Pūjā
विनायक-व्रत-कल्पः
Vināyaka-vrata-kalpaḥ
Script
(मूलम्—श्रीव्रतरत्नाकरः, प्रथमो भागः)
आसीत्पुरा चन्द्रवंशे राजा धर्म इति श्रुतः।
स्वराज्ये दैवयोगेन ज्ञातिभिः कुटिलैर्हृते॥१॥
अनुजैर्भार्यया सार्थं जगाम गहनं वनम्।
बहुवृक्षसमाकीर्णं नानामृगसमन्वितम्॥२॥
बहुपक्षिकुलोपेतं व्याघ्रभल्लूकसङ्कुलम्।
तत्र तत्र समाविष्टा मुनयो ब्रह्मवादिनः॥३॥
आदित्यसन्निभाः सर्वे सर्वे वह्निसमप्रभाः।
तेजोमण्डलसङ्काशा वायुपर्णाम्बुभक्षकाः॥४॥
अग्निहोत्ररता नित्यम् अतिथीनां च पूजकाः।
ऊर्ध्वबाहवो निरालम्बाः सर्वे मुनिगणास्तथा॥५॥
तान् पश्यन् धर्मराजोऽपि सम्भ्रमेण समन्वितः।
सूताश्रमं समासाद्य सूतं दृष्ट्वा ससम्भ्रमः॥६॥
नत्वा च भार्यया सार्थम् अनुजैः समुपाविशत्॥७॥
धर्म उवाच
सूत सूत महाप्राज्ञ सर्वशास्त्रविशारद।
वयं च भार्यया सार्थं ज्ञातिभिः परिपीडिताः॥८॥
स्वराज्यं सकलं चैव पुत्राश्चापहृता हि नः।
तव दर्शनमात्रेण सर्वं दुःखं विनाशितम्॥९॥
ममोपरि कृपां कृत्वा व्रतं ब्रूहि दयानिधे॥१०॥
सूत उवाच
व्रतं सम्पत्करं नृणां सर्वसौख्यप्रवर्धनम्।
शृणुध्वं पाण्डवाः सर्वे व्रतानामुत्तमं व्रतम्॥११॥
रहस्यं सर्वपापघ्नं पुत्रपौत्राभिवर्धनम्।
व्रतं साम्बशिवेनैव स्कन्दस्योद्बोधितं पुरा॥१२॥
कैलासशिखरे रम्ये नानामुनिनिषेविते।
मन्दारविटपिप्रान्ते नानामणिविभूषिते॥१३॥
हेमसिंहासनासीनं शङ्करं लोकशङ्करम्।
पप्रच्छ षण्मुखस्तुष्टो लोकानुग्रहकाङ्क्षया॥१४॥
स्कन्द उवाच
केन व्रतेन भगवन् सौभाग्यम् अतुलं भवेत्।
पुत्रपौत्रान् धनं लब्ध्वा मनुजः सुखमेधते॥१५॥
तन्मे वद महादेव व्रतानामुत्तमं व्रतम्॥१६॥
ईश्वर उवाच
अस्ति चात्र महाभाग गणनाथप्रपूजनम्।
सर्वसम्पत्करं श्रेष्ठम् आयुष्कामार्थसिद्धिदम्॥१७॥
मासि भाद्रपदे शुक्ल-चतुर्थ्यां व्रतमाचरेत्।
प्रातः स्नात्वा शुचिर्भूत्वा नित्यकर्म समाचरेत्॥१८॥
स्वशक्त्या गणनाथस्य स्वर्णरौप्यमयाकृतिम्।
अथवा मृण्मयं कुर्याद् वित्तशाठ्यं न कारयेत्॥१९॥
स्वगृहस्योत्तरे देशे मण्डपं कारयेत्ततः।
तन्मध्ये अष्टदलं पद्मं यवैर्वा तण्डुलेन वा॥२०॥
प्रतिमां तत्र संस्थाप्य पूजयित्वा प्रयत्नतः।
श्वेतगन्धाक्षतैः पुष्पैः बहुविधैश्च वारिभिः॥२१॥
धूपैर्दीपैश्च नैवेद्यैः मोदकैर्घृतपाचितैः।
एकविंशतिसंख्यानि नारिकेलफलान्यपि॥२२॥
रम्भाजम्बुकपित्थौघान् इक्षुखण्डांश्च तावतः।
एवमन्यफलापूपैर्नैवेद्यं कारयेत्सुत॥२३॥
नृत्यगीतैश्च वाद्यैश्च पुराणपठनादिभिः।
तर्पयेद्गणनाथं च विप्रान् दानेन श्रोत्रियान्॥२४॥
बन्धुभिः स्वजनैः सार्धं भुञ्जीयात्तैलवर्जितम्।
एवं यः कुरुते मर्त्यो गणनाथप्रसादतः॥२५॥
सिध्यन्ति सर्वकार्याणि नात्र कार्या विचारणा।
ततः प्रभाते विमले पुनः पूजां समाचरेत्॥२६॥
मौञ्जीं कृष्णाजिनं दण्डम् उपवीतं कमण्डलुम्।
परिधानं तथा दद्याद्यथाविभवमुत्तमम्॥२७॥
उपायनं ततो दद्यादाचार्याय स्वशक्तितः।
अन्येभ्यो दक्षिणां दद्याद् ब्राह्मणान् भोजयेत्ततः॥२८॥
त्रैलोक्यविश्रुतं चैतद् व्रतानामुत्तमोत्तमम्।
अन्यैश्च देवमुनिभिर्गन्धर्वैः किन्नरैस्तथा॥२९॥
चीर्णमेतत् सर्वैस्तु पुराकल्पे षडानन।
इति पुत्राय शर्वेण षण्मुखायोदितं पुरा॥३०॥
एवं कुरुष्व धर्मज्ञ गणनाथप्रपूजनम्।
विजयस्ते भवेन्नित्यं सत्यं सत्यं वदाम्यहम्॥३१॥
एतद् व्रतं हरिश्चापि दमयन्ती पुराऽकरोत्।
कृष्णो जाम्बवतीमागाद् रत्नं चापि स्यमन्तकम्॥३२॥
दमयन्ती नलं चैव व्रतस्यास्य प्रभावतः।
शक्रेण पूजितः पूर्वं वृत्रासुरवधे तथा॥३३॥
रामदेवेन तद्वच्च सीताया मार्गणे तथा।
भगीरथेन तद्वच्च गङ्गामानयता पुरा॥३४॥
अमृतोत्पादनार्थाय तथा देवासुरैरपि।
कुष्ठव्याधियुतेनापि साम्बेनाराधितः पुरा॥३५॥
एवमुक्तस्तु सूतेन सानुजः पाण्डुनन्दनः।
पूजयामास देवस्य पुत्रं त्रिपुरघातिनः॥३६॥
शत्रून् निहत्य प्राप्तवान् राज्यमोजसा।
पूजयित्वा महाभागं गणेशं सिद्धिदायकम्॥३७॥
सिध्यन्ति सर्वकार्याणि मनसा चिन्तितान्यपि।
तेन ख्यातिं गतो लोके नाम्ना सिद्धिविनायकः॥३८॥
विद्यारम्भे पूजितश्चेत् विद्यालाभो भवेद्ध्रुवम्।
जयं च जयकामश्च पुत्रार्थी लभते सुतान्॥३९॥
पतिकामा च भर्तारं सौभाग्यं च सुवासिनी।
विधवा पूजयित्वा तु वैधव्यं नाप्नुयात्क्वचित्॥४०॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽप्यथवा स्त्रियः।
अर्भकश्चापि भक्त्या च व्रतं कुर्याद्यथाविधि॥४१॥
सिध्यन्ति सर्वकार्याणि गणनाथप्रसादतः।
पुत्रपौत्राभिवृद्धिं च गजाद्यैश्वर्यमाप्नुयात्॥४२॥
॥ इति श्रीव्रतरत्नाकरे विनायकव्रतकल्पः सम्पूर्णः ॥