कार्त्तिकसोमवारार्घ्यम्

अर्घ्यम्

सोमवारे दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश अर्पयामि सदाशिव॥१॥

—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नक्तं च सोमवारे च सोमनाथ जगत्पते।
अनन्तकोटिसौभाग्यं अक्षय्यं कुरु शङ्कर॥२॥

—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नमः सोमविभूषाय सोमायामिततेजसे।
इदमर्घ्यं प्रदास्यामि सोमो यच्छतु मे शिवम्॥३॥

—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

आकाशदिग्शरीराय ग्रहनक्षत्रमालिने।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥४॥

—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

अम्बिकायै नमस्तुभ्यं नमस्ते देवि पार्वति।
अनघे वरदे देवि गृहाणार्घ्यं प्रसीद मे॥५॥

—पार्वत्यै नमः इदमर्घ्यम्। (त्रिः)

सुब्रह्मण्य महाभाग कार्त्तिकेय सुरेश्वर।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥६॥

—सुब्रह्मण्याय नमः इदमर्घ्यम्। (त्रिः)

नन्दिकेश महाभाग शिवध्यानपरायण।
शैलादये नमस्तुभ्यं गृहाणार्घ्यमिदं प्रभो॥७॥

—नन्दिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)

[नीलकण्ठ-पदाम्भोज-परिस्फुरित-मानस।
शम्भोः सेवाफलं देहि चण्डेश्वर नमोऽस्तु ते॥८॥

—चण्डिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)]

कथा

अथ अष्टमोऽध्यायः—सोमवारव्रतवर्णनम्

सूत उवाच

नित्यानन्दमयं शान्तं निर्विकल्पं निरामयम्।
शिवतत्त्वमनाद्यन्तं ये विदुस्ते परं गताः॥१॥
विरक्ताः कामभोगेभ्यो ये प्रकुर्वन्त्यहैतुकीम्।
भक्तिं परां शिवे धीरास्तेषां मुक्तिर्न संसृतिः॥२॥
विषयानभिसन्धाय ये कुर्वन्ति शिवे रतिम्।
विषयैर्नाभिभूयन्ते भुञ्जानास्तत्फलान्यपि॥३॥
येन केनापि भावेन शिवभक्तियुतो नरः।
न विनश्यति कालेन स याति परमां गतिम्॥४॥
आरुरुक्षुः परं स्थानं विषयासक्तमानसः।
पूजयेत्कर्मणा शम्भुं भोगान्ते शिवमाप्नुयात्॥५॥
अशक्तः कश्चिदुत्स्रष्टुं प्रायो विषयवासनाम्।
अतः कर्ममयी पूजा कामधेनुः शरीरिणाम्॥६॥
मायामयेऽपि संसारे ये विहृत्य चिरं सुखम्।
मुक्तिमिच्छन्ति देहान्ते तेषां धर्मोऽयमीरितः॥७॥
शिवपूजा सदा लोके हेतुः स्वर्गापवर्गयोः।
सोमवारे विशेषेण प्रदोषादिगुणान्विते॥८॥
केवलेनापि ये कुर्युः सोमवारे शिवार्चनम्।
न तेषां विद्यते किञ्चिदिहामुत्र च दुर्लभम्॥९॥
उपोषितः शुचिर्भूत्वा सोमवारे जितेन्द्रियः।
वैदिकैर्लौकिकैर्वाऽपि विधिवत्पूजयेच्छिवम्॥१०॥
ब्रह्मचारी गृहस्थो वा कन्या वाऽपि सभर्तृका।
विभर्तृका वा सम्पूज्य लभते वरमीप्सितम्॥११॥
अत्राहं कथयिष्यामि कथां श्रोतृमनोहराम्।
श्रुत्वा मुक्तिं प्रयान्त्येव भक्तिर्भवति शाम्भवी॥१२॥
आर्यावर्ते नृपः कश्चिदासीद्धर्मभृतां वरः।
चित्रवर्मेति विख्यातो धर्मराजो दुरात्मनाम्॥१३॥
स गोप्ता धर्मसेतूनां शास्ता दुष्पथगामिनाम्।
यष्टा समस्तयज्ञानां त्राता शरणमिच्छताम्॥१४॥
कर्ता सकलपुण्यानां दाता सकलसम्पदाम्।
जेता सपत्नवृन्दानां भक्तः शिवमुकुन्दयोः॥१५॥
सोऽनुकूलासु पत्नीषु लब्ध्वा पुत्रान् महौजसः।
चिरेण प्रार्थितां लेभे कन्यामेकां वराननाम्॥१६॥
स लब्ध्वा तनयां दिष्ट्या हिमवानिव पार्वतीम्।
आत्मानं देवसदृशं मेने पूर्णमनोरथम्॥१७॥
स एकदा जातकलक्षणज्ञान्
आहूय साधून्द्विजमुख्यवृन्दान्।
कुतूहलेनाभिनिविष्टचेताः
पप्रच्छ कन्याजनने फलानि॥१८॥
अथ तत्राब्रवीदेको बहुज्ञो द्विजसत्तमः।
एषा सीमन्तिनी नाम्ना कन्या तव महीपते॥१९॥
उमेव माङ्गल्यवती दमयन्तीव रूपिणी।
भारतीव कलाभिज्ञा लक्ष्मीरिव महागुणा॥२०॥
सुप्रजा देवमातेव जानकीव धृतव्रता।
रविप्रभेव सत्कान्तिश्चन्द्रिकेव मनोरमा॥२१॥
दशवर्षसहस्राणि सह भर्त्रा प्रमोदते।
प्रसूय तनयानष्टौ परं सुखमवाप्स्यति॥२२॥
इत्युक्तवन्तं नृपतिर्धनैः सम्पूज्य तं द्विजम्।
अवाप परमां प्रीतिं तद्वागमृतसेवया॥२३॥
अथान्योऽपि द्विजः प्राह धैर्यवानमितद्युतिः।
एषा चतुर्दशे वर्षे वैधव्यं प्रतिपत्स्यति॥२४॥
इत्याकर्ण्य वचस्तस्य वज्रनिर्घातनिष्ठुरम्।
मुहूर्तमभवद्राजा चिन्ताव्याकुलमानसः॥२५॥
अथ सर्वान् समुत्सृज्य ब्राह्मणान्ब्रह्मवत्सलः।
सर्वं दैवकृतं मत्वा निश्चिन्तः पार्थिवोऽभवत्॥२६॥
सापि सीमन्तिनी बाला क्रमेण गतशैशवा।
वैधव्यमात्मनो भावि शुश्रावाऽऽत्मसखीमुखात्॥२७॥
परं निर्वेदमापन्ना चिन्तयामास बालिका।
याज्ञवल्क्यमुनेः पत्नीं मैत्रेयीं पर्यपृच्छत॥२८॥
मातस्त्वच्चरणाम्भोजं प्रपन्नाऽस्मि भयाकुला।
सौभाग्यवर्धनं कर्म मम शंसितुमर्हसि॥२९॥
इति प्रपन्नां नृपतेः कन्यां प्राह मुनेः सती।
शरणं व्रज तन्वङ्गि पार्वतीं शिवसंयुताम्॥३०॥
सोमवारे शिवं गौरीं पूजयस्व समाहिता।
उपोषिता वा सुस्नाता विरजाम्बरधारिणी॥३१॥
यतवाङ्निश्चलमनाः पूजां कृत्वा यथोचिताम्।
ब्राह्मणान्भोजयित्वाऽथ शिवं सम्यक् प्रसादयत्॥३२॥
पापक्षयोऽभिषेकेण साम्राज्यं पीठपूजनात्।
सौभाग्यमखिलं सौख्यं गन्धमाल्याक्षतार्पणात्॥३३॥
धूपदानेन सौगन्ध्यं कान्तिर्दीपप्रदानतः।
नैवेद्यैश्च महाभोगो लक्ष्मीस्ताम्बूलदानतः॥३४॥
धर्मार्थकाममोक्षाश्च नमस्कारप्रदानतः।
अष्टैश्वर्यादिसिद्धीनां जप एव हि कारणम्॥३५॥
होमेन सर्वकामानां समृद्धिरुपजायते।
सर्वेषामेव देवानां तुष्टिर्ब्राह्मणभोजनात्॥३६॥
इत्थमाराधय शिवं सोमवारे शिवामपि।
अत्यापदमपि प्राप्ता निस्तीर्णाभिभवा भवेः॥३७॥
घोराद् घोरं प्रपन्नापि महाक्लेशं भयानकम्।
शिवपूजाप्रभावेण तरिष्यसि महद्भयम्॥३८॥
इत्थं सीमन्तिनीं सम्यगनुशास्य पुनः सती।
ययौ साऽपि वरारोहा राजपुत्री तथाऽकरोत्॥३९॥
दमयन्त्यां नलस्यासीदिन्द्रसेनाभिधः सुतः।
तस्य चन्द्राङ्गदो नाम पुत्रोऽभूच्चन्द्रसन्निभः॥४०॥
चित्रवर्मा नृपश्रेष्ठस्तमाहूय नृपात्मजम्।
कन्यां सीमन्तिनीं तस्मै प्रायच्छद्गुर्वनुज्ञया॥४१॥
सोऽभून्महोत्सवस्तत्र तस्या उद्वाहकर्मणि।
यत्र सर्वमहीपानां समवायो महानभूत्॥४२॥
तस्याः पाणिग्रहं काले कृत्वा चन्द्राङ्गदः कृती।
उवास कतिचिन्मासांस्तत्रैव श्वशुरालये॥४३॥
एकदा यमुनां तर्तुं स राजतनयो बली।
आरुरोह तरीं कैश्चिद्वयस्यैः सह लीलया॥४४॥
तस्मिंस्तरति कालिन्दीं राजपुत्रे विधेर्वशात्।
ममज्ज सह कैवर्तैरावर्ताभिहता तरी॥४५॥
हा हेति शब्दः सुमहानासीत् तस्यास्तटद्वये।
पश्यतां सर्वसैन्यानां प्रलापो दिवमस्पृशत्॥४६॥
मज्जन्तो मम्रिरे केचित्केचिद्ग्राहोदरं गताः।
राजपुत्रादयः केचिन्नादृश्यन्त महाजले॥४७॥
तदुपश्रुत्य राजाऽपि चित्रवर्माऽतिविह्वलः।
यमुनायास्तटं प्राप्य विचेष्टः समजायत॥४८॥
श्रुत्वाऽथ राजपत्न्यश्च बभूवुर्गतचेतनाः।
सा च सीमन्तिनी श्रुत्वा पपाप भुवि मूर्च्छिता॥४९॥
तथाऽन्ये मन्त्रिमुख्याश्च नायकाः सपुरोहिताः।
विह्वलाः शोकसन्तप्ता विलेपुर्मुक्तमूर्धजाः॥५०॥
इन्द्रसेनोऽपि राजेन्द्रः पुत्रवार्तां सुदुःखितः।
आकर्ण्य सह पत्नीभिर्नष्टसंज्ञः पपात ह॥५१॥
तन्मन्त्रिणश्च तत्पौरास्तथा तद्देशवासिनः।
आबालवृद्धवनिताश्चुक्रुशुः शोकविह्वलाः॥५२॥
शोकात्केचिदुरो जघ्नुः शिरो जघ्नुश्च केचन।
हा राजपुत्र हा तात क्वासि क्वासीति बभ्रमुः॥५३॥
एवं शोकाकुलं दीनमिन्द्रसेनमहीपतेः।
नगरं सहसा क्षुब्धं चित्रवर्मपुरं तथा॥५४॥
अथ वृद्धैः समाश्वस्तश्चित्रवर्मा महीपतिः।
शनैर्नगरमागत्य सान्त्वयामास चाऽऽत्मजाम्॥५५॥
स राजाऽम्भसिमग्नस्य जामातुस्तस्य बान्धवैः।
आगतैः कारयामास साकल्यादौर्ध्वदैहिकम्॥५६॥
सा च सीमन्तिनी साध्वी भर्तृलोकमतिः सती।
पित्रा निषिद्धा स्नेहेन वैधव्यं प्रत्यपद्यत॥५७॥
मुनेः पत्न्योऽपदिष्टं यत्सोमवारव्रतं शुभम्।
न तत्याज शुभाचारा वैधव्यं प्राप्तवत्यपि॥५८॥
एवं चतुर्दशे वर्षे दुःखं प्राप्य सुदारुणम्।
ध्यायन्ती शिवपादाब्जं वत्सरत्रयमत्यगात्॥५९॥
पुत्रशोकादिवोन्मत्तमिन्द्रसेनं महीपतिम्।
प्रसह्य तस्य दायादाः सप्ताङ्गं जह्रुरोजसा॥६०॥
हृतसिंहासनः शूरैर्दायादैः सोऽप्रजो नृपः।
निगृह्य काराभवने सपत्नीको निवेशितः॥६१॥
चन्द्राङ्गदोऽपि तत्पुत्रो निमग्नो यमुनाजले।
अधोधोमज्जमानोऽसौ ददर्शोरगकामिनीः॥६२॥
जलक्रीडासु सक्तास्ता दृष्ट्वा राजकुमारकम्।
विस्मितास्तमथो निन्युः पातालं पन्नगालयम्॥६३॥
स नीयमानस्तरसा पन्नगीभिर्नृपात्मजः।
तक्षकस्य पुरं रम्यं विवेश परमाद्भुतम्॥६४॥
सोऽपश्यद्राजतनयो महेन्द्रभवनोपमम्।
महारत्नपरिभ्राजन्मयूखपरिदीपितम्॥६५॥
वज्रवैडूर्यपाचादिप्रासादशतसङ्कुलम्।
माणिक्यगोपुरद्वारं मुक्तादामभिरुज्ज्वलम्॥६६॥
चन्द्रकान्तस्थलं रम्यं हेमद्वारकपाटकम्।
अनेकशतसाहस्रमणिदीपविराजितम्॥६७॥
तत्रापश्यत्सभामध्ये निषण्णं रत्नविष्टरे।
तक्षकं पन्नगाधीशं फणानेकशतोज्ज्वलम्॥६८॥
दिव्याम्बरधरं दीप्तं रत्नकुण्डलराजितम्।
नानारत्नपरिक्षिप्तमुकुटद्युतिरञ्जितम्॥६९॥
फणामणिमयूखाढ्यैरसङ्ख्यैः पन्नगोत्तमैः।
उपासितं प्राञ्जलिभिश्चित्ररत्नविभूषितैः॥७०॥
रूपयौवनमाधुर्यविलासगति शोभिना।
नागकन्यासहस्रेण समन्तात्परिवारितम्॥७१॥
दिव्याभरणदीप्ताङ्गं दिव्यचन्दनचर्चितम्।
कालाग्निमिव दुर्धर्षं तेजसाऽऽदित्यसन्निभम्॥७२॥
दृष्ट्वा राजसुतो धीरः प्रणिपत्य सभास्थले।
उत्थितः प्राञ्जलिस्तस्य तेजसाऽऽक्षिप्तलोचनः॥७३॥
नागराजोऽपि तं दृष्ट्वा राजपुत्रं मनोरमम्।
कोऽयं कस्मादिहायात इति पप्रच्छ पन्नगीः॥७४॥
ता ऊचुर्यमुनातोये दृष्टोऽस्माभिर्यदृच्छया।
अज्ञातकुलनामायमानीतस्तव सन्निधिम्॥७५॥
अथ पृष्टो राजपुत्रस्तक्षकेण महात्मना।
कस्यासि तनयः कस्त्वं को देशः कथमागतः॥७६॥
राजपुत्रो वचः श्रुत्वा तक्षकं वाक्यमब्रवीत्॥७७॥

राजपुत्र उवाच

अस्ति भूमण्डले कश्चिद्देशो निषधसंज्ञकः।
तस्याधिपोऽभवद्राजा नलो नाम महायशाः।
स पुण्यकीर्तिः क्षितिपो दमयन्तीपतिः शुभः॥७८॥
तस्मादपीन्द्रसेनाख्यस्तस्य पुत्रो महाबलः।
चन्द्राङ्गदोऽस्मि नाम्नाऽहं नवोढः श्वशुरालये।
विहरन्यमुनातोये निमग्नो देवचोदितः॥७९॥
एताभिः पन्नगस्त्रीभिरानीतोऽस्मि तवान्तिकम्।
दृष्ट्वाऽहं तव पादाब्जं पुण्यैर्जन्मान्तरार्जितैः॥८०॥
अद्य धन्योऽस्मि धन्योऽस्मि कृतार्थो पितरौ मम।
यत् प्रेक्षितोऽहं कारुण्यात्त्वया सम्भाषितोऽपि च॥८१॥

सूत उवाच

इत्युदारमसम्भ्रान्तं वचः श्रुत्वाऽतिपेशलम्।
तक्षकः पुनरौत्सुक्याद्बभाषे राजनन्दनम्॥८२॥

तक्षक उवाच

भो भो नरेन्द्रदायाद मा भैषीर्धीरतां व्रज।
सर्वदेवेषु को देवो युष्माभिः पूज्यते सदा॥८३॥

राजपुत्र उवाच

यो देवः सर्वेदेवेषु महादेव इति स्मृतः।
पूज्यते स हि विश्वात्मा शिवोऽस्माभिरुमापतिः॥८४॥
यस्य तेजोंशलेशेन रजसा च प्रजापतिः।
कृतरूपोऽसृजद्विश्वं स नः पूज्यो महेश्वरः॥८५॥
यस्यांशात्सात्त्विकं दिव्यं बिभ्रद्विष्णुः सनातनः।
विश्वं बिभर्ति भूतात्मा शिवोऽस्माभिः स पूज्यते॥८६॥
यस्यांशात्तामसाज्जातो रुद्रः कालाग्निसन्निभः।
विश्वमेतद्धरत्यन्ते स पूज्योऽस्माभिरीश्वरः॥८७॥
यो विधाता विधातुश्च कारणस्यापि कारणम्।
तेजसां परमं तेजः स शिवो नः परा गतिः॥८८॥
योऽन्तिकस्थोऽपि दूरस्थः पापोपहृतचेतसाम्।
अपरिच्छेद्य धामासौ शिवो नः परमा गतिः॥८९॥
योऽग्नौ तिष्ठति यो भूमौ यो वायौ सलिले च यः।
य आकाशे च विश्वात्मा स पूज्यो नः सदाशिवः॥९०॥
यः साक्षी सर्वभूतानां य आत्मस्थो निरञ्जनः।
यस्येच्छावशगो लोकः सोऽस्माभिः पूज्यते शिवः॥९१॥
यमेकमाद्यं पुरुषं पुराणं
वदन्ति भिन्नं गुणवैकृतेन।
क्षेत्रज्ञमेकेऽथ तुरीयमन्ये
कूटस्थमन्ये स शिवो गतिर्नः॥९२॥
यं नास्पृशंश्चैत्यमचिन्त्यतत्त्वं
दुरन्तधामानमतत्स्वरूपम्।
मनोवचोवृत्तय आत्मभाजां
स एष पूज्यः परमः शिवो नः॥९३॥
यस्य प्रसादं प्रतिलभ्य सन्तो
वाञ्छन्ति नैन्द्रं पदमुज्ज्वलं वा।
निस्तीर्णकर्मार्गलकालचक्राः
चरन्त्यभीताः स शिवो गतिर्नः॥९४॥
यस्य स्मृतिः सकलपापरुजां विघातं
सद्यः करोत्यपि चु पुल्कसजन्मभाजाम्।
यस्य स्वरूपमखिलं श्रुतिभिर्विमृग्यं
तस्मै शिवाय सततं करवाम पूजाम्॥९५॥
यन्मूर्ध्नि लब्धनिलया सुरलोकसिन्धुः
यस्याङ्गगा भगवती जगदम्बिका च।
यत्कुण्डले त्वहह तक्षकवासुकी द्वौ
सोऽस्माकमेव गतिरर्धशशाङ्कमौलिः॥९६॥
जयति निगमचूडाग्रेषु यस्याङ्घ्रिपद्मं
जयति च हृदि नित्यं योगिनां यस्य मूर्तिः।
जयति सकलतत्त्वोद्भासनं यस्य मूर्तिः
स विजितगुणसर्गः पूज्यतेऽस्माभिरीशः॥९७॥

सूत उवाच

इत्याकर्ण्य वचस्तस्य तक्षकः प्रीतमानसः।
जातभक्तिर्महादेवे राजपुत्रमभाषत॥९८॥

तक्षक उवाच

परितुष्टोऽस्मि भद्रं स्तात् तव राजेन्द्रनन्दन।
बालोऽपि यत्परं तत्त्वं वेत्सि शैवं परात्परम्॥९९॥
एष रत्नमयो लोक एताश्चारुदृशोऽबलाः।
एते कल्पद्रुमाः सर्वे वाप्योऽमृतरसाम्भसः॥१००॥
नात्र मृत्युभयं घोरं न जरारोगपीडनम्।
यथेष्टं विहरात्रैव भुङ्क्ष्व भोगान्यथोचितान्॥१०१॥
इत्युक्तो नागराजेन स राजेन्द्रकुमारकः।
प्रत्युवाच परं प्रीत्या कृताञ्जलिरुदारधीः॥१०२॥
कृतदारोऽस्म्यहं काले सुव्रता गृहिणी मम।
शिवपूजापरा नित्यं पितरावेकपुत्रकौ॥१०३॥
ते त्वद्य मां मृतं मत्वा शोकेन महताऽऽवृताः।
प्रायः प्राणैर्वियुज्यन्ते दैवात् प्राणान् वहन्ति वा॥१०४॥
अतो मया बहुतिथं नात्र स्थेयं कथञ्चन।
तमेव लोकं कृपया मां प्रापयितुमर्हसि॥१०५॥
इत्युक्तवन्तं नरदेवपुत्रं
दिव्यैर्वरान्नैः सुरपादपोत्थैः।
आप्याययित्वा वरगन्धवासः
स्रग्रत्नदिव्याभरणैर्विचित्रैः॥१०६॥
सन्तोषयित्वा विविधैश्च भोगैः
पुनर्बभाषे भुजगाधिराजः।
यदा यदा त्वं स्मरसि त्वदग्रे
तदा तदाऽऽविष्क्रियते मयेति॥१०७॥
पुनश्च राजपुत्राय तक्षकोऽश्वं च कामगम्।
नानाद्वीपसमुद्रेषु लोकेषु च निरर्गलम्॥१०८॥
दत्तवान् रत्नाभरणदिव्याभरणवाससाम्।
वाहनाय ददावेकं राक्षसं पन्नगेश्वरः॥१०९॥
तत्सहायार्थमेकं च पन्नगेन्द्रकुमारकम्।
नियुज्य तक्षकः प्रीत्या गच्छेति विससर्ज तम्॥११०॥
इति चन्द्राङ्गदः सोऽथ सङ्गृह्य विविधं धनम्।
अश्वं कामगमारुह्य ताभ्यां सह विनिर्ययौ॥१११॥
स मूहूर्तादिवोन्मज्ज्य तस्मादेव सरिज्जलात्।
विजहार तटे रम्ये दिव्यमारुह्य वाजिनम्॥११२॥
अथास्मिन् समये तन्वी सा च सीमन्तिनी सती।
स्नातुं समाययौ तत्र सखीभिः परिवारिता॥११३॥
सा ददर्श नदीतीरे विहरन्तं नृपात्मजम्।
रक्षसा नररूपेण नागपुत्रेण चान्वितम्॥११४॥
दिव्यरत्नसमाकीर्णं दिव्यमाल्यावतंसकम्।
देहेन दिव्यगन्धेन व्याक्षिप्तदशयोजनम्॥११५॥
तमपूर्वाकृतिं वीक्ष्य दिव्याश्वमधिसंस्थितम्।
जडोन्मत्तेव भीतेव तस्थौ तन्न्यस्तलोचना॥११६॥
तां च राजेन्द्रपुत्रोऽसौ दृष्टपूर्वामिति स्मरन्।
निर्मुक्तकण्ठाभरणां कण्ठसूत्रविवर्जिताम्॥११७॥
असंयोजितधम्मिल्लामङ्गरागविवर्जिताम्।
त्यक्तनीलाञ्जनापाङ्गीं कृशाङ्गीं शोकदूषिताम्॥११८॥
दृष्ट्वाऽवतीर्य तुरगादुपविष्टः सरित्तटे।
तामाहूय वरारोहामुपवेश्येदमब्रवीत्॥११९॥
का त्वं कस्य कलत्रं वा कस्यासि तनया सती।
किमिदं तेऽङ्गने बाल्ये दुःसहं शोकलक्षणम्॥१२०॥
इति स्नेहेन सम्पृष्टा सा वधूरश्रुलोचना।
लज्जिता स्वयमाख्यातुं तत्सखी सर्वमब्रवीत्॥१२१॥
इयं सीमन्तिनी नाम्ना स्नुषा निषधभूपतेः।
चन्द्राङ्गदस्य महिषी तनया चित्रवर्मणः॥१२२॥
अस्याः पतिर्दैवयोगान्निमग्नोऽस्मिन्महाजले।
तेनेयं प्राप्तवैधव्या बाला दुःखेन शोषिता॥१२३॥
एवं वर्षत्रयं नीतं शोकेनातिबलीयसा।
अद्येन्दुवारे सम्प्राप्ते स्नातुमत्र समागता॥१२४॥
श्वशुरोऽस्याश्च राजेन्द्रो हृतराज्यश्च शत्रुभिः।
बलाद्गृहीतो बद्धश्च सभार्यस्तद्वशे स्थितः॥१२५॥
तथाऽप्येषा शुभाचारा सोमवारे महेश्वरम्।
साम्बिकं परया भक्त्या पूजयत्यमलाशया॥१२६॥

सूत उवाच

इत्थं सखीमुखेनैव सर्वमावेद्य सुव्रता।
ततः सीमन्तिनी प्राह स्वयमेव नृपात्मजम्॥१२७॥
कस्त्वं कन्दर्पसङ्काशः काविमौ तव पार्श्वगौ।
देवो नरेन्द्रः सिद्धो वा गन्धर्वो वाऽथ किन्नरः॥१२८॥
किमर्थं मम वृत्तान्तं स्नेहवानिव पृच्छसि।
किं मां वेत्सि महाबाहो दृष्टवान् किमु कुत्रचित्॥१२९॥
दृष्टपूर्व इवाऽऽभासि मया च स्वजनो यथा।
सर्वं कथय तत्त्वेन सत्यसारा हि साधवः॥१३०॥

सूत उवाच

एतावदुक्त्वा नरदेवपुत्री
सबाष्पकण्ठं सुचिरं रुरोद।
मुमोह भूमौ पतिता सखीभिः
वृता न किञ्चित् कथितुं शशाक॥१३१॥
श्रुत्वा चन्द्राङ्गदः सर्वं प्रियायाः शोककारणम्।
मुहूर्तमभवत् तूष्णीं स्वयं शोकसमाकुलः॥१३२॥
अथाऽऽश्वास्य प्रियां तन्वीं विविधैर्वाक्यनैपुणैः।
सिद्धा नाम वयं देवाः कामगा इति सोऽब्रवीत्॥१३३॥
ततो बलादिवाकृष्य पाणिग्रहणशङ्किताम्।
पुलकाञ्चितसर्वाङ्गीं तां कर्णे त्विदमब्रवीत्॥१३४॥
क्वापि लोके मया दृष्टस्तव भर्ता वरानने।
त्वद् व्रताचरणात् प्रीतः सद्य एवागमिष्यति॥१३५॥
अपनेष्यति ते शोकं द्वित्रैरेव दिनैर्ध्रुवम्।
एतच्छंसितुमायातस्तव भर्तुः सखाऽस्म्यहम्॥१३६॥
अत्र कार्यो न सन्देहः शपामि शिवपादयोः।
तावत्त्वद्धृदये स्थेयं न प्रकाश्यं च कुत्रचित्॥१३७॥
सा तु तद्वचनं श्रुत्वा सुधाधाराशताधिकम्।
सम्भ्रमोद्भ्रान्तनयना तमेव मुहुरैक्षत॥१३८॥
प्रेमबन्धानुगुणितं वाक्यं चाह रसायनम्।
विभ्रमोदारसहितं मधुरापाङ्गवीक्षणम्॥१३९॥
स्वपाणिस्पर्शनोद्भिन्नपुलकाञ्चितविग्रहम्।
पूर्वदृष्टानि चाङ्गेषु लक्षणानि स्वरादिषु।
वयःप्रमाणं वर्णं च परीक्ष्यैनमतर्कयत्॥१४०॥
एष एव पतिर्मे स्याद्ध्रुवं नान्यो भविष्यति।
अस्मिन्नेव प्रसक्तं मे हृदयं प्रेमकातरम्॥१४१॥
परलोकादिहायातः कथमेवं स्वरूपधृक्।
दुर्भाग्यायाः कथं मे स्याद् भर्तुर्नष्टस्य दर्शनम्॥१४२॥
स्वप्नोऽयं किमु न स्वप्नो भ्रमोऽयं किं तु न भ्रमः।
एष धूर्तोऽथवा कश्चिद् यक्षो गन्धर्व एव वा॥१४३॥
मुनिपत्न्या यदुक्तं मे परमापद्गताऽपि च।
व्रतमेतत्कुरुष्वेति तस्य वा फलमेव वा॥१४४॥
यो वर्षायुतसौभाग्यं ममेत्याह द्विजोत्तमः।
नूनं तस्य वचः सत्यं को विद्यादीश्वरं विना॥१४५॥
निमित्तानि च दृश्यन्ते मङ्गलानि दिने दिने।
प्रसन्ने पार्वतीनाथे किमसाध्यं शरीरिणाम्॥१४६॥
इत्थं विमृश्य बहुधा तां पुनर्मुक्तसंशयाम्।
लज्जानम्रमुखीं कर्णे शशंसात्मप्रयोजनम्॥१४७॥
इमं वृत्तान्तमाख्यातुं तत्पित्रोः शोकतप्तयोः।
गच्छामः स्वस्ति ते भद्रे सद्यः पतिमवाप्स्यसि॥१४८॥
इत्युक्त्वाऽश्वं समारुह्य जगाम नृपनन्दनः।
ताभ्यां सह निजं राष्ट्रं प्रत्यपद्यत तत्क्षणात्॥१४९॥
स पुरोपवनाभ्याशे स्थित्वा तं फणिपुत्रकम्।
विससर्जाऽऽत्मदायादान्नृपासनगतान् प्रति॥१५०॥
स गत्वोवाच ताञ्छीघ्रमिन्द्रसेनो विमुच्यताम्।
चन्द्राङ्गदस्तस्य सुतः प्राप्तोऽयं पन्नगालयात्॥१५१॥
नृपासनं विमुञ्चन्तु भवन्तो न विचार्यताम्।
नो चेच्चन्द्राङ्गदस्याऽऽशु बाणाः प्राणान् हरन्ति वः॥१५२॥
स मग्नो यमुनातोये गत्वा तक्षकमन्दिरम्।
लब्ध्वा च तस्य साहाय्यं पुनर्लोकादिहागतः॥१५३॥
इत्याख्यातमशेषेण तद्वृत्तान्तं निशम्य ते।
साधु साध्विति सम्भ्रान्ताः शशंसुः परिपन्थिनः॥१५४॥
अथेन्द्रसेनाय निवेद्य सत्वरं
नष्टस्य पुत्रस्य पुनः समागमम्।
प्रसाद्य तं प्राप्तनरेश्वरासनं
दायादमुख्यास्तु भयं प्रपेदिरे॥१५५॥
अथ पौरजनाः सर्वे पुरोद्याने नृपात्मजम्।
दृष्ट्वा राज्ञे द्रुतं प्रोचुर्लेभिरे च महाधनम्॥१५६॥
आकर्ण्य पुत्रमायान्तं राजाऽऽनन्दजलाप्लुतः।
न व्यजानादिमं लोकं राज्ञी च परया मुदा॥१५७॥
अथ नागरिकाः सर्वे मन्त्रिवृद्धाः पुरोधसः।
प्रत्युद्गम्य परिष्वज्य तमानिन्युर्नृपान्तिकम्॥१५८॥
अथोत्सवेन महता प्रविश्य निजमन्दिरम्।
राजपुत्रः स्वपितरौ ववन्दे बाष्पमुत्सृजन्॥१५९॥
तं पादमूले पतितं स्वपुत्रं
विवेद नासौ पृथिवीपतिः क्षणम्।
प्रबोधितोऽमात्यजनैः कथञ्चिद्
उत्थाय क्लिन्नेन हृदाऽऽलिलिङ्ग॥१६०॥
क्रमेण मातॄरभिवन्द्य ताभिः
प्रवर्धिताशीः प्रणयाकुलाभिः।
आलिङ्गितः पौरजनानशेषान्
सम्भावयामास स राजसूनुः॥१६१॥
तेषां मध्ये समासीनः स्ववृत्तान्तमशेषतः।
पित्रे निवेदयामास तक्षकस्य च मित्रताम्॥१६२॥
दत्तं भुजङ्गराजेन रत्नादिधनसञ्चयम्।
दिव्यं तद्राक्षसानीतं पित्रे सर्वं न्यवेदयत्॥१६३॥
राजपुत्रस्य चरितं दृष्ट्वा श्रुत्वा च विह्वलः।
मेने स्नुषायाः सौभाग्यं महेशाराधनार्जितम्॥१६४॥
सौमाङ्गल्यमयीं वार्तामिमां निषधभूपतिः।
चारैर्निवेदयामास चित्रवर्ममहीपतेः॥१६५॥
श्रुत्वाऽमृतमयीं वार्तां स समुत्थाय सम्भ्रमात्।
तेभ्यो दत्त्वा धनं भूरि ननर्ताऽऽनन्दविह्वलः॥१६६॥
अथाऽऽहूय स्वतनयां परिष्वज्याश्रुलोचनः।
भूषणैर्भूषयामास त्यक्तवैधव्यलक्षणाम्॥१६७॥
अथोत्सवो महानासीद्राष्ट्रग्रामपुरादिषु।
सीमन्तिन्याः शुभाचारं शशंसुः सर्वतो जनाः॥१६८॥
चित्रवर्माऽथ नृपतिः समाहूयेन्द्रसेनजम्।
पुनर्विवाहविधिना सुतां तस्मै न्यवेदयत्॥१६९॥
चन्द्राङ्गदोऽपि रत्नाद्यैरानीतैस्तक्षकालयात्।
स्वां पत्नीं भूषयां चक्रे मर्त्यानामतिदुर्लभैः॥१७०॥
अङ्गरागेण दिव्येन तप्तकाञ्चनशोभिना।
शुशुभे सा सुगन्धेन दशयोजनगामिना॥१७१॥
अम्लानमालया शश्वत्पद्मकिञ्जल्कवर्णया।
कल्पद्रुमोत्थया बाला भूषिता शुशुभे सती॥१७२॥
एवं चन्द्राङ्गदः पत्नीमवाप्य समये शुभे।
ययौ स्वनगरीं भूयः श्वशुरेणानुमोदितः॥१७३॥
इन्द्रसेनोऽपि राजेन्द्रो राज्ये स्थाप्य निजात्मजम्।
तपसा शिवमाराध्य लेभे संयमिनां गतिम्॥१७४॥
दशवर्षसहस्राणि सीमन्तिन्या स्वभार्यया।
सार्धं चन्द्राङ्गदो राजा बुभुजे विषयान्बहून्॥१७५॥
प्रासूत तनयानष्टौ कन्यामेकां वराननाम्।
रेमे सीमन्तिनी भर्त्रा पूजयन्ती महेश्वरम्।
दिने दिने च सौभाग्यं प्राप्तं चैवेन्दुवासरात्॥१७६॥

सूत उवाच

विचित्रमिदमाख्यानं मया समनुवर्णितम्।
भूयोऽपि वक्ष्ये माहात्म्यं सोमवारव्रतोदितम्॥१७७॥

॥इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां ब्रह्मोत्तरखण्डे सोमवारव्रतवर्णनं नामाष्टमोऽध्यायः॥

अथ नवमोऽध्यायः—सीमन्तिन्याः प्रभाववर्णनम्

ऋषय ऊचुः

साधु साधु महाभाग त्वया कथितमुत्तमम्।
आख्यानं पुनरन्यत्र विचित्रं वक्तुमर्हसि॥१॥

सूत उवाच

विदर्भविषये पूर्वमासीदेको द्विजोत्तमः।
वेदमित्र इति ख्यातो वेदशास्त्रार्थवित्सुधीः॥२॥
तस्याऽऽसीदपरो विप्रः सखा सारस्वताह्वयः।
तावुभौ परमस्निग्धावेकदेशनिवासिनौ॥३॥
वेदमित्रस्य पुत्रोऽभूत्सुमेधा नाम सुव्रतः।
सारस्वतस्य तनयः सोमवानिति विश्रुतः॥४॥
उभौ सवयसौ बालौ समवेषौ समस्थिती।
समं च कृतसंस्कारौ समविद्यौ बभूवतुः॥५॥
साङ्गानधीत्य तौ वेदांस्तर्कव्याकरणानि च।
इतिहासपुराणानि धर्मशास्त्राणि कृत्स्नशः॥६॥
सर्वविद्याकुशलिनौ बाल्य एव मनीषिणौ।
प्रहर्षमतुलं पित्रोर्ददतुः सकलैर्गुणैः॥७॥
तावेकदा स्वतनयौ तावुभौ ब्राह्मणोत्तमौ।
आहूयावोचतां प्रीत्या षोडशाब्दौ शुभाकृती॥८॥
हे पुत्रकौ युवां बाल्ये कृतविद्यौ सुवर्चसौ।
वैवाहिकोऽयं समयो वर्तते युवयोः समम्॥९॥
इमं प्रसाद्य राजानं विदर्भेशं स्वविद्यया।
ततः प्राप्य धनं भूरि कृतोद्वाहौ भविष्यथः॥१०॥
एवमुक्तौ सुतौ ताभ्यां तावुभौ द्विजनन्दनौ।
विदर्भराजमासाद्य समतोषयतां गुणैः॥११॥
विद्यया परितुष्टाय तस्मै द्विजकुमारकौ।
विवाहार्थं कृतोद्योगौ धनहीनावशंसताम्॥१२॥
तयोरपि मतं ज्ञात्वा स विदर्भमहीपतिः।
प्रहस्य किञ्चित् प्रोवाच लोकतत्त्वविवित्सया॥१३॥
आस्ते निषधराजस्य राज्ञी सीमन्तिनी सती।
सोमवारे महादेवं पूजयत्यम्बिकायुतम्॥१४॥
तस्मिन् दिने सपत्नीकान् द्विजाग्र्यान् वेदवित्तमान्।
सम्पूज्य परया भक्त्या धनं भूरि ददाति च॥१५॥
अतोऽत्र युवयोरैको नारीविभ्रमवेषधृक्।
एकस्तस्या पतिर्भूत्वा जायेतां विप्रदम्पती॥१६॥
युवां वधूवरौ भूत्वा प्राप्य सीमन्तिनीगृहम्।
भुक्त्वा भूरि धनं लब्ध्वा पुनर्यातं ममान्तिकम्॥१७॥
इति राज्ञा समादिष्टौ भीतौ द्विजकुमारकौ।
प्रत्यूचतुरिदं कर्म कर्तुं नौ जायते भयम्॥१८॥
देवतासु गुरौ पित्रोस्तथा राजकुलेषु च।
कौटिल्यमाचरन्मोहात्सद्यो नश्यति सान्वयः॥१९॥
कथमन्तर्गृहं राज्ञां छद्मना प्रविशेत् पुमान्।
गोप्यमानमपिच्छद्म कदाचित् ख्यातिमेष्यति॥२०॥
ये गुणाः साधिताः पूर्वं शीलाचारश्रुतादिभिः।
सद्यस्ते नाशमायान्ति कौटिल्यपथगामिनः॥२१॥
पापं निन्दा भयं वैरं चत्वार्येतानि देहिनाम्।
छद्ममार्गप्रपन्नानां तिष्ठन्त्येव हि सर्वदा॥२२॥
अत आवां शुभाचारौ जातौ च शुचिनां कुले।
वृत्तं धूर्तजनश्लाघ्यं नाऽऽश्रयावः कदाचन॥२३॥

राजोवाच

दैवतानां गुरूणां च पित्रोश्च पृथिवीपतेः।
शासनस्याप्यलङ्घ्यत्वात् प्रत्यादेशो न कर्हिचित्॥२४॥
एतैर्यद् यत् समादिष्टं शुभं वा यदि वाऽशुभम्।
कर्तव्यं नियतं भीतैरप्रमत्तैर्बुभूषुभिः॥२५॥
अहो वयं हि राजानः प्रजा यूयं हि सम्मताः।
राजाज्ञया प्रवृत्तानां श्रेयः स्यादन्यथा भयम्॥२६॥
अतो मच्छासनं कार्यं भवद्भ्यामविलम्बितम्।
इत्युक्तौ नरदेवेन तौ तथेत्यूचतुर्भयात्॥२७॥
सारस्वतस्य तनयं सामवन्तं नराधिपः।
स्त्रीरूपधारिणं चक्रे वस्त्राकल्पां जनादिभिः॥२८॥
स कृत्रिमोद्भूतकलत्रभावः
प्रयुक्तकर्णाभरणाङ्गरागः।
स्निग्धाञ्जनाक्षः स्पृहणीयरूपो
बभूव सद्यः प्रमदोत्तमाभः॥२९॥
तावुभौ दम्पती भूत्वा द्विजपुत्रौ नृपाज्ञया।
जग्मतुर्नैषधं देशं यद्वा तद्वा भवत्विति॥३०॥
उपेत्य राजसदनं सोमवारे द्विजोत्तमैः।
सपत्नीकैः कृतातिथ्यौ धौतपादौ बभूवतुः॥३१॥
सा राज्ञी ब्राह्मणान् सर्वानुपविष्टान् वरासने।
प्रत्येकमर्चयाञ्चक्रे सपत्नीकान् द्विजोत्तमान्॥३२॥
तौ च विप्रसुतौ दृष्ट्वा प्राप्तौ कृतकदम्पती।
ज्ञात्वा किञ्चिद् विहस्याथ मेने गौरीमहेश्वरौ॥३३॥
आवाह्य द्विजमुख्येषु देवदेवं सदाशिवम्।
पत्नीष्वावाहयामास सा देवीं जगदम्बिकाम्॥३४॥
गन्धैर्माल्यैः सुरभिभिर्धूपैर्नीराजनैरपि।
अर्चयित्वा द्विजश्रेष्ठान्नमश्चक्रे समाहिता॥३५॥
हिरण्मयेषु पात्रेषु पायसं घृतसंयुतम्।
शर्करामधुसंयुक्तं शाकैर्जुष्टं मनोरमैः॥३६॥
गन्धशाल्योदनैर्हृद्यैर्मोदकापूपराशिभिः।
शष्कुलीभिश्च संयावैः कृसरैर्माषपक्वकैः॥३७॥
तथाऽन्यैरप्यसङ्ख्यातैर्भक्ष्यैर्भोज्यैर्मनोरमैः।
सुगन्धैः स्वादुभिः सूपैः पानीयैरपि शीतलैः॥३८॥
क्लृप्तमन्नं द्विजाग्र्येभ्यः सा भक्त्या पर्यवेषयत्।
दध्योदनं निरुपमं निवेद्य समतोषयत्॥३९॥
भुक्तवत्सु द्विजाग्र्येषु स्वाचान्तेषु नृपाङ्गना।
प्रणम्य दत्त्वा ताम्बूलं दक्षिणां च यथार्हतः॥४०॥
धेनूर्हिरण्यवासांसि रत्नस्रग्भूषणानि च।
दत्त्वा भूयो नमस्कृत्य विससर्ज द्विजोत्तमान्॥४१॥
तयोर्द्वयोर्भूसुरवर्यपुत्रयोः
एकस्तया हैमवतीधियार्चितः।
एको महादेवधियाभिपूजितः
कृतप्रणामौ ययतुस्तदाज्ञया॥४२॥
सा तु विस्मृतपुम्भावा तस्मिन्नेव द्विजोत्तमे।
जातस्पृहा मदोत्सिक्ता कन्दर्पविवशाऽब्रवीत्॥४३॥
अयि{} नाथ विशालाक्ष सर्वावयवसुन्दर।
तिष्ठ तिष्ठ क्व वा यासि मां न पश्यसि ते प्रियाम्॥४४॥
इदमग्रे वनं रम्यं सुपुष्पितमहाद्रुमम्।
अस्मिन् विहर्तुमिच्छामि त्वया सह यथासुखम्॥४५॥
इत्थं तयोक्तमाकर्ण्य पुरोऽगच्छद् द्विजात्मजः।
विचिन्त्य परिहासोक्तिं गच्छति स्म यथा पुरा॥४६॥
पुनरप्याह सा बाला तिष्ठ तिष्ठ क्व यास्यसि।
दुरुत्सहस्मरावेशां परिभोक्तुमुपेत्य माम्॥४७॥
परिष्वजस्व मां कान्तां पाययस्व तवाधरम्।
नाहं गन्तुं समर्थाऽस्मि स्मरबाणप्रपीडिता॥४८॥
इत्थमश्रुतपूर्वां तां निशम्य परिशङ्कितः।
आयान्तीं पृष्ठतो वीक्ष्य सहसा विस्मयं गतः॥४९॥
कैषा पद्मपलाशाक्षी पीनोन्नतपयोधरा।
कृशोदरी बृहच्छ्रोणी नवपल्लवकोमला॥५०॥
स एव मे सखा किं नु जात एव वराङ्गना।
पृच्छाम्येनमतः सर्वमिति सञ्चिन्त्य सोऽब्रवीत्॥५१॥
किमपूर्व इवाऽऽभाषि सखे रूपगुणादिभिः।
अपूर्वं भाषसे वाक्यं कामिनीव समाकुला॥५२॥
यस्त्वं वेदपुराणज्ञो ब्रह्मचारी जितेन्द्रियः।
सारस्वतात्मजः शान्तः कथमेवं प्रभाषसे॥५३॥
इत्युक्ता सा पुनः प्राह नाहमस्मि पुमान् प्रभो।
नाम्ना सामवती बाला तवास्मि रतिदायिनी॥५४॥
यदि ते संशयः कान्त ममाङ्गानि विलोकय।
इत्युक्तः सहसा मार्गे रहस्येनां व्यलोकयत्॥५५॥
तामकृत्रिमधम्मिल्लां जवनस्तनशोभिनीम्।
सुरूपां वीक्ष्य कामेन किञ्चिद् व्याकुलतामगात्॥५६॥
पुनः संस्तभ्य यत्नेन चेतसो विकृतिं बुधः।
मुहूर्तं विस्मयाविष्टो न किञ्चित् प्रत्यभाषत॥५७॥

सामवत्युवाच

गतस्ते संशयः कश्चित् तर्ह्यागच्छ भजस्व माम्।
पश्येदं विपिनं कान्त परस्त्रीसुरतोचितम्॥५८॥

सुमेधा उवाच

मैवं कथय मर्यादां मा हिंसीर्मदमत्तवत्।
आवां विज्ञातशास्त्रार्थौ त्वमेवं भाषसे कथम्॥५९॥
अधीतस्य च शास्त्रस्य विवेकस्य कुलस्य च।
किमेष सदृशो धर्मो जारधर्मनिषेवणम्॥६०॥
न त्वं स्त्री पुरुषो विद्वाञ्जानीह्यात्मानमात्मना।
अयं स्वयङ्कृतोऽनर्थ आवाभ्यां यद्विचेष्टितम्॥६१॥
वञ्चयित्वाऽऽत्मपितरौ धूर्तराजानुशासनात्।
कृत्वा चानुचितं कर्म तस्यैतद् भुज्यते फलम्॥६२॥
सर्वं त्वनुचितं कर्म नृणां श्रेयोविनाशनम्।
यस्त्वं विप्रात्मजो विद्वान् गतः स्त्रीत्वं विगर्हितम्॥६३॥
मार्गं त्यक्त्वा गतोऽरण्यं नरो विध्येत कण्टकैः।
बलाद्धिंस्येत वा हिंस्रैर्यदा त्यक्तसमागमः॥६४॥
एवं विवेकमाश्रित्य तूष्णीमेहि स्वयं गृहम्।
देवद्विजप्रसादेन स्त्रीत्वं तव विलीयते॥६५॥
अथवा दैवयोगेन स्त्रीत्वमेव भवेत् तव।
पित्रा दत्ता मया साकं रंस्यसे वरवर्णिनि॥६६॥
अहो चित्रमहो दुःखमहो पापबलं महत्।
अहो राज्ञः प्रभावोऽयं शिवाराधनसम्भृतः॥६७॥
इत्युक्ताऽप्यसकृत् तेन सा वधूरतिविह्वला।
बलेन तं समालिङ्ग्य चुचुम्बाधरपल्लवम्॥६८॥
धर्षितोऽपि तया धीरः सुमेधा नूतनस्त्रियम्।
यत्नादानीय सदनं कृत्स्नं तत्र न्यवेदयत्॥६९॥
तदाकर्ण्याथ तौ विप्रौ कुपितौ शोकविह्वलौ।
ताभ्यां सह कुमाराभ्यां वैदर्भान्तिकमीयतुः॥७०॥
ततः सारस्वतः प्राह राजानं धूर्तचेष्टितम्।
राजन् ममात्मजं पश्य तव शासनयन्त्रितम्॥७१॥
एतौ तवाऽऽज्ञावशगौ चक्रतुः कर्म गर्हितम्।
मत्पुत्रस्तत्फलं भुङ्क्ते स्त्रीत्वं प्राप्य जुगुप्सितम्॥७२॥
अद्य मे सन्ततिर्नष्टा निराशाः पितरो मम।
नापुत्रस्य हि लोकोऽस्ति लुप्तपिण्डादिसंस्कृतेः॥७३॥
शिखोपवीतमजिनं मौञ्जीं दण्डं कमण्डलुम्।
ब्रह्मचर्योचितं चिह्नं विहायेमां दशां गतः॥७४॥
ब्रह्मसूत्रं च सावित्रीं स्नानं सन्ध्यां जपार्चनम्।
विसृज्य स्त्रीत्वमाप्तोऽस्य का गतिर्वद पार्थिव॥७५॥
त्वया मे सन्ततिर्नष्टा नष्टो वेदपथश्च मे।
एकात्मजस्य मे राजन् का गतिर्वद शाश्वती॥७६॥
इति सारस्वतेनोक्तं वाक्यमाकर्ण्य भूपतिः।
सीमन्तिन्याः प्रभावेण विस्मयं परमं गतः॥७७॥
अथ सर्वान् समाहूय महर्षीनमितद्युतीन्।
प्रसाद्य प्रार्थयामास तस्य पुंस्त्वं महीपतिः॥७८॥
तेऽब्रुवन्नथ पार्वत्याः शिवस्य च समीहितम्।
तद्भक्तानां च माहात्म्यं कोऽन्यथा कर्तुमीश्वरः॥७९॥
अथ राजा भरद्वाजमादाय मुनिपुङ्गवम्।
ताभ्यां सह द्विजाग्र्याभ्यां तत्सुताभ्यां समन्वितः॥८०॥
अम्बिकाभवनं प्राप्य भरद्वाजोपदेशतः।
तां देवीं नियमैस्तीव्रैरुपास्ते स्म महानिशि॥८१॥
एवं त्रिरात्रं सुविसृष्टभोजनः
स पार्वतीध्यानरतो महीपतिः।
सम्यक् प्रणामैर्विविधैश्च संस्तवैः
गौरीं प्रपन्नार्तिहरामतोषयत्॥८२॥
ततः प्रसन्ना सा देवी भक्तस्य पृथिवीपतेः।
स्वरूपं दर्शयामास चन्द्रकोटिसमप्रभम्॥८३॥
अथाऽऽह गौरी राजानं किं ते ब्रूहि समीहितम्।
सोऽप्याह पुंस्त्वमेतस्य कृपया दीयतामिति॥८४॥
भूयोऽप्याह महादेवी मद्भक्तैः कर्म यत्कृतम्।
शक्यते नान्यथा कर्तुं वर्षायुतशतैरपि॥८५॥

राजोवाच

एकात्मजो हि विप्रोऽयं कर्मणा नष्टसन्ततिः।
कथं सुखं प्रपद्येत विना पुत्रेण तादृशः॥८६॥

देव्युवाच

तस्यान्यो मत्प्रसादेन भविष्यति सुतोत्तमः।
विद्या विनयसम्पन्नो दीर्घायुरमलाशयः॥८७॥
एषा सामवती नाम सुता तस्य द्विजन्मनः।
भूत्वा सुमेधसः पत्नी कामभोगेन युज्यताम्॥८८॥
इत्युक्त्वाऽन्तर्हिता देवी ते च राजपुरोगमाः।
गताः स्वं स्वं गृहं सर्वे चक्रुस्तच्छासने स्थितिम्॥८९॥
सोऽपि सारस्वतो विप्रः पुत्रं पूर्वसुतोत्तमम्।
लेभे देव्याः प्रसादेन ह्यचिरादेव कालतः॥९०॥
तां च सामवतीं कन्यां ददौ तस्मै सुमेधसे।
तौ दम्पती चिरं कालं बुभुजाते परं सुखम्॥९१॥

सूत उवाच

इत्येष शिवभक्तायाः सीमन्तिन्या नृपस्त्रियाः।
प्रभावः कथितः शम्भोर्माहात्म्यमपि वर्णितम्॥९२॥
भूयोऽपि शिवभक्तानां प्रभावं विस्मयावहम्।
समासाद् वर्णयिष्यामि श्रोतॄणां मङ्गलायनम्॥९३॥

॥इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे सीमन्तिन्याः प्रभाववर्णनं नाम नवमोऽध्यायः॥