अथ त्रयस्त्रिंशोऽध्यायः

ईश्वर उवाच

प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्धनम्।
मुक्तिदं तत्त्वबुद्धीनां शृणुष्व सुरसत्तम॥१॥
तावद्गर्जति सेनानीर्गङ्गा भागीरथी क्षितौ।
यावत्प्रयाति पापघ्नी कार्तिके हरिबोधिनी॥२॥
तावद्गर्जन्ति तीर्थानि आसमुद्रसरांसि वै।
यावत्प्रबोधिनी विष्णोस्तिथिर्नाऽऽयाति कार्तिके॥३॥
अश्वमेधसहस्राणि राजसूयशतानि च।
एकेनैवोपवासेन प्रबोधिन्या यथाऽभवत्॥४॥
दुर्लभं चैव दुष्प्राप्यं त्रैलोक्ये सचराचरे।
तदपि प्रार्थितं विप्र ददाति प्रतिबोधिनी॥५॥
ऐश्वर्यं सन्ततिं ज्ञानं राज्यं च सुखसम्पदः।
ददात्युपोषिता विप्र हेलया हरिबोधिनी॥६॥
मेरुमन्दरतुल्यानि पापान्युपार्जितानि च।
एकेनैवोपवासेन दहते हरिबोधिनी॥७॥
उपवासं प्रबोधिन्यां यः करोति स्वभावतः।
विधिना नरशार्दूल यथोक्तं लभते फलम्॥८॥
पूर्वजन्मसहस्रेषु पापं यत्समुपार्जितम्।
जागरेण प्रबोधिन्यां दह्यते तूलराशिवत्॥९॥
शृणु षण्मुख वक्ष्यामि जागरस्य च लक्षणम्।
तस्य विज्ञानमात्रेण दुर्लभो न जनार्दनः॥१०॥
गीतं वाद्यं च नृत्यं च पुराणपठनं तथा।
धूपं दीपं च नैवेद्यं पुष्पगन्धानुलेपनम्॥११॥
फलमर्घ्यं च श्रद्धा च दानमिन्द्रियसंयमम्।
सत्यान्वितं विनिन्दं च मुदा युक्तं क्रियान्वितम्॥१२॥
साश्चर्यं चैव प्रोत्साहमालस्यादिविवर्जितम्।
प्रदक्षिणादिसंयुक्तं नमस्कारपुरःसरम्॥१३॥
नीराजनसमायुक्तमनिर्विण्णेन चेतसा।
यामे यामे महाभाग कुर्वन्नीराजनं हरेः॥१४॥
एतैर्गुणैः समायुक्तं कुर्याज्जागरणं विभोः।
एकाग्रमनसा यस्तु न पुनर्जायते भुवि॥१५॥
य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः।
जागरं वासरे विष्णोर्लीयते परमात्मनि॥१६॥
पुरुषसूक्तेन यो नित्यं कार्तिकेऽथार्चयेद्धरिम्।
वर्षकोटिसहस्राणि पूजितस्तेन केशवः॥१७॥
यथोक्तेन विधानेन पञ्चरात्रोदितेन वै।
कार्तिके त्वर्चयेन्नित्यं मुक्तिभागी भवेन्नरः॥१८॥
नमो नारायणायेति कार्तिके योऽर्चयेद्धरिम्।
स मुक्तो नारकैर्दुःखैः पदं गच्छत्यनामयम्॥१९॥
हरेर्नामसहस्रं च गजराजस्य मोक्षणम्।
कार्तिके पठते यस्तु पुनर्जन्म न विन्दति॥२०॥
युगकोटिसहस्राणि मन्वन्तरशतानि च।
द्वादश्यां कार्तिके मासि जागरी वसते दिवि॥२१॥
कुले तस्य च ये जाताः शतशोऽथ सहस्रशः।
प्राप्नुवन्ति पदं विष्णोस्तस्मात् कुर्वीत जागरम्॥२२॥
कार्तिके पश्चिमे यामे स्तवं गानं करोति यः।
श्वेतद्वीपे तु वसते पितृभिः सह सुव्रत॥२३॥
नैवेद्यदानं हरये कार्तिके दिनसङ्क्षये।
युगानि वसते स्वर्गे तावन्ति मुनिसत्तमाः॥२४॥
अक्षयं मुनिशार्दूल मालतीकमलार्चनम्।
अर्चयेद् देवदेवेशं स याति परमं पदम्॥२५॥
कार्तिके शुक्लपक्षे तु कृत्वा ह्येकादशीं नरः।
प्रातर्दत्त्वा शुभान्कुम्भान्स याति मम मन्दिरम्॥२६॥
अत्रैव तु प्रकर्तव्यः प्रबोधस्तु हरेः खग।
हतः शङ्खासुरो दैत्यो नभसः शुक्लपक्षके॥२७॥
एकादश्यां ततो विष्णुश्चातुर्मास्ये प्रसुप्तवान्।
क्षीराम्भोधौ जागृतोऽसावेकादश्यां तु कार्तिके॥२८॥
अतः प्रबोधनं कार्यमेकादश्यां तु वैष्णवैः।
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु॥२९॥
इत्युक्त्वा शङ्खभेर्यादि प्रातःकाले तु वादयेत्।
वीणावेणुमृदङ्गादि नृत्यगीतादि कारयेत्॥३०॥
उत्थापयित्वा देवेशं पूजां तस्य विधाय च।
सायङ्काले प्रकर्तव्यस्तुलस्युद्वाहजो विधिः॥३१॥
सर्वदैकादशी पुण्या विशेषात्कार्तिकी स्मृता।
यानि कानि च पापानि ब्रह्महत्यादिकानि च॥३२॥
अन्नमाश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे।
स केवलमघं भुङ्क्ते यो भुङ्क्ते हरिवासरे॥३३॥
तस्मात् सर्वप्रयत्नेन कुर्यादेकादशीव्रतम्।
न कुर्याद्यदि मोहेन उपवासं नराधमः॥३४॥
नरके नियतं वासः पितृभिः सह तस्य वै।
सूतके मृतके वाऽपि नोपवासं त्यजेद्बुधः॥३५॥
दशमीवेधसंयुक्ता त्याज्या चैकादशी व्रते।
गान्धार्याऽपि पुरा तस्यामुपवासः कृतो गुह॥३६॥
तस्याः पुत्रशतं नष्टं तस्मात् तां वधजां त्यजेत्।
एकादशीमुपवसेत्स्नानदानपुरःसरम्॥३७॥
रुक्माङ्गदोऽपि राजर्षिर्मोहिन्याः सङ्गमेन च।
इह लोके सुखं भुक्त्वा चान्ते विष्णुपुरं ययौ॥३८॥

॥इति प्रबोधोत्सवः॥

॥अथ द्वादशीमाहात्म्यम्॥

द्वादशी पुण्यदा प्रोक्ता सर्वाघौघविनाशिनी।
किं दानैः कि तपोभिश्च किमु पोष्यैर्व्रतैश्च किम्॥३९॥
किमिष्टैश्चैव पुत्रैश्च द्वादशी येन सेविता।
गङ्गायां चैव दुर्भिक्षे प्रत्यहं कोटिभोजनात्॥४०॥
यत्फलं तदवाप्नोति द्वादश्यामेकभोजनात्।
यद्दत्तं चार्हते दानं द्वादश्यां तु सिते शुभे॥४१॥
सिक्थे सिक्थे च वैकस्य कति ब्राह्मणभोजनम्।
तदहं नैव जानामि महिमानं हि सुव्रत॥४२॥
शालिग्रामशिलादानं यः कुर्याद् द्वादशीदिने।
सप्तद्वीपवतीं भूमिं गङ्गायां च रविग्रहे।
दत्त्वा यत्फलमाप्नोति तत्फलं लभते नरः॥४३॥
पञ्चामृतैस्तु यो विष्णुं भक्त्या संस्नापयेद् द्विज।
स सर्वकुलमुद्धृत्य विष्णुलोके महीयते॥४४॥
शुक्ले कार्तिकमासस्य द्वादश्यां परमोत्सवे।
प्रातरारभ्य यः कुर्यात्स्नानदानादिकं तथा।
स तु मोक्षमवाप्नोति नात्र कार्या विचारणा॥४५॥
द्वादश्यां कार्तिके मासि स्नानसन्ध्यादिकर्म च।
कृत्वा दामोदरं पूज्य भक्तिश्रद्धासमन्वितः॥४६॥
यस्तस्यां सूपनैवेद्यं न ददाति नराधमः।
नरके नियतं वासो भवतीत्यनुशुश्रुम॥४७॥
तस्मात् सूपस्य नैवेद्यं द्वादश्यां कार्तिके शुभे।
दद्याद्भक्तियुतो ब्रह्मंश्चान्यथा नरकं व्रजेत्॥४८॥
यस्तस्यां दम्पतीनां तु भोजनं कुरुते नरः।
न तस्य फलविश्रान्तिर्मया वक्तुं तु शक्यते॥४९॥
धात्रीच्छायां गतो यस्तु द्वादश्यां पूजयेद्धरिम्।
तत्रैव भोजनं यस्तु ब्राह्मणानां तु कारयेत्॥५०॥
स्वयं च तत्र भुङ्क्ते यः सूपभक्ष्यादिकं तथा।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि॥५१॥
एवं प्रातर्विधायाथ पूजां दामोदरस्य हि।
रात्रौ पुनः प्रकर्तव्यं पूजाकर्म हरेर्द्विज॥५२॥
तुलसीसन्निधौ कृत्वा पताकाध्वजशोभितम्।
पुष्पमालासमाकीर्णं नानारत्नोपशोभितम्॥५३॥
मुक्तादामभिराच्छन्नं कृत्वा मण्डपमुत्तमम्।
पूजयेद्विष्णुमव्यग्रस्तद्गतैकाग्रमानसः॥५४॥
पञ्चरात्रोक्तमार्गेण गन्धपुष्पाक्षतादिभिः।
नवनीतं दधिक्षीरं तथैव च घनं घृतम्॥५५॥
विविधैः खाद्यनैवेद्यैर्जलेन च सुगन्धिना।
युक्तं निवेदयेद्विष्णोस्ताम्बूलं सलवङ्गकम्॥५६॥
पुष्पाणि च विचित्राणि सुगन्धीनि बहूनि च।
प्रोक्षयित्वा च विधिवदर्पयित्वा दलैः शुभैः॥५७॥
तुलस्याश्चापि धात्र्याश्च फलैश्चापि प्रपूजयेत्।
नीराजनं ततः कृत्वा मन्त्रपुष्पं समर्पयेत्॥५८॥
अभिषेकं विना सर्वपूजां कृत्वा विधानतः।
विष्णोः पूजां समाप्याथ ब्राह्मणानां प्रपूजनम्॥५९॥
कुर्याद्भक्तियुतो विप्र दद्याच्चैव फलादिकम्।
ताम्बूलं च ततो दत्त्वा दक्षिणां शक्तितोऽर्पयेत्॥६०॥
ततो वृद्धान् पितॄन्मातॄन् पूजयित्वा विधानतः।
ततः स्वयं स्वभार्याभिर्नैवेद्यं भक्षयेत्सुधीः॥६१॥
इत्येवं तु विधानेन यः कुर्याद् द्वादशीव्रतम्।
न तस्य लोकाः क्षीयन्ते कल्पकोटिशतैरपि॥६२॥
पुत्रपौत्रैः परिवृतो भुक्त्वा भोगान्मनोहरान्।
भोगान्ते च व्रजेन्मोक्षमतीतकुलसप्तकैः॥६३॥
तस्मान्नारद माहात्म्यं द्वादश्याः कार्तिकस्य च।
न मया शक्यते वक्तुं किमन्यैर्मनुजैरपि॥६४॥
द्वादश्या ह्युत्तमं पुण्यं माहात्म्यं यः पठेन्नरः।
शृणुयाद्वा मुनिश्रेष्ठ स याति परमां गतिम्॥६५॥
राजर्षिरम्बरीषोऽपि चकारैतद्व्रतं शुभम्।
यथाविधि तपोनिष्ठस्तेन मोक्षमवाप्तवान्॥६६॥

आदितः श्लोकाः — १६७४
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
प्रबोधोत्सवद्वादशीतिथिकृत्यवर्णनं
नाम त्रयस्त्रिंशोऽध्यायः॥३३॥