अथ त्रिंशोऽध्यायः
नारद उवाच
अद्भुतोऽयं त्वया प्रोक्तो महिमा कार्तिकस्य तु।
स्वस्य कर्तुमसामर्थ्यं कथमेतत्कृतं भवेत्॥१॥
ब्रह्मोवाच
नास्ति कर्तुं स्वसामर्थ्यमुपायात्प्राप्यते फलम्।
द्रव्यं दत्त्वा ब्राह्मणाय गृह्णीयात्फलमुत्तमम्॥२॥
शिष्याद् वा भृत्यवर्गाद् वा स्त्रीभ्यो वाऽऽप्ताच्च कारयेत्।
तस्मादपि फलं गृह्णन्फलभाग्जायते नरः॥३॥
नारद उवाच
अदत्तान्यपि पुण्यानि प्राप्यन्ते केनचित्क्वचित्।
एतदिच्छाम्यहं श्रोतुं कौतुकं मम वर्तते॥४॥
ब्रह्मोवाच
अदत्तान्यपि पुण्यानि लभन्ते पातकान्यपि।
येनोपायेन तद्वच्मि शृणुष्वैकमना द्विज॥५॥
सुकृतं वा दुष्कृतं वा कृतमेकेन यत्कृते।
जायते तस्य तद्राष्ट्रे त्रेतायां तु पुरो भवेत्॥६॥
द्वापरे वंशमध्ये तु कलौ कर्तैव केवलम्।
अज्ञानाद्यत्कृतं कर्म बाल्ये स्वप्ने तु तत्फलम्॥७॥
अज्ञानाद्यच्च तारुण्ये बाल्ये तस्य फलं भवेत्।
ज्ञानपूर्वं कृतं कर्म आजन्मान्तं च तत्फलम्॥८॥
षण्मासं पापिसङ्गेन नरः पापी प्रजायते।
पापिनां वा धर्मिणां वा संसर्गाद्दशमासिकम्॥९॥
भोजनादेकपङ्क्तौ च विंशांशः पुण्यपापयोः।
एकासने द्वयोर्वासात्सहस्रांशेन लिप्यते॥१०॥
यो वै यस्यान्नमश्नाति स भुङ्क्ते तस्य किल्बिषम्।
जपादौ पापिसंसर्गात्षोडशांशो विनश्यति॥११॥
परस्य स्तवनाद्यानादेकपात्रस्थभोजनात्।
एकशय्याप्रावरणात्षष्ठांशः पुण्यपापयोः॥१२॥
पुरुषो हरते सर्वं भार्याया औरसस्य च।
अर्धं शिष्याच्चतुर्थांशं पापं पुण्यं तथैव च॥१३॥
भर्तुराज्ञाकरी नारी भर्तुरर्धं वृषं हरेत्।
यद्धस्तपक्वं भुञ्जीयाद्दशांशं तदघं हरेत्॥१४॥
वर्षाशनं तु यो दत्ते तदर्धाघस्य भागयम्।
वर्षाशनार्धं पुण्यं तु भुङ्क्ते वर्षाशनी नरः॥१५॥
पुरोहितस्य षष्ठांशं पापं वा पुण्यमेव वा।
यजमानो भुनक्त्येव तद्दशांशं पुरोहितः॥१६॥
उद्योगी चानुमन्ता च यश्चोपकरणप्रदः।
षष्ठांशं पुण्यपापानामुपद्रष्टा दशांशकम्॥१७॥
यद्धस्तात्कार्यते कर्म नान्नमस्मै प्रयच्छति।
विना भृतकशिष्याभ्यां षष्ठांशं पुण्यमाहरेत्॥१८॥
व्यवहारात्तथा प्रीत्या नित्यं सम्भाषणादिभिः।
दशांशं पुण्यपापानां लभते नात्र संशयः॥१९॥
संसर्गपुण्ययोगेन एकदन्तो द्विजाधमः।
नरकान्विविधान्दृष्ट्वा स्वर्गं प्राप तदैव हि॥२०॥
नारद उवाच
ईदृशं कार्तिकव्रतमल्पायासं महत्फलम्।
न कुर्वन्ति जनाः केचित्किमर्थं वै पितामह॥२१॥
ब्रह्मोवाच
स्वसृष्टिवृद्धये वेधा धर्माधर्मौ ससर्ज ह।
धर्ममेवानुतिष्ठन्तः प्राप्नुवन्ति शुभां गतिम्॥२२॥
अधर्ममनुतिष्ठन्तो यान्ति तेऽधोगतिं नराः।
पुण्यकर्मफलं नाको नरकस्तद्विपर्ययः॥२३॥
तयोः पालनकर्तारौ द्वावेव विधिना कृतौ।
शतक्रतुयमौ तौ च पुण्यपापानुसारिणौ॥२४॥
गुरुतल्पादयः पुत्राः कामस्य प्रथिता भुवि।
क्रोधस्य पितृघाताद्या लोभस्य तनयाञ्छृणु॥२५॥
ब्रह्मस्वहरणाद्याश्च एते नरकनायकाः।
कृता यमेन तैर्व्याप्ता मनुजा न हि कुर्वते॥२६॥
व्रतादिधर्मकृत्यं यैस्तैर्मुक्तास्ते हि कुर्वते॥२७॥
श्रद्धा मेधा विघातिन्यौ वर्तेते भुवि सर्वदा।
ताभ्यां व्याप्तस्तु मनुजः श्रीविष्णोः श्रवणादिकम्॥२८॥
न करोति सुदुर्मेधा येनान्धं याति वै तमः।
कृष्णेन सत्यभामायै यदुक्तं तद्वदामि ते॥२९॥
अध्यापनाद्याजनाद्वाऽप्येकपङ्क्त्यशनादपि।
तुर्यांश पुण्यपापानां परोक्षं लभते नरः॥३०॥
एकासनादेकयानान्निश्वासस्याङ्गसङ्गतः।
षडंशं फलभागी स्यान्नियतं पुण्यपापयोः॥३१॥
स्पर्शनाद् भाषणाद् वाऽपि परस्य स्तवनादपि।
दशांशं पुण्यपापानां नित्यं प्राप्नोति मानवः॥३२॥
दर्शनश्रवणाभ्यां च मनोध्यानात्तथैव च।
परस्य पुण्यपापानां शतांशं प्राप्नुयान्नरः॥३३॥
परस्य निन्दां पैशुन्यं धिक्कारं च करोति यः।
तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददाति सः॥३४॥
कुर्वतः पुण्यकर्माणि सेवां यः कुरुते नरः।
पत्नीभृतकशिष्येभ्यो यदन्यः कोऽपि मानवः॥३५॥
तस्य सेवानुरूपं च द्रव्यं किञ्चिन्न दीयते।
सोऽपि सेवानुरूपेण तत्पुण्यफलभाग्भवेत्॥३६॥
एकपङ्क्तिस्थितं यस्तु लङ्घयेत्परिवेषणम्।
तत्पुण्यस्य षडंशं च लभेद्यस्तु विलङ्घितः॥३७॥
स्नानसन्ध्यादिकं कुर्वन्यः स्पृशेद्वाऽथ भाषते।
स कर्मपुण्यषष्ठांशं दद्यात्तस्मै विनिश्चितम्॥३८॥
धर्मोद्देशेन यो द्रव्यमपरं याचते नरः।
तत्पुण्यकर्मजं तस्य धनदस्त्वाप्नुयात्फलम्॥३९॥
अपहृत्य परद्रव्यं पुण्यकर्म करोति यः।
कर्मकृत्पापभाक्तत्र धनिनस्तद्भवं फलम्॥४०॥
नापकृत्य ऋणं यस्तु परस्य म्रियते नरः।
धनी तत्पुण्यमादत्ते तद्धनस्यानुरूपतः॥४१॥
बुद्धिदाताऽनुमन्ता च यश्चोपकरणप्रदः।
बलकृच्चापि षष्ठांशं प्राप्नुयात्पुण्यपापयोः॥४२॥
प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमुद्धरेत्।
शिष्याद्गुरुः स्त्रियो भर्ता पिता पुत्रात्तथैव च॥४३॥
स्वपतेरपि पुण्यस्य योषिदर्धमवाप्नुयात्।
चित्तस्यानुव्रता शश्वद् वर्तते तुष्टिकारिणी॥४४॥
परहस्तेन दानादि कुर्वतः पुण्यकर्मणः।
विना भृतकपुत्राभ्यां कर्ता षष्ठांशमुद्धरेत्॥४५॥
वृत्तिदो वृत्तिसम्भोक्तुः पुण्यं षष्ठांशमुद्धरेत्।
आत्मनो वा परस्यापि यदि सेवां न कारयेत्॥४६॥
इत्थं ह्यदत्तान्यपि पुण्यपापा-
न्यायान्ति नित्यं परसञ्चितानि।
कलौ त्वयं वै नियमो न कार्यः
कर्तैव भोक्ता खलु पुण्यपापयोः॥४७॥
कलौ ज्ञानं दृढं नास्ति कलौ गर्वेण सत्क्रिया।
कलौ दम्भान्वितो योगो नश्यत्येव न संशयः॥४८॥
तपोनिष्ठः पुरा दम्भी सती शुद्धप्रभावतः।
पित्रोः पूजादर्शनेन चोर्जसेवी परं गतः॥४९॥
नारद उवाच
भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्।
विधिं मासोपवासस्य फलं चास्य यथोचितम्॥५०॥
ब्रह्मोवाच
साधु नारद सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ।
भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम॥५१॥
सुराणां च यथा विष्णुस्तपतां च यथा रविः।
मेरुः शिखरिणां यद्वद्वैनतेयश्च पक्षिणाम्॥५२॥
श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम्।
सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि॥५३॥
सर्वदानोद्भवं चैव यज्ञैश्च भूरिदक्षिणैः।
न तत्पुण्यमवाप्नोति यन्मासपरिलङ्घनात्॥५४॥
गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम्।
अतिकृच्छ्रं च पाराकं कृत्वा चान्द्रायणं ततः॥५५॥
मासोपवासं कुर्वीत ज्ञात्वा देहबलाबलम्।
वानप्रस्थो यतिर्वाऽपि नारी वा विधवा मुने॥५६॥
मासोपवासं कुर्वीत गुरोर्विप्राज्ञया ततः।
आश्विनस्यामले पक्षे एकादश्यामुपोषितः॥५७॥
व्रतमेतत्तु गृह्णीयाद्यावत् त्रिंशद्दिनानि तु।
अच्युतस्याऽऽलये भक्त्या त्रिकालं पूजयेद्धरिम्॥५८॥
नैवेद्यधूपदीपाद्यैः पुष्पैर्नानाविधैरपि।
मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम्॥५९॥
नरः स्वधर्मनिरतः सधवा च जितेन्द्रिया।
नारी वा विधवा साध्वी वासुदेवं समर्चयेत्॥६०॥
वस्त्वालोकनगन्धादिस्वादितं परिकीर्तितम्।
अन्यस्य वर्जयेद्वासं ग्रासानां सम्प्रमोक्षणम्॥६१॥
गात्राभ्यङ्गं शिरोभ्यङ्गं ताम्बूलं सविलेपनम्।
व्रतस्थो वर्जयेत्सर्वं यच्चान्यच्च निराकृतम्॥६२॥
न व्रतस्थः स्पृशेत्कञ्चिद्विकर्मस्थं न चालपेत्।
देवतायतने तिष्ठन्गृहस्थश्चाऽऽचरेद्व्रतम्॥६३॥
कृत्वा मासोपवासं तु यथोक्तविधिना नरः।
अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिति॥६४॥
ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम्।
वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान्॥६५॥
दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत्।
विप्रान्क्षमापयित्वा तु विसृज्याभ्यर्च्य पूज्य च॥६६॥
एवं मासोपवासान्ते वृत्वा विप्रांस्त्रयोदश।
कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः॥६७॥
ततोऽनुभोजयेद्विप्रान्नमस्कारपुरःसरम्।
ताम्बूलवस्त्रयुग्मानि भोजनाच्छादनानि च॥६८॥
योगपट्टानि सूत्राणि शय्यां सोपस्करां तथा।
दत्त्वा चैव द्विजाग्र्येभ्यः पूजयित्वा विसर्जयेत्॥६९॥
विधिर्मासोपवासस्य यथावत्परिकीर्तितः।
अतःपरं प्रवक्ष्यामि नवम्यादितिथौ विधि॥७०॥
ऋषिभ्यो वालखिल्यैश्च प्रोक्तं तं शृणु नारद॥७१॥
आदितः श्लोकाः — १५११
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
दत्तपुण्यपापफलप्राप्तिवर्णनपूर्वकं मासोपवासव्रतविधिकथनं
नाम त्रिंशोऽध्यायः॥३०॥
❀