स्तोत्रसंहिताStotraSamhita
Pūjā

ऋषिपञ्चमी-व्रत-कथा

Ṛṣipañcamī-vrata-kathā

(मूलम्—श्रीभविष्योत्तरपुराणम्, यथा श्रीव्रतरत्नाकरे संगृहीतम्)

श्रुतानि देवदेवेश व्रतानि सुबहूनि च।
साम्प्रतं मे समाचक्ष्व व्रतं पापप्रणाशनम्॥१॥

ब्रह्मोवाच

शृणु राजन् प्रवक्ष्यामि व्रतानामुत्तमं व्रतम्।
ऋषिपञ्चमीति विख्यातं सर्वपापहरं परम्॥२॥
येन चीर्णेन राजेन्द्र नरकं नैव पश्यति।
अत्रैवोदाहरन्तीममितिहासं पुरातनम्॥३॥
वैदर्भे च द्विजवर उदको नाम नामतः।
तस्य भार्या सुशीलेति पतिव्रतपरायणा॥४॥
तस्या अपत्ययुगलं पुत्रो हि सुविभीषणः।
अधीतवान् सुतस्तस्य वेदान् साङ्गपदक्रमान्॥५॥
समानेन कुलीनेन सुता चापि विवाहिता।
नवोढात्वेऽपि सा दैवाद्वैधव्यं प्राप सत्तमा॥६॥
सतीत्वं पालयन्ती सा आस्ते निजपितुर्गृहे।
तस्या दुःखेन सन्तप्तस्सुतं संस्थाप्य वेश्मनि॥७॥
गङ्गातीरवनं प्राप्तः कदाचित्तु तया सह।
स तत्राध्यापयामास शिष्यान् वेदं द्विजोत्तमः॥८॥
सुता च कुरुते तस्य पितुश्शुश्रूषणं परम्।
पितुश्शुश्रूषणं कृत्वा परिश्रान्ता कदाचन॥९॥
निशीथे किल सुप्तायां क्रिमिराशिरजायत।
शिष्यास्तथाविधां दृष्ट्वा विवस्त्रां प्रस्तरे स्थिताम्॥१०॥
गत्वा निवेदयामासुस्तन्मातुः करुणां गताः।
न जानीमो वयं किञ्चिद्देवि साध्वी तथाविधा॥११॥
क्रिमिराशिमयी जाता मातस्सम्प्रति दृश्यते।
वज्रपातसमं श्रुत्वा तच्छिष्यैस्समुदाहृतम्॥१२॥
सा श्रान्तमानसा शीघ्रं तत्समीपमुपागमत्।
सुतां तथाविधां दृष्ट्वा विललाप सुदुःखिता॥१३॥
उरश्च ताडयामास सुतरां मोहमाप च।
क्षणेन प्राप्य चैतन्यमुत्थाप्य परिमृज्य च॥१४॥
समालिङ्ग्य च बाहुभ्यां निन्ये तत्पितुरन्तिकम्।
स्वामिन् कथय मे साध्वी केन दुष्कृतकर्मणा॥१५॥
निशीथे च प्रसुप्तेयं जायते क्रिमिसङ्कुला।
एवं श्रुत्वा ततो वाक्यम् ऋषिर्ध्यानपरायणः॥१६॥
ज्ञात्वा निवेदयामास तस्याः प्राग्जन्मचेष्टितम्॥१७॥

ऋषिरुवाच

प्राणीयं सप्तमेऽतीते जन्मनि ब्राह्मणी ह्यभूत्।
रजस्वला च सञ्जाता भाण्डादीनस्पृशत्तदा॥१८॥
अस्यास्तु पाप्मना तेन जायते क्रिमिवद्वपुः।
रजस्वलायाः पापेन युक्ता भवति साऽनघे॥१९॥
प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी।
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुद्ध्यति॥२०॥
तदा तया सखीसङ्घातं दृष्ट्वाऽवमानितम्।
दृष्टव्रतप्रभावेन जाता द्विजकुलेऽमले॥२१॥
अवमानाद्व्रतस्यास्य क्रिमिराशिरिवाधुना।
एतत्ते कथितं सर्वं कारणं दुष्कृतस्य च॥२२॥

सुशीलोवाच

दर्शनादपि जन्तोरस्य द्विजानां निर्मले कुले।
जन्म युष्मद्विधानां हि जायते ब्रह्मतेजसाम्॥२३॥
अवज्ञया प्रजायन्ते निशीथे क्रिमिराशयः।
महाश्चर्यं कथं नाथ तद्व्रतं कथयस्व मे॥२४॥

उदक उवाच

सुशीले शृणु तत्सम्यक् व्रतं नामोत्तमं व्रतम्।
येन चीर्णेन सहसा पापादस्मात् प्रमुच्यते॥२५॥
दुःखत्रयाच्च मुच्येत नारी सौभाग्यमाप्नुयात्।
कल्याणानि विवर्धन्ते सम्पदश्च निरापदः॥२६॥

युधिष्ठिर उवाच

श्रुतानि देवदेवेश व्रतानि सुबहूनि च।
साम्प्रतं त्वन्यदाचक्ष्व व्रतं पापप्रणाशनम्॥२७॥

श्रीकृष्ण उवाच

अथान्यदपि राजेन्द्र पञ्चम्यामृषिपूजनम्।
कथयिष्यामि यत्कृत्वा नारी पापात् प्रमुच्यते॥२८॥

युधिष्ठिर उवाच

कीदृशी पञ्चमी कृष्ण कथं तदृषिपूजनम्।
पातकान्मुच्यते कस्मान्नारी यदुकुलोद्भव॥२९॥
पापानि च बहून्यत्र विद्यन्ते किल केशव।
कथं वा ऋषिपञ्चम्यां नारी कस्मात् प्रमुच्यते॥३०॥

श्रीकृष्ण उवाच

अज्ञानाज्ज्ञानतो वापि या स्त्री जाता रजस्वला।
दुष्टा स्पृशति भाण्डानि गृहकर्मणि संस्थिता॥३१॥
प्राप्नोति सा महापापं सर्वा ना रजस्वलाः।
शृणु तत्कारणं येन वर्जनीया रजस्वला॥३२॥
प्रोत्सार्या गृहतो दूरं चातुर्वर्ण्येन भारत।
ब्रह्महत्यां पुरा शक्रो वृत्रं हत्वा ह्यवाप च॥३३॥
तया वै राजशार्दूल पीडितो वृत्रसूदनः।
ब्रह्माणं समुपागच्छदात्मशुद्धिकारणात्॥३४॥
शुद्ध्यै शक्रस्य राजेन्द्र प्रहृष्टेनान्तरात्मना।
विभज्य ब्रह्महत्यां तु चतुर्धा स चतुर्मुखः॥३५॥
प्राक्षिपद्राजशार्दूल चतुःस्थानेषु वै तदा।
वह्नौ प्रथमजिह्वासु नदीनां प्रथमोदके॥३६॥
गिरिवृक्षादिभूमौ च नारीरजसि पार्थिव।
ततो रजस्वला नारी प्रोत्सार्या च प्रयत्नतः॥३७॥
ब्राह्मणशासनात्पार्थ चातुर्वर्ण्येन सर्वदा।
प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी॥३८॥
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुद्ध्यति।
अज्ञानाज्ज्ञानतो वापि जातं सम्पर्कपातकम्॥३९॥
तत्पापसंक्षयार्थं वै कार्येयमृषिपञ्चमी।
सर्वपापप्रशमनी सर्वोपद्रवनाशिनी॥४०॥
ब्रह्मक्षत्रियविट्शूद्रस्त्रीभिः कार्या विशेषतः॥४१॥

कृष्ण उवाच

अत्रार्थे यत्पुरा वृत्तं प्रवक्ष्यामि कथात्मकम्॥४२॥
पुरा कृतयुगे राजा विदर्भाणां बभूव ह।
श्येनजिन्नाम राजर्षिश्चातुर्वर्ण्यानुपालकः॥४३॥
तस्य देशे वसन्विप्रो वेदवेदाङ्गपारगः।
सुमित्रो नाम विप्रेन्द्रः सर्वभूतहिते रतः॥४४॥
कृषिवृत्त्या सदा युक्तः कुटुम्बपरिपालकः।
तस्य भार्या सुसाध्वी च पतिशुश्रूषणे रता॥४५॥
जयश्रीर्नाम विख्याता बहुभृत्यसुहृज्जना।
अतिचिन्तान्विता सा च प्रावृट्काले सुमध्यमा॥४६॥
क्षेत्रादिषु रता साध्वी चाकुलीकृतमानसा।
एकदा साऽऽत्मनः प्राप्तमृतुकालं व्यलोकयत्॥४७॥
रजस्वलाऽपि सा राजन् गृहकर्म चकार ह।
भाण्डादीन्यस्पृशद्राजन् प्राप्तर्तुरपि भामिनी॥४८॥
कालेन बहुना साध्वी पञ्चत्वमगमत्तदा।
तस्या भर्ताऽपि विप्रोऽसौ कालधर्ममुपेयिवान्॥४९॥
एवं तौ दम्पती राजन् स्वकर्मवशगौ तदा।
भार्या तस्य जयश्रीस्सा ऋतुसम्पर्कदोषतः॥५०॥
शुनीयोनिसमुत्पन्ना शुनी चाभून्नरेश्वर।
तस्यास्सम्पर्कदोषेण बलीवर्दो बभूव सः॥५१॥
ऋतुसम्पर्कदोषेण तिर्यग्योनिमुपागतौ।
स्वधर्माचरणाज्जातावुभौ जातिस्मरौ तदा॥५२॥
सुतस्यैव गृहे राजन् स्मरन्तौ पूर्वपातकम्।
सुमित्रस्य च पुत्रोऽभूद्गुरुशुश्रूषणे रतः॥५३॥
सुमतिर्नाम धर्मज्ञो देवतातिथिपूजकः।
कालक्षयाहे सम्प्राप्ते पितुस्तु सुमतिस्तदा॥५४॥
भार्यां चन्द्रवतीं प्राप्य पैतृकश्रद्धयाऽन्वितः।
अद्य साम्वत्सरदिनं पितुर्मे चारुहासिनि॥५५॥
भोजनीया द्विजा भीरु पाकशुद्धिर्विधीयताम्।
तया कृता पाकशुद्धिस्सुमते शासनाद्गृहे॥५६॥
मुक्तं पायसभाण्डे वै सर्पेण गरलं ततः।
दृष्ट्वा ब्रह्मवधाद्भीता शुनी भाण्डानि साऽस्पृशत्॥५७॥
द्विजभार्या च तां दृष्ट्वा उल्मुकेन जघान ह।
भाण्डादीनि च प्रक्षाल्य त्यक्त्वा पाकं सुमध्यमा॥५८॥
पुनः पाकं च कृत्वा तु श्राद्धं कृत्वा विधानतः।
ततो भुक्तेषु विप्रेषु नोच्छिष्टं च ददौ बहिः॥५९॥
भूमौ क्षिप्तं तया शुन्या उपवासस्ततोऽभवत्।
ततो रात्र्यां प्रवृत्तायां सा शुनी क्षुधिता भृशम्॥६०॥
बलीवर्दमुपागत्य भर्तारमिदमब्रवीत्॥६१॥

शुन्युवाच

बुभुक्षिता गृहे भर्तर्न दत्तं भोजनादिकम्।
ग्रासादिकं च न प्राप्तं क्षुधा मां बाधते भृशम्॥६२॥
अन्यस्मिन् दिवसे पुत्रो मम लेह्यं ददात्यसौ।
अद्य मह्यं किमप्येष उच्छिष्टमपि नो ददौ॥६३॥
पायसान्ने पपाताद्य गरलं सर्पसम्भवम्।
मया विचिन्त्य मनसा मरिष्यन्ति द्विजोत्तमाः॥६४॥
संस्पृष्टं पायसं गत्वा तत्राहं ताडिता भृशम्।
दुःखितं तेन मे गात्रं कटिर्भग्ना करोमि किम्॥६५॥

बलीवर्द उवाच

भद्रे ते पापजं फलम्॥६६॥
किं करोमि शक्तोऽहं भारवाहोऽद्य सुस्थितः।
अद्याहमात्मजक्षेत्रे वाहितस्सकलं दिनम्॥६७॥
मारितश्चात्मजेनाहं मुखं बद्ध्वा बुभुक्षितः।
वृथा श्राद्धं कृतं तेन जाताऽद्य मम कष्टता॥६८॥

श्रीकृष्ण उवाच

तयोस्संवदतोरेव मातापित्रोश्च भारत।
श्रुत्वा पुत्रस्तदा वाक्यं यदुक्तं च तदोभयोः॥६९॥
ततो रजन्यां तत्कालं ददौ तस्यैव भोजनम्।
पितरौ तौ विदित्वा तु दत्तवान् सुमतिस्तदा॥७०॥
ततोऽसौ दुःखितः पुत्रो ज्ञात्वाऽवस्थां तदा तयोः।
मातापित्रोस्तु राजेन्द्र दुःखात्मा प्रस्थितो वनम्॥७१॥
ज्ञातुमिच्छामि कष्टं वै मातापित्रोश्च भारत।
तत्र गत्वा ज्ञानवृद्धानृषीन् सप्त वनाश्रितान्॥७२॥
प्रणिपत्याब्रवीद्वाक्यं हितं चैव तदा तयोः॥७३॥

सुमतिरुवाच

कथयध्वं विप्रवर्याः प्रश्नमेकं समाहिताः।
केन कर्मविपाकेन पितरौ मे तपोधनाः॥७४॥
इमामवस्थां सम्प्राप्तौ मुच्येते पातकात्कथम्॥७५॥

श्रीकृष्ण उवाच

तदाकर्ण्य वचस्तस्य सुमतेर्दुःखितस्य च।
ऋषिस्सर्वतपा नाम सर्वज्ञः करुणान्वितः॥७६॥
सुमतिं प्रत्युवाचेदं तत्पित्रोर्मुक्तये तदा॥७७॥

ऋषिरुवाच

तव माता पुरा विप्र स्वगृहे बालभावतः॥७८॥
ऋतुं प्राप्तं विदित्वा तु सम्पर्कमकरोद्द्विज।
तेन कर्मविपाकेन शुनीयोनिमुपागता॥७९॥
पिताऽपि स्पर्शदोषेण बलीवर्दो बभूव ह।
एतयोर्मुक्तिकामार्थं कुरु त्वमृषिपञ्चमीम्॥८०॥
भार्यया सह विप्रेन्द्र ऋषीन् सम्पूज्य यत्नतः।
आचरस्व व्रतं तत्र सप्तवर्षं द्विजोत्तम॥८१॥
अन्ते चोद्यापनं कुर्याद्वित्तशाठ्यविवर्जितः।
शाकाहारस्तु कर्तव्यो नीवारैश्श्यामकैस्तदा॥८२॥
कन्दं वाऽथ फलं मूलं हलकृष्टं न भक्षयेत्।
प्राप्य भाद्रपदे मासि शुक्लपक्षस्य पञ्चमीम्॥८३॥
तस्यां मध्याह्नसमये नद्यादौ विमले जले।
कृत्वाऽपामार्गसमिधा दन्तधावनमादितः॥८४॥
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च।
ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते॥८५॥
संप्रार्थ्यानेन मन्त्रेण कुर्याद्वै दन्तधावनम्।
मुखदुर्गन्धनाशाय दन्तानां च विशुद्धये॥८६॥
ष्ठीवनाय च गात्राणां कुर्वेऽहं दन्तधावनम्।
अनेन दन्तान् संशोध्य स्नायान्मृत्स्नानपूर्वकम्॥८७॥
तिलामलककल्केन केशान् संशोध्य यत्नतः।
परिधाय नवं शुद्धं वासोयुग्मं समाहितः॥८८॥
विधाय नित्यकर्माणि गृहं गत्वा तान् ऋषीन्।
स्थापयेद्विधिवद्भक्त्या पञ्चामृतरसैश्शुभैः॥८९॥
चन्दनागरुकर्पूरैर्विलिप्य च सुगन्धिभिः।
पूजयेद्विविधैः पुष्पैर्गन्धधूपादिदीपकैः॥९०॥
समाच्छाद्य शुभैर्वस्त्रैस्सोपवीतैर्यथाविधि।
ततो नैवेद्यसम्पन्नैर्दद्याच्छुभैः फलैः॥९१॥
पूजयस्व ऋषीन् दिव्यान् अरुन्धत्या समन्वितान्॥९२॥
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः।
जमदग्निर्वसिष्ठश्च साध्वी चैवाप्यरुन्धती॥९३॥
मन्त्रेणानेन सप्तर्षीन् पूजयेत्सुसमाहितः।
व्रतेन ऋषिपञ्चम्याः कृतेनैव द्विजोत्तम॥९४॥
ऋतुसम्पर्कजो दोषः क्षयं याति न संशयः॥९५॥

श्रीकृष्ण उवाच

तच्छ्रुत्वा सुमतिर्वाक्यं परमं मुनिभाषितम्॥९६॥
गृहमेत्य व्रतं चक्रे सभार्यः श्रद्धयाऽन्वितः।
व्रतं तु ऋषिपञ्चम्यास्सर्वपापप्रणाशनम्॥९७॥
कृत्वा सर्वं यथोक्तं च मातापित्रोः फलं ददौ।
व्रतपुण्यप्रभावेन माता तस्य श्वयोनितः॥९८॥
मुक्ता नृपतिशार्दूल विमानवरमास्थिता।
दिव्याम्बरधरा भूत्वा गता स्वर्गं च भारत॥९९॥
पिताऽपि स मृतोऽगच्छत् सुमतेः पशुयोनितः।
स्वर्गं प्राप्तो महाराज व्रतस्यास्य प्रभावतः॥१००॥
दिव्याम्बरधरो भूत्वा गतस्स्वर्गं स भारत।
कायिकं वाचिकं वापि मानसं यच्च दुष्कृतम्॥१०१॥
तत्सर्वं विलयं याति व्रतस्यास्य प्रभावतः।
तस्य यज्जायते पुण्यं तच्छृणुष्व नृपोत्तम॥१०२॥
सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्।
सर्वदानेषु दत्तेषु तदेतद्व्रतचारणात्॥१०३॥
कुरुते या व्रतं नारी सा भवेत्सुखभागिनी।
रूपलावण्ययुक्ता च पुत्रपौत्राभिसंयुता॥१०४॥
इह लोके सुखं यायात् परत्र च परां गतिम्।
एतत्ते कथितं राजन् व्रतानामुत्तमं व्रतम्॥१०५॥
सर्वसम्पत्प्रदं चैव नारीणां पापनाशनम्।
धनं यशश्च स्वर्गं च पुत्रानपि युधिष्ठिर॥१०६॥
पठतां शृण्वतां चापि दद्यात्पापप्रणाशनम्॥१०७॥

॥ इति श्रीभविष्योत्तरपुराणे ऋषिपञ्चमीव्रतकथा सम्पूर्णा ॥