर्जित-वित्तपायै नमःभगवत्कृत-सन्तोषायै नमःभास्करक्षेत्र-गामिन्यै नमःभागीरथी-समाक्रन्त-तुलामास-जलाश्रयायै नमःमज्जद्दुर्जन-प्राग्जन्म-दुर्जयांहःप्रमार्जन्यै नमःमाघ-वैशाखादि-मास-स्नान-स्मरण-सौख्यदायै नमःयज्ञ-दान-तपः-कर्मकोटि-पुण्य-फल-प्रदायै नमःयक्ष-गन्धर्व-सिद्धाद्यैरभिष्टुत-पदद्वयायै नमःरघुनाथ-पदद्वन्द्व-विराजित-शिलातलायै नमःरामनाथपुरक्षेत्र-कामधेनु-समाश्रितायै नमः८०लवोदक-स्पर्शमात्र-निर्वाण-पद-दायिन्यै नमःलक्ष्मी-निवास-सदनायै नमःललना-रत्न-रूपिण्यै नमःलघूकृत-स्वर्ग-भोगायै नमःलावण्य-गुण-सागरायै नमःवह्निपुष्कर-सान्निद्ध्यायै नमःवन्दिताखिल-लोकपायै नमःव्याघ्रपाद-क्षेत्र-परायै नमःव्योमयान-समावृतायै नमःषट्काल-वन्द्य-चरणायै नमः९०षट्कर्म-निरत-प्रियायै नमःषडास्य-मातृ-संसेव्यायै नमःषडूर्मि-जित-सोर्मिकायै नमःसकृत्स्मरण-संशुद्ध-तापत्रय-जनाश्रितायै नमःसज्जनोद्धार-सन्धानसमर्थ-स्वप्रवाहिन्यै नमःसरस्वत्यादि-देवीभिरभिवन्दित-निर्झरायै नमःसह्यशैल-समुद्भूतायै नमःसह्यासह्य-जन-प्रियायै नमःसङ्गमक्षेत्र-सामीप्यायै नमःस्ववशार्थ-चतुष्टयायै नमः१००सौभरिक्षेत्र-निलयायै नमःसौभाग्य-फल-दायिन्यै नमःसंशयाविष्ट-दूरस्थायै नमःसाङ्गोपाङ्ग-फलोदयायै नमःहरि-ब्रह्मेश-लोकेश-सिद्धवृन्दार-वन्दितायै नमःक्षेत्र-तीर्थादि-सीमान्तायै नमःक्षपानाथ-सुशीतलायै नमःक्षमातलाखिलानन्द-क्षेम-श्री-विजयावहायै नमः१०८
॥इति श्रीकावेर्यष्टोत्तरशतनामावलिः सम्पूर्णा॥
कावेरी-देव्यै नमः, नाना-विध-परिमल-पत्र-पुष्पाणि समर्पयामि।
उत्तराङ्गपूजा
कावेरी-देव्यै नमः, धूपम् आघ्रापयामि।
कावेरी-देव्यै नमः, दीपं दर्शयामि।
कावेरी-देव्यै नमः, नैवेद्यं समर्पयामि। पानीयं समर्पयामि। उत्तरापोशनं समर्पयामि। निवेदनान्तरम् आचमनीयं समर्पयामि।
कावेरी-देव्यै नमः, फलं कर्पूर-ताम्बूलं च समर्पयामि।
कावेरी-देव्यै नमः, नीराजनं समर्पयामि।
कावेरी-देव्यै नमः, प्रदक्षिणम् समर्पयामि।
कावेरी-देव्यै नमः, नमस्कारान् समर्पयामि।
अर्घ्यप्रदानम्
कावेर्यै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
कावेर्यै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
कावेर्यै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
प्रार्थना
इति सम्प्रार्थ्य॥
सुवासिनीभ्यः वायनदानानि
॥इति व्रतचूडामणौ कावेरी-पूजाविधिः॥
ॐ तत् सद् ब्रह्मार्पणमस्तु।