अथ षट्त्रिंशोऽध्यायः
ब्रह्मोवाच
यास्तिस्रस्तिथयः पुण्या अन्तिके शुक्लपक्षके।
कार्तिके मासि विप्रेन्द्र पूर्णिमान्ताः शुभावहाः।
अन्तिपुष्करिणी संज्ञा सर्वपापक्षयावहा॥१॥
कार्त्तिके मासि सम्पूर्णं यो वै स्नानं करोति ह।
तिथिष्वेतासु सः स्नानात्पूर्णमेव फलं लभेत्॥२॥
सर्वे वेदास्त्रयोदश्यां गत्वा जन्तून् पुनन्ति हि।
चतुर्दश्यां सयज्ञाश्च देवा जन्तून् पुनन्ति हि॥३॥
पूर्णिमायां सुतीर्थानि विष्णुना संस्थितानि हि।
ब्रह्मघ्नान्वा सुरापान्वा सर्वाञ्जन्तून् पुनन्ति हि॥४॥
उष्णोदकेन यः स्नायात्कार्त्तिक्यादिदिनत्रये।
रौरवं नरकं याति यावदिन्द्राश्चतुर्दश॥५॥
आमासनियमाशक्तः कुर्यादेतद्दिनत्रये।
तेन पूर्णफलं प्राप्य मोदते विष्णुमन्दिरे॥६॥
यो वै देवान् पितॄन् विष्णुं गुरुमुद्दिश्य मानवः।
न स्नानादि करोत्यद्धा स याति नरकं ध्रुवम्॥७॥
कुटुम्बभोजन यस्तु गृहस्थस्तु दिनत्रये।
सर्वान् पितॄन्समुद्धृत्य स याति परमं पदम्॥८॥
गीतापाठं तु यः कुर्यादन्तिमे च दिनत्रये।
दिने दिनेऽश्वमेधानां फलमेति न संशयः॥९॥
सहस्रनामपठनं यः कुर्यात्तु दिनत्रये।
न पापैर्लिप्यते क्वापि पद्मपत्रमिवाम्भसा॥१०॥
देवत्वं मनुजैः कैश्चित्कैश्चित्सिद्धत्वमेव च।
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि॥११॥
यो वै भागवतं शास्त्रं शृणोति च दिनत्रयम्।
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात्॥१२॥
ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा।
अथ वा कार्त्तिके मासि दिनत्रयनिषेवणात्॥१३॥
कार्त्तिके हरिपूजां तु यः करोति दिनत्रये।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि॥१४॥
कार्त्तिके मासि विप्रेन्द्र सर्वमन्त्यदिनत्रये।
पुण्यं तत्रापि वैशेष्यं राकायां वर्ततेऽनघ॥१५॥
प्रातःकाले समुत्थाय शौचं स्नानादिकं चरेत्।
समाप्य सर्वकर्माणि विष्णुपूजां समाचरेत्॥१६॥
उद्याने वा गृहे वाऽपि कार्त्तिक्यां विष्णुतत्परः।
मण्डपं तत्र कुर्वीत कदलीस्तम्भमण्डितम्।
चूतपल्लवसंवीतमिक्षुदण्डैः सुमण्डितम्॥१७॥
चित्रवस्त्रैः स्वलङ्कृत्य तत्र देवं प्रपूजयेत्।
चूतपल्लवपुष्पाढ्यैः फलाद्यैः पूजयेद्धरिम्॥१८॥
शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान्।
सम्पूर्णमथ वाऽध्यायमेकश्लोकमथापि वा॥१९॥
मुहूर्तं वाऽपि शृणुयात्कथां पुण्यां दिने दिने।
यदि प्रतिदिनं श्रोतुमशक्तः स्यात्तु मानवः॥२०॥
पुण्यमासेऽथवा पुण्यतिथौ संशृणुयादपि।
तेन पुण्यप्रभावेन पापान्मुक्तो भवेन्नरः॥२१॥
पुराणज्ञः शुचिर्दक्षः शान्तो विगतमत्सरः।
साधुः कारुणिको वाग्मी वदेत्पुण्यां कथां सुधीः॥२२॥
व्यासासनं समारूढो यदा पौराणिको भवेत्।
आसमाप्तेः प्रसङ्गस्य नमस्कुर्यान्न कस्यचित्॥२३॥
न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते।
देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः॥२४॥
श्रद्धाभक्तिसमायुक्ता नान्यकार्येषु लालसा।
वाग्यताः शुचयो दक्षाः श्रोतारः पुण्यभागिनः॥२५॥
अभक्ता ये कथां पुण्यां शृण्वन्ति मनुजाधमाः।
तेषां पुण्यफलं नास्ति दुःखं स्याज्जन्मजन्मनि॥२६॥
पौराणिकं च मासान्ते पूजयेद्भक्तितत्परः।
गन्धमाल्यैस्तथा वस्त्रैरलङ्कारैर्धनेन च॥२७॥
शृण्वन्ति च कथां भक्त्या न दरिद्रा न पापिनः॥२८॥
कथायां कीर्त्यमानायां ये गच्छन्त्यन्यतो नराः।
भोगान्तरे प्रणश्यन्ति तेषां दाराश्च सम्पदः॥२९॥
उच्चासनसमारूढो न नरः प्रणतो भवेत्।
विषवृक्षस्तथा स्वापे वने चाजगरो भवेत्॥३०॥
कथायां कीर्त्यमानायां विघ्नं कुर्वन्ति ये नराः।
कोट्यब्दनरकान्भुक्त्वा भवन्ति ग्रामसूकराः॥३१॥
ये श्रावयन्ति मनुजाः कथां पौराणिकीं शुभाम्।
कल्पकोटिशतं साग्रं तिष्ठन्ति ब्रह्मणः पदे॥३२॥
आसनार्थे प्रयच्छन्ति पुराणज्ञस्य ये नराः।
कम्बलाजिनवासांसि मञ्चं फलकमेव वा॥३३॥
परिधानीयवस्त्राणि प्रयच्छन्ति च ये नराः।
भूषणादि प्रयच्छन्ति वसेयुर्ब्रह्मसद्मनि॥३४॥
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः।
अतः सन्तोषयेद्भक्त्या भक्तिश्रद्धान्वितः पुमान्।
तस्य पुण्यफलं पूर्णं भवत्येव न संशयः॥३५॥
यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम्।
सकृत्पुराणश्रवणात्तत्फलं विन्दते नरः॥३६॥
कलौ युगे विशेषेण पुराणश्रवणादृते।
नास्ति धर्मः परः पुंसां नास्ति मुक्तिपथः परः।
पुराणश्रवणाद्विष्णोर्नास्ति सङ्कीर्तनात्परम्॥३७॥
य एतदूर्जमाहात्म्यं शृणुयाच्छ्रावयेदपि।
स तीर्थराज बदरीगमनस्य फलं लभेत्॥३८॥
सर्वरोगापहं सर्वपापनाशकरं शुभम्॥३९॥
श्रुत्वा चैकपदे यो वै अगम्यागमने रतः।
कन्यास्वस्रोर्विक्रयिणमुभयं तु विमोचयेत्॥४०॥
माहात्म्यमेतदाकर्ण्य पूजयेद्यस्तु पाठकम्।
गोभूहिरण्यवस्त्रैश्च विष्णुतुल्यो यतो हि सः॥४१॥
धर्मशास्त्रं पुराणं च वेदविद्यादिकं च यत्।
पुस्तकं वाचकायैव दातव्यं धर्ममिच्छता।
पुराणविद्यादातारो ह्यनन्तफलभोगिनः॥४२॥
इदं यः पठते भक्त्या श्रुत्वा चैवावधारयेत्।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति॥४३॥
न कस्यापीदमाख्येयं श्रद्धाहीनाय दुर्मतेः॥४४॥
अपूजयित्वा गुरुमग्रबुद्ध्या
धर्मप्रवक्तारमनन्यबुद्धिः।
भुक्त्वा तु भोगान्नरकेषु चैव
ततो हि जन्मान्तर-दुःखभोगी॥४५॥
तस्मात् सम्पूजयेद्भक्त्या गुरुं तत्त्वावबोधकम्।
माहात्म्यस्य च लेशोऽयं तव चोक्तो मयाऽनघ।
न शक्यते हि सम्पूर्णं वक्तुं वर्षशतैरपि॥४६॥
पुरा कैलासशिखरे पार्वत्यै प्रोक्तवाञ्च्छिवः।
कार्तिकस्य तु माहात्म्यं यावद् वर्षशतं वदन्।
तथाऽपि नान्तमगमदशक्तो विरराम ह॥४७॥
पुत्रार्थी च धनार्थी च राज्यार्थी स्वफलं लभेत्।
किमत्र बहुनोक्तेन मोक्षार्थी मोक्षमाप्नुयात्॥४८॥
सूत उवाच
इत्युक्तो ब्रह्मणा चैव नारदः प्रेमनिर्भरः।
भूयो भूयो नमस्कृत्य ययौ यादृच्छिको मुनिः॥४९॥
कथितं शङ्करेणापि पुत्राय हितकाम्यया।
पितुस्तद्वाक्यमाकर्ण्य षण्मुखो हर्षनिर्भरः॥५०॥
कृष्णेन सत्यभामायै कार्तिकस्य च वैभवः।
कथितस्तेन सन्तुष्टा सत्या व्रतमथाकरोत्॥५१॥
ऋषयो वालखिल्येभ्यः श्रुत्वा माहात्म्यमुत्तमम्।
ऊर्जव्रतपरा जातास्तस्मादूर्जोऽतिवल्लभः॥५२॥
अधीत्य सर्वशास्त्राणि पयःसारमिवोद्धृतम्।
नानेन सदृशं शास्त्रं विष्णुप्रीतिकरं शुभम्॥५३॥
व्यास उवाच
इत्युक्त्वा तानृषीन्सर्वान्सूतो वै धर्मवित्तमः।
विरराम ततस्ते तु पूजां चक्रुस्तदास्य च॥५४॥
ते पुनः स्वाश्रमं गत्वा हृष्टास्ते परमर्षयः।
यथा सूतेनोपदिष्टं तथा चक्रुर्व्रतं शुभम्॥५५॥
अनेन विधिना ये वै कुर्वन्ति कार्तिकव्रतम्।
ते सर्वपापनिर्मुक्ता गच्छन्ति विष्णुमन्दिरम्॥५६॥
आदितः श्लोकाः — १८०९
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
पुष्करिणीसंज्ञिकान्तिमतिथित्रयमाहात्म्यकथनपूर्वकपुराणश्रवणमहिमवर्णनं
नाम षट्त्रिंशोऽध्यायः॥३६॥
❀