Pūjā
प्रदोष-व्रत-कथा
Pradoṣa-vrata-kathā
Script
अथ षष्ठोऽध्यायः—प्रदोषमाहात्म्यवर्णनम्
ऋषय ऊचुः
यदुक्तं भवता सूत महदाख्यानमद्भुतम्।
शम्भोर्माहात्म्यकथनमशेषाघहरं परम्॥१॥
भूयोपि श्रोतुमिच्छामस्तदेव सुसमाहिताः।
प्रदोषे भगवाञ्छम्भुः पूजितस्तु महात्मभिः॥२॥
सम्प्रयच्छति कां सिद्धिमेतन्नो ब्रूहि सुव्रत।
श्रुतमप्यसकृत्सूत भूयस्तृष्णा प्रवर्धते॥३॥
सूत उवाच
साधु पृष्टं महाप्राज्ञा भवद्भिर्लोकविश्रुतैः।
अतोऽहं सम्प्रवक्ष्यामि शिवपूजाफलं महत्॥४॥
त्रयोदश्यां तिथौ सायं प्रदोषः परिकीर्तितः।
तत्र पूज्यो महादेवो नान्यो देवः फलार्थिभिः॥५॥
प्रदोषपूजामाहात्म्यं को नु वर्णयितुं क्षमः।
यत्र सर्वेऽपि विबुधास्तिष्ठन्ति गिरिशान्तिके॥६॥
प्रदोषसमये देवः कैलासे रजतालये।
करोति नृत्यं विबुधैरभिष्टुतगुणोदयः॥७॥
अतः पूजा जपो होमस्तत्कथास्तद्गुणस्तवः।
कर्तव्यो नियतं मर्त्यैश्चतुर्वर्गफला र्थिभिः॥८॥
दारिद्यतिमिरान्धानां मर्त्यानां भवभीरुणाम्।
भवसागरमग्नानां प्लवोऽयं पारदर्शनः॥९॥
दुःखशोकभयार्तानां क्लेशनिर्वाणमिच्छताम्।
प्रदोषे पार्वतीशस्य पूजनं मङ्गलायनम्॥१०॥
दुर्बुद्धिरपि नीचोपि मन्दभाग्यः शठोऽपि वा।
प्रदोषे पूज्य देवेशं विपद्भ्यः स प्रमुच्यते॥११॥
शत्रुभिर्हन्यमानोऽपि दश्यमानोपि पन्नगैः।
शैलैराक्रम्यमाणोऽपि पतितोऽपि महाम्बुधौ॥१२॥
आविद्धकालदण्डोऽपि नानारोगहतोऽपि वा।
न विनश्यति मर्त्योऽसौ प्रदोषे गिरिशार्चनात्॥१३॥
दारिद्र्यं मरणं दुःखमृणभारं नगोपमम्।
सद्यो विधूय सम्पद्भिः पूज्यते शिवपूजनात्॥१४॥
अत्र वक्ष्ये महापुण्यमितिहासं पुरातनम्।
यं श्रुत्वा मनुजाः सर्वे प्रयान्ति कृतकृत्यताम्॥१५॥
आसीद्विदर्भविषये नाम्ना सत्यरथो नृपः।
सर्वधर्मरतो धीरः सुशीलः सत्यसङ्गरः॥१६॥
तस्य पालयतो भूमिं धर्मेण मुनिपुङ्गवाः।
व्यतीयाय महान्कालः सुखेनैव महामतेः॥१७॥
अथ तस्य महीभर्तुर्बभूवुः शाल्वभूभुजः।
शत्रवश्चोद्धतबला दुर्मर्षणपुरोगमाः॥१८॥
कदाचिदथ ते शाल्वाः सन्नद्धबहुसैनिकाः।
विदर्भनगरीं प्राप्य रुरुधुर्विजिगीषवः॥१९॥
दृष्ट्वा निरुद्ध्यमानां तां विदर्भाधिपतिः पुरीम्।
योद्धुमभ्याययौ तूर्णं बलेन महता वृतः॥२०॥
तस्य तैरभवद् युद्धं शाल्वैरपि बलोद्धतैः।
पाताले पन्नगेन्द्रस्य गन्धर्वैरिव दुर्मदैः॥२१॥
विदर्भनृपतिः सोऽथ कृत्वा युद्धं सुदारुणम्।
प्रनष्टोरुबलैः शाल्वैर्निहतो रणमूर्धनि॥२२॥
तस्मिन्महारथे वीरे निहते मन्त्रिभिः सह।
दुद्रुवुः समरे भग्ना हतशेषाश्च सैनिकाः॥२३॥
अथ युद्धेऽभिविरते नदत्सु रिपुमन्त्रिषु।
नगर्यां युद्ध्यमानायां जाते कोलाहले रवे॥२४॥
तस्य सत्यरथस्यैका विदर्भाधिपतेः सती।
भूरिशोकसमाविष्टा क्वचिद्यत्नाद्विनिर्ययौ॥२५॥
सा निशासमये यत्नादन्तर्वत्नी नृपाङ्गना।
निर्गता शोक सन्तप्ता प्रतीचीं प्रययौ दिशम्॥२६॥
अथ प्रभाते मार्गेण गच्छन्ती शनकैः सती।
अतीत्य दूरमध्वानं ददर्श विमलं सरः॥२७॥
तत्राऽऽगत्य वरारोहा तप्ता तापेन भूयसा।
विलसन्तं सरस्तीरे छायावृक्षं समाश्रयत्॥२८॥
तत्र दैववशाद्राज्ञी विजने तरुकुट्टिमे।
असूत तनयं साध्वी मुहूर्ते सद्गुणान्विते॥२९॥
अथ सा राजमहिषी पिपासाभिहता भृशम्।
सरोऽवतीर्णा चार्वङ्गी ग्रस्ता ग्राहेण भूयसा॥३०॥
जातमात्रः कुमारोऽपि विनष्टपितृमातृकः।
रुरोदोच्चैः सरस्तीरे क्षुत्पिपासार्दितोऽबलः॥३१॥
तस्मिन्नेवं क्रन्दमाने जातमात्रे कुमारके।
काचिदभ्याययौ शीघ्रं दिष्ट्या विप्रवराङ्गना॥३२॥
साप्येकहायनं बालमुद्वहन्ती निजात्मजम्।
अधना भर्तृरहिता याचमाना गृहेगृहे॥३३॥
एकात्मजा बन्धुहीना याञ्चामार्गवशङ्गता।
उमा नाम द्विजसती ददर्श नृपनन्दनम्॥३४॥
सा दृष्ट्वा राजतनयं सूर्यबिम्बमिव च्युतम्।
अनाथमेनं क्रन्दन्तं चिन्तयामास भूरिशः॥३५॥
अहो सुमहदाश्चर्यमिदं दृष्टं मयाऽधुना।
अच्छिन्ननाभिसूत्रोऽयं शिशुर्माता क्व वा गता॥३६॥
पिता नास्ति न चान्योस्ति नास्ति बन्धुजनोऽपि वा।
अनाथः कृपणो बालः शेते केवल भूतले॥३७॥
एष चाण्डालजो वाऽपि शूद्रजो वैश्यजोपि वा।
विप्रात्मजो वा नृपजो ज्ञायते कथमर्भकः॥३८॥
शिशुमेनं समुद्धृत्य पुष्णाम्यौरसवद्ध्रुवम्।
किं त्वविज्ञातकुलजं नोत्सहे स्प्रष्टुमुत्तमम्॥३९॥
इति मीमांसमानायां तस्यां विप्रवरस्त्रियाम्॥४०॥
कश्चित्समाययौ भिक्षुः साक्षाद् देवः शिवः स्वयम्।
तामाह भिक्षुवर्योथ विप्रभामिनि मा खिदः॥४१॥
रक्षैनं बालकं सुभ्रुर्विसृज्य हृदि संशयम्।
अनेन परमं श्रेयः प्राप्स्यसे ह्यचिरादिह॥४२॥
एतावदुक्त्वा त्वरितो भिक्षुः कारुणिको ययौ।
अथ तस्मिन्गते भिक्षौ विश्रब्धा विप्रभामिनी॥४३॥
तमर्भकं समादाय निजमेव गृहं ययौ।
भिक्षुवाक्येन विश्रब्धा सा राजतनयं सती॥४४॥
आत्मपुत्रेण सदृशं कृपया पर्यपोषयत्।
एकचक्राह्वये रम्ये ग्रामे कृतनिकेतना॥४५॥
स्वपुत्रं राजपुत्रं च भिक्षान्नेन व्यवर्धयत्।
ब्राह्मणीतनयश्चैव स राजतनयस्तथा॥४६॥
ब्राह्मणैः कृतसंस्कारौ ववृधाते सुपूजितौ।
कृतोपनयनौ काले बालकौ नियमे स्थितौ॥४७॥
भिक्षार्थं चेरतुस्तत्र मात्रा सह दिनेदिने।
ताभ्यां कदाचिद्बालाभ्यां सा विप्रवनिता सह॥४८॥
भैक्ष्यं चरन्ती दैवेन प्रविष्टा देवतालयम्।
तत्र वृद्धैः समाकीर्णे मुनिभिर्देवतालये॥४९॥
तौ दृष्ट्वा बालकौ धीमाञ्छाण्डिल्यो मुनिरब्रवीत्।
अहो दैवबलं चित्रमहो कर्म दुरत्ययम्॥५०॥
एष बालोऽन्यजननीं श्रितो भैक्ष्येण जीवति।
इमामेव द्विजवधूं प्राप्य मातरमुत्तमाम्॥५१॥
सहैव द्विजपुत्रेण द्विजभावं समाश्रितः।
इति श्रुत्वा मुनेर्वाक्यं शाण्डिल्यस्य द्विजाङ्गना॥५२॥
सा प्रणम्य सभामध्ये पर्यपृच्छत्सविस्मया।
ब्रह्मन्नेषोर्भको नीतो मया भिक्षोर्गिरा गृहम्॥५३॥
अविज्ञातकुलोद्यापि सुतवत्परिपोष्यते।
कस्मिन्कुले प्रसूतोऽयं का माता जनकोस्य कः॥५४॥
सर्वं विज्ञातुमिच्छामि भवतो ज्ञानचक्षुषः॥५५॥
इति पृष्टो मुनिः सोथ ज्ञानदृष्टिर्द्विजस्त्रियां।
आचख्यौ तस्य बालस्य जन्म कर्म च पौर्विकम्॥५६॥
विदर्भराजपुत्रस्तु तत्पितुः समरे मृतिम्।
तन्मातुर्नक्रहरणं साकल्येन न्यवेदयत्॥५७॥
अथ सा विस्मिता नारी पुनः पप्रच्छ तं मुनिम्।
स राजा सकलान्भोगान्हित्वा युद्धे कथं मृतः॥५८॥
दारिद्र्यमस्य बालस्य कथं प्राप्तं महामुने।
दारिद्र्यं पुनरुद्धूय कथं राज्यमवाप्स्यति॥५९॥
अस्यापि मम पुत्रस्य भिक्षान्नेनैव जीवतः।
दारिद्र्यशमनोपायमुपदेष्टुं त्वमर्हसि॥६०॥
शाण्डिल्य उवाच
अमुष्य बालस्य पिता स विदर्भमहीपतिः।
पूर्वजन्मनि पाण्ड्येशो बभूव नृपसत्तमः॥६१॥
स राजा सर्वधर्मज्ञः पालयन्सकलां महीम्।
प्रदोषसमये शम्भुं कदा चित्प्रत्यपूजयत्॥६२॥
तस्य पूजयतो भक्त्या देवं त्रिभुवनेश्वरम्।
आसीत्कलकलारावः सर्वत्र नगरे महान्॥६३॥
श्रुत्वा तमुत्कटं शब्दं राजा त्यक्तशिवार्चनः।
निर्ययौ राजभवनान्नगरक्षोभशङ्कया॥६४॥
एतस्मिन्नेव समये तस्यामात्यो महाबलः।
शत्रुं गृहीत्वा सामन्तं राजान्तिकमुपागमत्॥६५॥
अमात्येन समानीतं शत्रुं सामन्तमुद्धतम्।
दृष्ट्वा क्रोधेन नृपतिः शिरश्छेदमकारयत्॥६६॥
स तथैव महीपालो विसृज्य शिवपूजनम्।
असमाप्तात्मनियमश्चकार निशि भोजनम्॥६७॥
तत्पुत्रोपि तथा चक्रे प्रदोषसमये शिवम्।
अनर्चयित्वा मूढात्मा भुक्त्वा सुष्वाप दुर्मदः॥६८॥
जन्मान्तरे स नृपतिर्विदर्भक्षितिपोऽभवत्।
शिवार्चनान्तरायेण परैर्भोगान्तरे हतः॥६९॥
तत्पुत्रो यः पूर्वभवे सोस्मिञ्जन्मनि तत्सुतः।
भूत्वा दारिद्र्यमापन्नः शिवपूजाव्यतिक्रमात्॥७०॥
अस्य माता पूर्वभवे सपत्नीं छद्मनाहनत्।
तेन पापेन महता ग्राहेणास्मिन्भवे हता॥७१॥
एषा प्रवृत्तिरेतेषां भवत्यै समुदाहृता।
अनर्चितशिवा मर्त्याः प्राप्नुवन्ति दरिद्रताम्॥७२॥
सत्यं ब्रवीमि परलोकहितं ब्रवीमि
सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि।
संसारमुल्बणमसारमवाप्य जन्तोः
सारो यमीश्वरपदाम्बुरुहस्य सेवा॥७३॥
ये नार्चयन्ति गिरिशं समये प्रदोषे
ये नार्चितं शिवमपि प्रणमन्ति चान्ये।
एतत्कथां श्रुतिपुटैर्न पिबन्ति मूढा-
स्ते जन्मजन्मसु भवन्ति नरा दरिद्राः॥७४॥
ये वै प्रदोषसमये परमेश्वरस्य
कुर्वन्त्यनन्यमनसोंऽघ्रिसरोजपूजाम्।
नित्यं प्रवृद्धधनधान्यकलत्रपुत्र-
सौभाग्यसम्पदधिकास्त इहैव लोके॥७५॥
कैलासशैलभवने त्रिजगज्जनित्रीं
गौरीं निवेश्य कनकाञ्चितरत्नपीठे।
नृत्यं विधातुमभिवाञ्छति शूलपाणौ
देवाः प्रदोषसमयेऽनुभजन्ति सर्वे॥७६॥
वाग्देवी धृतवल्लकी शतमखो वेणुं दधत्पद्मज-
स्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता।
विष्णुः सान्द्रमृदङ्गवादनपटुर्देवाः समन्तात्स्थिताः
सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम्॥७७॥
गन्धर्वयक्षपतगोरगसिद्ध साध्या
विद्याधरामरवराप्सरसां गणाश्च।
येऽन्ये त्रिलोकनिलयाः सह भूतवर्गाः
प्राप्ते प्रदोषसमये हरपार्थसंस्थाः॥७८॥
अतः प्रदोषे शिव एक एव
पूज्योऽथ नान्ये हरिपद्मजाद्याः।
तस्मिन्महेशे विधिनेज्यमाने
सर्वे प्रसीदन्ति सुराधिनाथाः॥७९॥
एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः।
प्रतिग्रहैर्वयो निन्ये न यज्ञाद्यैः सुकर्मभिः॥८०॥
अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि।
तद्दोष परिहारार्थं शरणं यातु शङ्करम्॥८१॥
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे प्रदोषमाहात्म्यवर्णनन्नाम षष्ठोऽध्यायः॥६॥
अथ सप्तमोऽध्यायः—प्रदोषमहिमावर्णनम्
सूत उवाच
इत्युक्ता मुनिना साध्वी सा विप्रवनिता पुनः।
तं प्रणम्याथ पप्रच्छ शिवपूजाविधेः क्रमम्॥८२॥
शाण्डिल्य उवाच
पक्षद्वये त्रयोदश्यां निराहारो भवेद्यदा।
घटीत्रयादस्तमयात्पूर्वं स्नानं समाचरेत्॥८३॥
शुक्लाम्बरधरो धीरो वाग्यतो नियमान्वितः।
कृतसन्ध्याजपविधिः शिवपूजां समारभेत्॥८४॥
देवस्य पुरतः सम्यगुपलिप्य नवाम्भसा।
विधाय मण्डलं रम्यं धौतवस्त्रादिभिर्बुधः॥८५॥
वितानाद्यैरलङ्कृत्य फलपुष्पनवाङ्कुरैः।
विचित्रपद्ममुद्धृत्य वर्णपञ्चकसंयुतम्॥८६॥
तत्रोपविश्य सुशुभे भक्तियुक्तः स्थिरासने।
सम्यक्सम्पादिताशेष पूजोपकरणः शुचिः॥८७॥
आगमोक्तेन मन्त्रेण पीठमामन्त्रयेत्सुधीः।
ततः कृत्वाऽऽत्मशुद्धिं च भूतशुद्ध्यादिकं क्रमात्॥८८॥
प्राणायामत्रयं कृत्वा बीजवर्णैः सबिन्दुकैः।
मातृका न्यस्य विधिवद्ध्यात्वा तां देवतां पराम्॥८९॥
समाप्य मातृका भूयो ध्यात्वा चैव परं शिवम्।
वामभागे गुरुं नत्वा दक्षिणे गणपं नमेत्॥९०॥
अंसोरुयुग्मे धर्मादीन्न्यस्य नाभौ च पार्श्वयोः।
अधर्मादीननन्तादीन्हृदि पीठे मनुं न्यसेत्॥९१॥
आधारशक्तिमारभ्य ज्ञानात्मानमनुक्रमात्।
उक्तक्रमेण विन्यस्य हृत्पद्मे साधुभाविते॥९२॥
नवशक्तिमये रम्ये ध्यायेद् देवमुमापतिम्।
चन्द्रकोटिप्रतीकाशं त्रिनेत्रं चन्द्रशेखरम्॥९३॥
आपिङ्गलजटाजूटं रत्नमौलिविराजितम्।
नीलग्रीवमुदाराङ्गं नागहारोपशोभितम्॥९४॥
वरदाभयहस्तं च धारिणं च परश्वधम्।
दधानं नागवलयकेयूराङ्गदमुद्रिकम्॥९५॥
व्याघ्रचर्मपरीधानं रत्नसिंहासने स्थितम्।
ध्यात्वा तद्वाम भागे च चिन्तयेद्गिरिकन्यकाम्॥९६॥
भास्वज्जपाप्रसूनाभामुदयार्कसमप्रभाम्।
विद्युत्पुंजनिभां तन्वीं मनोनयननन्दिनीम्॥९७॥
बालेन्दु शेखरां स्निग्धां नीलकुञ्चितकुन्तलाम्।
भृङ्गसङ्घातरुचिरां नीलालकविराजिताम्॥९८॥
मणिकुण्डलविद्योतन्मुखमण्डलविभ्रमाम्।
नवकुङ्कुमपङ्काङ्क कपोलदलदर्पणाम्॥९९॥
मधुरस्मितविभ्राजदरुणाधरपल्लवाम्।
कम्बुकण्ठीं शिवामुद्यत्कुचपङ्कजकुड्मलाम्॥१००॥
पाशाङ्कुशाभयाभीष्टविल सत्सु चतुर्भुजाम्।
अनेकरत्नविलसत्कङ्कणाङ्कितमुद्रिकाम्॥१०१॥
वलित्रयेण विलसद्धेमकाञ्चीगुणान्विताम्।
रक्तमाल्याम्बरधरां दिव्यचन्दनचर्चिताम्॥१०२॥
दिक्पालवनितामौलिसन्नताङ्घ्रिसरोरुहाम्।
रत्नसिंहासनारूढां सर्पराजपरिच्छदाम्॥१०३॥
एवं ध्यात्वा महादेवं देवीं च गिरि कन्यकाम्।
न्यासक्रमेण सम्पूज्य देवं गन्धादिभिः क्रमात्॥१०४॥
पञ्चभिर्ब्रह्मभिः कुर्यात्प्रोक्तस्थानेषु वा हृदि।
पृथक्पुष्पांजलिं देहे मूलेन च हृदि त्रिधा॥१०५॥
पुनः स्वयं शिवो भूत्वा मूलमन्त्रेण साधकः।
ततः सम्पूजयेद् देवं बाह्यपीठे पुनः क्रमात्॥१०६॥
सङ्कल्पं प्रवदेत् तत्र पूजारम्भे समाहितः।
कृतांजलिपुटो भूत्वा चिन्तयेद्धृदि शङ्करम्॥१०७॥
ऋणपातकदौर्भाग्यदारिद्र्यविनिवृत्तये।
अशेषाघविनाशाय प्रसीद मम शङ्कर॥१०८॥
दुःखशोकाग्निसन्तप्तं संसारभयपीडितम्।
बहुरोगाकुलं दीनं त्राहि मां वृषवाहन॥१०९॥
आगच्छ देवदेवेश महादेवाभयङ्कर।
गृहाण सह पार्वत्या तव पूजां मया कृताम्॥११०॥
इति सङ्कल्प्य विधिवद्ब्राह्मपूजां समाचरेत्।
गुरुं गणपतिं चैव यजेत्सव्यापसव्ययोः॥१११॥
क्षेत्रेशमीशकोणे तु यजेद्वास्तोष्पतिं क्रमात्।
वाग्देवीं च यजेत् तत्र ततः कात्यायनीं यजेत्॥११२॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च नमोंऽतकैः।
स्वरैरीशादिकोणेषु पीठपादाननुक्रमात्।
आभ्यां बिन्दुविसर्गाभ्यामधर्मादीन् प्रपूजयेत्॥११३॥
सत्त्वरूपैश्चतुर्दिक्षु मध्येऽनन्तं सतारकम्।
सत्त्वादींस्त्रिगुणांस्तं तु रूपान् पीठेषु विन्यसेत्॥११४॥
अत ऊर्ध्वच्छदे मायां सह लक्ष्म्या शिवेन च॥११५॥
तदन्ते चाम्बुजं भूयः सकलं मण्डलत्रयम्।
पत्रकेसरकिंजल्कव्याप्तं ताराक्षरैः क्रमात्॥११६॥
पद्मत्रयं तथाऽभ्यर्च्य मध्ये मण्डलमादरात्।
वामां ज्येष्ठां च रौद्रीं च भागाद्यैर्दिक्षु पूजयेत्॥११७॥
वामाद्या नव शक्तीश्च नवस्वरयुता यजेत्।
हृदि बीजत्रयाद्येन पीठमन्त्रेण चार्चयेत्॥११८॥
आवृत्तैः प्रथमाङ्गैश्च पञ्चभिर्मूर्तिशक्तिभिः।
त्रिशक्तिमूर्तिभिश्चान्यैर्निधिद्वयसमन्वितैः॥११९॥
अनन्ताद्यैः परीताश्च मातृभिश्च वृषादिभिः।
सिद्धिभिश्चाणिमाद्याभिरिन्द्राद्यैश्च सहायुधैः॥१२०॥
वृषभक्षेत्रचण्डेशदुर्गाश्च स्कन्दनन्दिनौ।
गणेशः सैन्यपश्चैव स्वस्वलक्षणलक्षिताः॥१२१॥
अणिमा महिमा चैव गरिमा लघिमा तथा।
ईशित्वं च वशित्वं च प्राप्तिः प्राकाम्यमेव च॥१२२॥
अष्टैश्वर्याणि चोक्तानि तेजोरूपाणि केवलम्।
पञ्चभिर्ब्रह्मभिः पूर्वं हृल्लेखाद्यादिभिः क्रमात्॥१२३॥
अङ्गैरुमाद्यैरिन्द्राद्यैः पूजोक्ता मुनिभिस्तु तैः।
उमाचण्डेश्वरादींश्च पूजयेदुत्तरादितः॥१२४॥
एवमावरणैर्युक्तं तेजोरूपं सदाशिवम्।
उमया सहितं देवमुपचारैः प्रपूजयेत्॥१२५॥
सुप्रतिष्ठितशङ्खस्य तीर्थैः पञ्चामृतैरपि।
अभिषिच्य महादेवं रुद्रसूक्तैः समाहितः॥१२६॥
कल्पयेद्विविधैर्मन्त्रैरासनाद्युपचारकान्।
आसनं कल्पयेद्धैमं दिव्यवस्त्रसमन्वितम्॥१२७॥
अर्घ्यमष्टगुणोपेतं पाद्यशुद्धोदकेन च।
तेनैवाचमनं दद्यान्मधुपर्कं मधूत्तरम्॥१२८॥
पुनराचमनं दत्त्वा स्नानं मन्त्रै प्रकल्पयेत्।
उपवीतं तथा वासो भूषणानि निवेदयेत्।
गन्धमष्टाङ्गसंयुक्तं सुपूतं विनिवेदयेत्॥१२९॥
ततश्च बिल्वमन्दारकह्लारसरसीरुहम्।
धत्तूरकं कर्णिकारं शणपुष्पं च मल्लिकाम्॥१३०॥
कुशापामार्गतुलसीमाधवीचम्पकादिकम्।
बृहतीकरवीराणि यथालब्धानि साधकः॥१३१॥
निवेदयेत्सुगन्धीनि माल्यानि विविधानि च।
धूपं कालागरूत्पन्नं दीपं च विमलं शुभम्॥१३२॥
अथ पायसनैवेद्यं सघृतं सोपदंशकम्।
मोदकापूपसंयुक्तं शर्करागुडसंयुतम्॥१३३॥
मधुनाक्तं दधियुतं जलपानसमन्वितम्।
तेनैव हविषा वह्नौ जुहुयान्मन्त्रभाविते॥१३४॥
आगमोक्तेन विधिना गुरुवाक्यनियन्त्रितः।
नैवेद्यं शम्भवे भूयो दत्त्वा ताम्बूलमुत्तमम्॥१३५॥
धूपं नीराजनं रम्यं छत्रं दर्पणमुत्तमम्।
समर्पयित्वा विधिवन्मन्त्रैर्वेदिकतान्त्रिकैः॥१३६॥
यद्यशक्तः स्वयं निःस्वो यथाविभवमर्चयेत्।
भक्त्या दत्तेन गौरीशः पुष्पमात्रेण तुष्यति॥१३७॥
अथाङ्गभूतान्सकलान्गणेशादीन् प्रपूजयेत्।
स्तवैर्नानाविधैः स्तुत्वा साष्टाङ्गं प्रणमेद्बुधः॥१३८॥
ततः प्रदक्षिणीकृत्य वृषचण्डेश्वरादिकान्।
पूजां समर्प्य विधिवत्प्रार्थयेद्गिरिजापतिम्॥१३९॥
जय देव जगन्नाथ जय शङ्कर शाश्वत।
जय सर्व सुराध्यक्ष जय सर्वसुरार्चित॥१४०॥
जय सर्वगुणातीत जय सर्ववरप्रद।
जय नित्य निराधार जय विश्वम्भराव्यय॥१४१॥
जय विश्वैकवेद्येश जय नागेन्द्रभूषण।
जय गौरीपते शम्भो जय चन्द्रार्धशेखर॥१४२॥
जय कोट्यर्कसङ्काश जयानन्तगुणाश्रय॥१४३॥
जय रुद्र विरूपाक्ष जयाचिन्त्य निरंजन।
जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन।
जय दुस्तरसंसारसागरोत्तारण प्रभो॥१४४॥
प्रसीद मे महादेव संसारार्तस्य खिद्यतः।
सर्वपापभयं हृत्वा रक्ष मां परमेश्वर॥१४५॥
महादारिद्र्यमग्नस्य महापापहतस्य च।
महाशोकविनष्टस्य महारोगातुरस्य च॥१४६॥
ऋणभारपरीतस्य दह्यमानस्य कर्मभिः।
ग्रहैः प्रपीड्यमानस्य प्रसीद मम शङ्कर॥१४७॥
दरिद्रः प्रार्थयेदेवं पूजान्ते गिरिजापतिम्।
अर्थाढ्यो वाऽपि राजा वा प्रार्थयेद् देवमीश्वरम्॥१४८॥
दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः।
ममास्तु नित्यमानन्दः प्रसादात् तव शङ्कर॥१४९॥
शत्रवः सङ्क्षयं यान्तु प्रसीदन्तु मम ग्रहाः।
नश्यन्तु दस्यवो राष्ट्रे जनाः सन्तु निरापदः॥१५०॥
दुर्भिक्षमारीसन्तापाः शमं यान्तु महीतले।
सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः॥१५१॥
एवमाराधयेद् देवं प्रदोषे गिरिजापतिम्।
ब्राह्मणान्भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत्॥१५२॥
सर्वपापक्षयकरी सर्वदारिद्र्यनाशिनी।
शिवपूजा मया ख्याता सर्वाभीष्टवरप्रदा॥१५३॥
महापातकसङ्घातमधिकं चोपपातकम्।
शिवद्रव्यापहरणादन्यत्सर्वं निवारयेत्॥१५४॥
ब्रह्महत्यादिपापानां पुराणेषु स्मृतिष्वपि।
प्रायश्चित्तानि दृष्टानि न शिवद्रव्यहारिणाम्॥१५५॥
बहुनात्र किमुक्तेन श्लोकार्धेन ब्रवीम्यहम्।
ब्रह्महत्याशतं वाऽपि शिवपूजा विनाशयेत्॥१५६॥
मया कथितमेतत्ते प्रदोषे शिवपूजनम्।
रहस्यं सर्वजन्तूनामत्र नास्त्येव संशयः॥१५७॥
एताभ्यामपि बालाभ्यामेवं पूजा विधीयताम्।
अतः संवत्सरादेव परां सिद्धिमवाप्स्यथ॥१५८॥
इति शाण्डिल्यवचनमाकर्ण्य द्विजभामिनी।
ताभ्यां तु सह बालाभ्यां प्रणनाम मुनेः पदम्॥१५९॥
विप्रस्त्र्युवाच
अहमद्य कृतार्थास्मि तव दर्शनमात्रतः।
एतौ कुमारौ भगवंस्त्वामेव शरणं गतौ॥१६०॥
एष मे तनयो ब्रह्मञ्छुचिव्रत इतीरितः।
एष राजसुतो नाम्ना धर्मगुप्तः कृतो मया॥१६१॥
एतावहं च भगवन्भवच्चरणकिङ्कराः।
समुद्धरास्मिन् पतितान्घोरे दारिद्र्यसागरे॥१६२॥
इति प्रपन्नां शरणं द्विजाङ्गना-
माश्वास्य वाक्यैरमृतोपमानैः।
उपादिदेशाथ तयोः कुमारयोर्-
मुनिः शिवाराधनमन्त्र विद्याम्॥१६३॥
अथोपदिष्टौ मुनिना कुमारौ ब्राह्मणी च सा।
तं प्रणम्य समामन्त्र्य जग्मुस्ते शिवमन्दिरात्॥१६४॥
ततः प्रभृति तौ बालौ मुनिवर्योपदेशतः।
प्रदोषे पार्वतीशस्य पूजां चक्रतुरंजसा॥१६५॥
एवं पूजयतोर्देवं द्विजराजकुमारयोः।
सुखेनैव व्यतीयाय तयोर्मासचतुष्टयम्॥१६६॥
कदाचिद्राजपुत्रेण विनासौ द्विजनन्दनः।
स्नातुं गतो नदीतीरे चचार बहुलीलया॥१६७॥
तत्र निर्झरनिर्घातनिर्भिन्ने वप्र कुट्टिमे।
निधानकलशं स्थूलं प्रस्फुरन्तं ददर्श ह॥१६८॥
तं दृष्ट्वा सहसागत्य हर्षकौतुकविह्वलः।
दैवोपपन्नं मन्वानो गृहीत्वा शिरसा ययौ॥१६९॥
ससम्भ्रमं समानीय निधाय कलशं बलात्।
निधाय भवनस्यान्ते मातरं समभाषत॥१७०॥
मातर्मातरिमं पश्य प्रसादं गिरिजापतेः।
निधानं कुम्भरूपेण दर्शितं करुणात्मना॥१७१॥
अथ सा विस्मिता साध्वी समाहूय नृपात्मजम्।
स्वपुत्रं प्रतिनन्द्याह मानयन्ती शिवार्चनम्॥१७२॥
शृणुतां मे वचः पुत्रौ निधानकलशीमिमाम्।
समं विभज्य गृह्णीतं मम शासनगौरवात्॥१७३॥
इति मातुर्वचः श्रुत्वा तुतोष द्विज नन्दनः।
प्रत्याह राजपुत्रस्तां विस्रब्धः शङ्करार्चने॥१७४॥
मातस्तव सुतस्यैव सुकृतेन समागतम्।
नाहं ग्रहीतुमिच्छामि विभक्तं धनसञ्चयम्॥१७५॥
आत्मनः सुकृताल्लब्धं स्वयमेव भुनक्त्वसौ।
स एव भगवानीशः करिष्यति कृपां मयि॥१७६॥
एवमर्चयतोः शम्भुं भूयोपि परया मुदा।
संवत्सरो व्यतीयाय तस्मिन्नेव गृहे तयोः॥१७७॥
अथैकदा राजसूनुः सह तेन द्विजन्मना।
वसन्तसमये प्राप्ते विजहार वनां तरे॥१७८॥
अथ दूरं गतौ क्वापि वने द्विजनृपात्मजौ।
गन्धर्वकन्याः क्रीडन्ती शतशस्तावपश्यताम्॥१७९॥
ताः सर्वाश्चारुसर्वाङ्ग्यो विहरन्त्यो मनोहरम्।
दृष्ट्वा द्विजात्मजो दूरादुवाच नृपनन्दनम्॥१८०॥
इतः पुरो न गन्तव्यं विहरन्त्यग्रतः स्त्रियः।
स्त्रीसन्निधानं विबुधास्त्यजन्ति विमलाशयाः॥१८१॥
एताः कैतवकारिण्यो धनयौवनदुर्मदाः।
मोहयन्त्यो जनं दृष्ट्वा वाचानुनयकोविदाः॥१८२॥
अतः परित्यजेत् स्त्रीणां सन्निधिं सहभाषणम्।
निजधर्मरतो विद्वन्ब्रह्मचारी विशेषतः॥१८३॥
अतोहं नोत्सहे गन्तुं क्रीडास्थानं मृगीदृशाम्।
इत्युक्त्वा द्विजपुत्रस्तु निवृत्तो दूरतः स्थितः॥१८४॥
अथासौ राजपुत्रस्तु कौतुकाविष्टमानसः।
तासां विहारपदवीमेक एवाभयो ययौ॥१८५॥
तत्र गन्धर्वकन्यानां मध्ये त्वेका वरानना।
दृष्ट्वाऽऽयान्तं राजपुत्रं चिन्तयामास चेतसा॥१८६॥
अहो कोयमुदाराङ्गो युवा सर्वाङ्गसुन्दरः।
मत्तमातङ्ग गमनो लावण्यामृतवारिधिः॥१८७॥
लीलालोलविशालाक्षी मधुरस्मितपेशलः।
मदनोपमरूपश्रीः सुकुमाराङ्गलक्षणः॥१८८॥
इत्याश्चर्ययुता बाला दूराद्दृष्ट्वा नृपात्मजम्।
सर्वाः सखीः समालोक्य वचनं चेदमब्रवीत्॥१८९॥
इतो विदूरे हे सख्यो वनमस्त्येकमुत्तमम्।
विचित्रचम्पकाशोकपुन्नागबकुलैर्युतम्॥१९०॥
तत्र गत्वा वनं सर्वाः सञ्चीय कुसुमोत्करम्।
भवत्यः पुनरायान्तु तावत् तिष्ठाम्यहं त्विह॥१९१॥
इत्यादिष्टः सखीवर्गो जगाम विपिनान्तरम्।
सापि गन्धर्वजा तस्थौ न्यस्तदृष्टिर्नृपात्मजे॥१९२॥
तां समालोक्य तन्वङ्गीं नवयौवनशालिनीम्।
बालां स्वरूपसम्पत्त्या पराभूततिलोत्तमाम्॥१९३॥
राजपुत्रः समागम्य कौतुकोत्फुल्ललोचनः।
अवाप दैवयोगेन मदनस्य शरव्यथाम्॥१९४॥
गन्धर्वतनया सापि प्राप्ताय नृपसूनवे।
उत्थाय तरसा तस्मै प्रददौ पल्लवासनम्॥१९५॥
कृतोपचारमासीनं तमासाद्य सुमध्यमा।
पप्रच्छ तद्रूपगुणैर्ध्वस्तधैर्याकुलेन्द्रिया॥१९६॥
कस्त्वं कमलपत्राक्ष कस्माद्देशादिहागतः।
कस्य पुत्र इति प्रेम्णा पृष्टः सर्वं न्यवेदयत्॥१९७॥
विदर्भ राजतनयं विध्वस्तपितृमातृकम्।
शत्रुभिश्च हृतस्थानमात्मानं परराष्ट्रगम्॥१९८॥
सर्वमावेद्य भूयस्तां पप्रच्छ नृपनन्दनः।
का त्वं वामोरु किं चात्र कार्यं ते कस्य चात्मजा॥१९९॥
किमवध्यायसि हृदा किं वा वक्तुमिहेच्छसि।
इत्युक्ता सा पुनः प्राह शृणु राजेन्द्रसत्तम॥२००॥
अस्त्येको द्रविकोनाम गन्धर्वाणां कुलाग्रणीः।
तस्याहमस्मि तनया नाम्ना चांशुमती स्मृता॥२०१॥
त्वामायान्तं विलोक्याहं त्वत्सम्भाषण लालसा।
त्यक्त्वा सखीजनं सर्वमेकैवास्मि महामते॥२०२॥
सर्वसङ्गीतविद्यासु न मत्तोऽन्यास्ति काचन।
मम योगेन तुष्यन्ति सर्वा अपि सुरस्त्रियः॥२०३॥
साहं सर्वकलाभिज्ञा ज्ञातसर्वजनेङ्गिता।
तवाहमीप्सितं वेद्मि मयि ते सङ्गतं मनः॥२०४॥
तथा ममापि चौत्सुक्यं दैवेन प्रतिपादितम्।
आवयोः स्नेहभेदोऽत्र नाभिभूयादितः परम्॥२०५॥
इति सम्भाष्य तेनाशु प्रेम्णा गन्धर्वनन्दिनी।
मुक्ताहारं ददौ तस्मै स्वकुचान्तरभूषणम्॥२०६॥
तमादायाद्भुतं हारं स तस्याः प्रणयाकुलः।
गाढहर्षभरोत्सिक्तामिदमाह नृपात्मजः॥२०७॥
सत्यमुक्तं त्वया भीरु तथाऽप्येकं वदाम्यहम्।
त्यक्तराज्यस्य निःस्वस्य कथं मे भवसि प्रिया॥२०८॥
सा त्वं पितृमती बाला विलङ्घ्य पितृशासनम्।
स्वच्छन्दा चरणं कर्तुं मूढेव कथमर्हसि॥२०९॥
इति तस्य वचः श्रुत्वा तं प्रत्याह शुचिस्मिता।
अस्तु नाम तथैवाहं करिष्ये पश्य कौतुकम्॥२१०॥
गच्छ स्वभवनं कान्त परश्वः प्रातरेव तु।
आगच्छ पुनरत्रैव कार्यमस्ति च नो मृषा॥२११॥
इत्युक्त्वा तं नृपसुतं सा सङ्गतसखीजना।
अपाक्रामत चार्वङ्गी स चापि नृपनन्दनः॥२१२॥
स समभ्येत्य हर्षेण द्विजपुत्रस्य सन्निधिम्।
सर्वमाख्याय तेनैव सार्धं स्वभवनं ययौ॥२१३॥
तां च विप्रसतीं भूयो हर्षयित्वा नृपात्मजः।
परश्वो द्विजपुत्रेण सार्धं तेन वनं ययौ॥२१४॥
स तया पूर्वनिर्दिष्टं स्थानं प्राप्य नृपात्मजः।
गन्धर्वराजमद्राक्षीत्स्वदुहित्रा समन्वितम्॥२१५॥
स गन्धर्वपतिः प्राप्तावभिनन्द्य कुमारकौ।
उपवेश्यासने रम्ये राजपुत्रमभाषत॥२१६॥
गन्धर्व उवाच
राजेन्द्रपुत्र पूर्वेद्युः कैलासं गतवानहम्।
तत्रापश्यं महादेवं पार्वत्या सहितं प्रभुम्॥२१७॥
आहूय मां स देवेशः सर्वेषां त्रिदिवौकसाम्।
सन्निधावाह भगवान्करुणामृतवारिधिः॥२१८॥
धर्मगुप्ताह्वयः कश्चिद्राजपुत्रोऽस्ति भूतले।
अकिञ्चनो भ्रष्टराज्यो हृतदेशश्च शत्रुभिः॥२१९॥
स बालो गुरुवाक्येन मदर्चायां रतः सदा।
अद्य तत्पितरः सर्वे मां प्राप्तास्तत्प्रभावतः॥२२०॥
तस्य त्वमपि साहाय्यं कुरु गन्धर्वसत्तम।
अथासौ निजराज्यस्थो हतशत्रुर्भविष्यति॥२२१॥
इत्याज्ञप्तो महेशेन सम्प्राप्तो निजमन्दिरम्।
अनया मद्दुहित्रा च बहुशोऽभ्यर्थितस्तथा॥२२२॥
ज्ञात्वेमं सकलं शम्भोर्नियोगं करुणात्मनः।
आदायेमां दुहितरं प्राप्तोऽस्मीदं वनान्तरम्॥२२३॥
अत एनां प्रयच्छामि कन्यामंशुमतीं तव।
हत्वा शत्रून्स्वराष्टे त्वां स्थापयामि शिवाज्ञया॥२२४॥
तस्मिन् पुरे त्वमनया भुक्त्वा भोगान्यथेप्सितान्।
दशवर्षसहस्रान्ते गन्तासि गिरिशालयम्॥२२५॥
तत्रापि मम कन्येयं त्वामेव प्रतिपत्स्यते।
अनेनैव स्वदेहेन दिव्येन शिवसन्निधौ॥२२६॥
इति गन्धर्वराजस्तमाभाष्य नृपनन्दनम्।
तस्मिन्वने स्वदुहितुः पाणिग्रहमकारयत्॥२२७॥
पारिबर्हमदात्तस्मै रत्नभारान्महोज्ज्वलान्।
चूडामणिं चन्द्रनिभं मुक्ताहारांश्च भासुरान्॥२२८॥
दिव्यालङ्कारवासांसि कार्तस्वरपरिच्छदान्।
गजानामयुतं भूयो नियुतं नीलवाजिनाम्॥२२९॥
स्यन्दनानां सहस्राणि सौवर्णानि महान्ति च।
पुनरेकं रथं दिव्यं धनुश्चेन्द्रायुधोपमम्॥२३०॥
अस्त्राणां च सहस्राणि तूणी चाक्षय्यसायकौ।
अभेद्यं वर्म सौवर्णं शक्तिं च रिपुमर्दिनीम्॥२३१॥
दुहितुः परिचर्यार्थं दासीपञ्चसहस्रकम्।
ददौ प्रीतमनास्तस्मै धनानि विविधानि च॥२३२॥
गन्धर्वसैन्यमत्युग्रं चतुरङ्गसमन्वितम्।
पुनश्च तत्सहायार्थे गन्धर्वाधिपतिर्ददौ॥२३३॥
इत्थं राजेन्द्रतनयः सम्प्राप्तः श्रियमुत्तमाम्।
अभीष्टजायासहितो मुमुदे निजसम्पदा॥२३४॥
कारयित्वा स्वदुहितुर्विवाहं समयोचितम्।
ययौ विमानमारुह्य गन्धर्वाधिपतिर्दिवम्॥२३५॥
धर्मगुप्तः कृतोद्वाहः सह गन्धर्वसेनया।
पुनः स्वनगरं प्राप्य जघान रिपुवाहिनीम्॥२३६॥
दुर्धर्षणं रणे हत्वा शक्त्या गन्धर्वसेनया।
निः शेषितारातिबलः प्रविवेश निजं पुरम्॥२३७॥
ततोभिषिक्तः सचिवैर्ब्राह्मणैश्च महोत्तमैः।
रत्नसिंहासनारूढश्चक्रे राज्यमकण्टकम्॥२३८॥
या विप्रवनिता पूर्वं तमपुष्णात्स्वपुत्रवत्।
सैव माताभवत्तस्य स भ्राता द्विजनन्दनः॥२३९॥
गन्धर्वतनया जाया विदर्भनगरेश्वरः।
आराध्य देवं गिरिशं धर्मगुप्तो नृपोऽभवत्॥२४०॥
एवमन्ये समाराध्य प्रदोषे गिरिजापतिम्।
लभन्तेभीप्सितान्कामान्देहान्ते तु परां गतिम्॥२४१॥
सूत उवाच
एतन्महाव्रतं पुण्यं प्रदोषे शङ्करार्चनम्।
धर्मार्थकाममोक्षाणां यदेतत्साधनं परम्॥२४२॥
य एतच्छृणुयात्पुण्यं माहात्म्यं परमाद्भुतम्।
प्रदोषे शिवपूजान्ते कथयेद्वा समाहितः॥२४३॥
भवेन्न तस्य दारिद्र्यं जन्मान्तरशतेष्वपि।
ज्ञानैश्वर्यसमायुक्तः सोन्ते शिवपुरं व्रजेत्॥२४४॥
ये प्राप्य दुर्लभतरं मनुजाः शरीरं
कुर्वन्ति हन्त परमेश्वरपादपूजाम्।
धन्यास्त एव निजपुण्यजितत्रिलोका-
स्तेषां पदाम्बुजरजो भुवनं पुनाति॥२४५॥
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे प्रदोषमहिमावर्णनं नाम सप्तमोऽध्यायः॥७॥
❀