अथ पञ्चत्रिंशोऽध्यायः

ब्रह्मोवाच

वैकुण्ठाख्यचतुर्दश्या माहात्म्यं ते वदाम्यहम्।
वालखिल्यैः पुरा प्रोक्तं सङ्क्षेपेण शृणुष्व तत्॥१॥

वालखिल्या ऊचुः

कार्तिकस्य सिते पक्षे चतुर्दश्यां समागमत्।
वैकुण्ठेशस्तु वैकुण्ठाद्वाराणस्यां कृते युगे॥२॥
रात्र्यां तुर्यांशशेषायां स्नात्वाऽसौ मणिकर्णिके।
गृहीत्वा हेमपद्मानां सहस्रं वै ततोऽव्रजत्॥३॥
अतिभक्त्या पूजयितुं शिवया सहितं शिवम्।
विधाय पूजां वैश्वेशीं ततः पद्मैरपूजयत्॥४॥
सहस्रसङ्ख्यां कृत्वादावेकनाम्ना ततः परम्।
आरब्धं पूजनं तेन शिवस्तद्भक्तिमैक्षत॥५॥
एकं पद्मं पद्ममध्यान्निलीयाऽऽत्तं हरेण तु।
ततः पूजितवान् विष्णुरेकोनं कमलं त्वभूत्॥६॥
इतस्ततस्तेन दृष्टं पद्मं तिष्ठति न क्वचित्।
कमलेषु भ्रमो जातोऽथवा नामसु मे भ्रमः॥७॥
क्षणं विचार्य स हरिर्न मे नामभ्रमोऽभवत्।
पद्मे चैव भ्रमो जातो विचार्यैवं पुनःपुनः॥८॥
सहस्रपद्मसङ्कल्पः पूजार्थं तु कृतो मया।
अर्च्यः कथं महादेव एकोनकमलैर्मया॥९॥
यद्यानेतुं गमिष्यामि भङ्गः स्यादासनस्य तु।
अतः परं किं विधेयं चिन्तोद्विग्नो हरिस्तदा॥१०॥
एकः प्रकार उत्पन्नो हृदयेऽस्य मुनीश्वराः।
पुण्डरीकाक्ष इत्येवं मां वदन्ति मुनीश्वराः॥११॥
नेत्रं मे पद्मसदृशे पद्मार्थे त्वर्पयाम्यहम्।
इति निश्चित्य मनसा दत्त्वा तर्जनिकां स तु॥१२॥
नेत्रमध्यात्तदुत्पाट्य महादेवस्तु पूजितः।
ततो महेश्वरस्तुष्टो वाक्यमेतदुवाच ह॥१३॥

महादेव उवाच

त्वत्समो नास्ति मद्भक्तस्त्रैलोक्ये सचराचरे।
राज्यं दत्तं त्रिलोक्यास्ते भव त्वं लोकपालकः॥१४॥
अन्यं वरय भद्रं ते वरं यन्मनसेप्सितम्।
अवश्यमेव दास्यामि नात्र कार्या विचारणा॥१५॥
मद्भक्तिं तु समालम्ब्य ये द्विषन्ति जनार्दनम्।
ते मद्द्वेष्या नरा विष्णो व्रजेयुर्नरकं ध्रुवम्॥१६॥

विष्णुरुवाच

त्रैलोक्यरक्षाकरणं ममादिष्टं महेश्वर।
दुमर्दाश्च महासत्त्वा दैत्या मार्याः कथं मया॥१७॥

शिव उवाच

एतत्सुदर्शनं चक्रं महादैत्यनिकृन्तनम्।
गृहाण भगवन् विष्णो मया तुभ्यं निवेदितम्॥१८॥
अनेन सर्वदैत्यानां भगवन् कदनं कुरु।
एवं चक्रं हरेर्दत्त्वा ततो वचनमब्रवीत्॥१९॥

शिव उवाच

वर्षे च हेमलम्बाख्ये मासे श्रीमति कार्तिके।
शुक्लपक्षे चतुर्दश्यामरुणाभ्युदयं प्रति॥२०॥
महादेवतिथौ ब्राह्मे मुहूर्ते मणिकर्णिके।
स्नात्वा वैश्वेश्वरं लिङ्गं वैकुण्ठादेत्य पूजितम्॥२१॥
सहस्रकमलैस्तस्माद्भविष्यति मम प्रिया।
विख्याता सर्वलोकेषु वैकुण्ठाख्या चतुर्दशी॥२२॥
अन्यं वरं प्रयच्छामि शृणु विष्णो वचो मम।
पूर्वरात्रेषु ते पूजा कर्तव्या सर्वजातिभिः॥२३॥
उपवासं दिवा कुर्यात्सायङ्काले तवार्चनम्।
पश्चान्ममार्चनं कार्यमन्यथा निष्फलं भवेत्॥२४॥
ग्राह्या तु हरिपूजायां रात्रिव्याप्ता चतुर्दशी।
अरुणोदयवेलायां शिवपूजां समाचरेत्॥२५॥
सहस्रकमलैर्विष्णुरादौ यैः पूजितो नरैः।
पश्चाच्छिवः पूजितश्चेज्जीवन्मुक्तास्त एव हि॥२६॥
सायं स्नात्वा पञ्चनदे बिन्दुमाधवमर्चयेत्।
स्नात्वा यो विष्णुकाञ्च्यां वाऽनन्तसेनं समर्चयेत्॥२७॥
रुद्रकाञ्च्यां ततः स्नात्वा प्रणवेशं समर्चयेत्।
आदौ स्नात्वा वह्नितीर्थे यजेन्नारायणं ततः॥२८॥
रेतोदके ततः स्नात्वा केदारेशं समर्चयेत्।
आदौ स्नात्वा सूर्यपुत्र्यां वेणीमाधवमर्चयेत्॥२९॥
जाह्नव्यां च ततः स्नात्वा सङ्गमेशं प्रपूजयेत्।
सर्वाः श्रियस्तस्य वश्याः सत्यं विष्णो मयोदितम्॥३०॥
एवं तस्मै वरान्दत्त्वा ह्यन्तर्धानं ययौ शिवः।
तस्मात् सर्वप्रयत्नेन पूज्यौ हरिहरावुभौ॥३१॥
कलौ दशसहस्राणि विष्णुस्त्यजति मेदिनीम्।
तदर्धं जाह्नवीतोयं तदर्धं ग्रामदेवताः॥३२॥
कार्तिक्यां पूर्णिमायां तु कुर्यात्त्रैपुरमुत्सवम्।
दीपो देयोऽवश्यमेव सायङ्काले शिवालये॥३३॥
त्रिपुरो नाम दैत्येन्द्रः प्रयागे तप आस्थितः।
तपसा तस्य सन्तुष्टो ददौ ब्रह्मा वरं परम्॥३४॥
देवासुरमनुष्येभ्यो न ते मृत्युर्भविष्यति।
इति लब्धवरो दैत्यो विश्वकर्मविनिर्मितम्॥३५॥
त्रिपुराख्यं विमानं तमारुह्य भुवनत्रयम्।
यदा वै पीडयामास तदा देवैः स्तुतो हरः॥३६॥
त्रिपुरं घातयामास बाणेनैकेन शत्रुहा।
कार्तिक्यां पूर्णिमायां तु सर्वे देवाः प्रतुष्टुवुः॥३७॥
तस्मिन्दिने सर्वदेवैर्दीपा दत्ता हराय च।
सर्वथैव प्रदेयाश्च दीपास्तु हरतुष्टये॥३८॥
विंशतिः सप्तशतकाः सहिता दीपवर्तयः।
ददद्दीपं पूर्णिमायां सर्वपापैः प्रमुच्यते॥३९॥
पौर्णमास्यां तु सन्ध्यायां कर्तव्यस्त्रिपुरोत्सवः।
दद्यादनेन मन्त्रेण प्रदीपांश्च सुरालये॥४०॥
कीटाः पतङ्गा मशकाश्च वृक्षा
जले स्थले ये विचरन्ति जीवाः।
दृष्ट्वा प्रदीपं न च जन्मभागिनो
भवन्तु नित्यं श्वपचा हि विप्राः॥४१॥
कार्यस्तस्मात् पौर्णमास्यां त्रिपुराय महोत्सवः।
कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम्॥४२॥
सप्त जन्म भवेद्विप्रो धनाढ्यो वेदपारगः।
अत्र कृत्वा वृषोत्सर्गं नक्ताच्छैवपुरं व्रजेत्॥४३॥

आदितः श्लोकाः — १७५३
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
वैकुण्ठचतुर्दशी-त्रिपुरीपूर्णिमाव्रतविधानकथनं
नाम पञ्चत्रिंशोऽध्यायः॥३५॥