अथ चतुस्त्रिंशोऽध्यायः

नारद उवाच

व्रतानामपि सर्वेषां ब्रह्मन्नुद्यापनं श्रुतम्।
अभावे तूद्यापनस्य फलं नैवाऽऽप्नुयात्क्वचित्॥१॥
कृतव्रतफलाप्त्यर्थं कुर्यादुद्यापनं बुधः।
अन्यथा निष्फलं याति कृतं व्रतमनुत्तमम्॥२॥
कार्तिकेऽपि कृतं देव व्रतानामुत्तमं व्रतम्।
न तस्योद्यापनाभावे व्रतोक्तफलमाप्नुयात्॥३॥
तस्मात् कार्तिकमासस्य चोद्यापनविधिं प्रभो।
वद मे शिष्यवर्याय प्रपन्नायानुवर्तिने॥४॥

ब्रह्मोवाच

अथोर्जोद्यापनं वक्ष्ये सर्वपापप्रणाशनम्।
तच्छृणुष्व महाभक्त्या सविधानं समासतः॥५॥
ऊर्जे शुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती।
व्रतसम्पूरणार्थाय विष्णुप्रीत्यर्थहेतवे॥६॥
तुलस्या उपरिष्टात्तु कुर्यान्मण्डपिकां शुभाम्।
कदलीस्तम्भसंयुक्तां नानाधातुविचित्रिताम्॥७॥
दीपमाला चतुर्दिक्षु कार्या तत्र सुशोभना।
सुतोरणाश्चतुर्द्वारः पुष्पचामरशोभिताः॥८॥
द्वारेषु द्वारपालाश्च पूजयेन्मृन्मयान् पृथक्।
जयश्च विजयश्चैव चण्डश्चैव प्रचण्डकः॥९॥
नन्दश्चैव सुनन्दश्च कुमुदः कुमुदाक्षकः।
एतांश्चतुर्षु द्वारेषु पूजयेद्भक्तिसंयुतः॥१०॥
तुलसीमूलदेशे तु सर्वतोभद्रसंज्ञितम्।
चतुर्भिर्वर्णकैः सम्यक्छोभाढ्यं समलङ्कृतम्॥११॥
तस्योपरिष्टात्कलशं पूर्णरत्नसमन्वितम्।
तत्र सम्पूजयेद् देवं शङ्खचक्रगदाधरम्॥१२॥
कौशेयपीतवसनं लक्ष्म्या युक्तं प्रपूजयेत्।
इन्द्रादिलोकपालांश्च मण्डपे पूजयेद्व्रती॥१३॥
तस्यामुपवसेद्भक्त्या शान्तः प्रणतमानसः।
रात्रौ जागरणं कुर्याद्गीतवाद्यादिमङ्गलैः॥१४॥
गीतं कुर्वन्ति ये भक्त्या जागरे चक्रपाणिनः।
जन्मान्तरशतोद्भूतैस्ते मुक्ताः पापसञ्चयैः॥१५॥
ततस्तु पूर्णिमायां तु सपत्नीकान्द्विजोत्तमान्।
त्रिंशन्मितानथैकं वा ब्राह्मणांश्च निमन्त्रयेत्॥१६॥
प्रातःस्नानं ततः कृत्वा देवपूजां तथैव च।
स्थण्डिले च ततः कृत्वा समाधायाग्निमत्र हि॥१७॥
अतो देवेति मन्त्रेण जुहुयात्तिलपायसम्।
प्रीत्यर्थं देवदेवस्य देवानां च पृथक्पृथक्॥१८॥
होमशेषं समाप्याथ ब्राह्मणान् पूज्य भक्तितः।
ब्राह्मणेभ्यो यथाशक्त्या प्रदद्याद्दक्षिणां नरः॥१९॥
ततो गां कपिलां तत्र पूजयेद्विधिवद्व्रती।
सवत्सां गां तथा दद्याद्विप्राय च कुटुम्बिने॥२०॥
गुरुं व्रतोपदेष्टारं वस्त्रालङ्कारभूषणैः।
सपत्नीकं समभ्यर्च्य तांश्च विप्रान्क्षमापयेत्॥२१॥
युष्मत्प्रसादाद् देवेशः प्रसन्नोऽस्तु सदा मम।
व्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया॥२२॥
तत्सर्वं नाशमायातु स्थिरा मे चास्तु सन्ततिः।
मनोरथास्तु सफलाः सन्तु भक्तिर्हरौ भवेत्॥२३॥
सतां समागमो भूयान्मम जन्मनि जन्मनि।
इति क्षमाप्य तान्विप्रान् प्रसाद्य च विसर्जयेत्॥२४॥
प्रतिमां तां गुरोर्दद्यात्सवस्त्रां मुनिपुङ्गव।
ततः सुहृद्गुरुयुतः स्वयं भुञ्जीत भक्तिमान्॥२५॥
द्वादश्यां प्रतिबुद्धोऽसौ त्रयोदश्यां युतः सुरैः।
दृष्टोऽर्चितश्चतुर्दश्यां तस्मात् पूज्यस्तिथाविह॥२६॥
पूजयेद् देवदेवेशं सौवर्णं गुर्वनुज्ञया।
पराऽत्र पौर्णमास्यां तु यात्रा स्यात्पुष्करस्य तु॥२७॥
वरान्दत्त्वा यतो विष्णुर्मत्स्यरूपोऽभवत्ततः।
तस्यां दत्तं हुतं जप्तं तदक्षय्यफलं भवेत्॥२८॥
कार्तिके मासि कर्तव्यो विधिरेष हि नारद।
एवं यः कुरुते सम्यक्कार्तिकस्य व्रतं नरः॥२९॥
यत्फलं तदवाप्नोति व्रतं कृत्वा तु कार्तिके।
ते धन्यास्ते सदा पूज्यास्तेषां वै सफलोदयः॥३०॥
विष्णुभक्तिरता ये स्युः कार्तिके व्रतचारिणः।
देहस्थितानि पापानि विलयं यान्ति तत्क्षणात्॥३१॥
क्व यामोऽद्य भवत्येष यदूर्जव्रतकृन्नरः।
इति सर्वाणि पापानि रटन्तीह पुनःपुनः॥३२॥
तस्मात् कार्तिकमासस्य सदृशं नहि विद्यते।
सर्वपापस्य दहने अग्नेः सदृश उच्यते॥३३॥
ऊर्जोद्यापनमाहात्म्यं शृणुयाच्छ्रद्धयान्वितः।
श्रावयेद्वा पुमान् यस्तु विष्णुसायुज्यमाप्नुयात्॥३४॥

नारद उवाच

ऊर्जे व्रतोद्यापनादावशक्तः सिद्धिभाक् कथम्।
कथं विमुच्यते जन्तुर्दुःखसंसारसागरात्॥३५॥

ब्रह्मोवाच

शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान्।
उद्यापनफलं प्राप्य विष्णुलोके वसेच्च सः॥३६॥

आदितः श्लोकाः — १७१०
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
व्रतोद्यापनविधिकथनं
नाम चतुस्त्रिंशोऽध्यायः॥३४॥