अथ एकोनत्रिंशोऽध्यायः

श्रीकृष्ण उवाच

इति तद्वचनं श्रुत्वा पृथुर्विस्मितमानसः।
सम्पूज्य नारदं सम्यग्विससर्ज तदा प्रिये॥१॥
पुराऽवन्तीपुरे कश्चिद्विप्र आसीद्धनेश्वरः।
ब्रह्मकर्मपरिभ्रष्टः पापकर्मा सुदुर्मतिः॥२॥
देशाद्देशातरं गच्छन्क्रयविक्रयकारणात्।
माहिष्मतीपुरीमागात्कदाचित्स धनेश्वरः॥३॥
महिषेण कृता पूर्वं तस्मान्माहिष्मतीति सा।
यस्या वप्रगता भाति नर्मदा पापनाशिनी॥४॥
कार्तिकव्रतिनस्तत्र नानादेशागतान्नरान्।
स दृष्ट्वा विक्रयं कुर्वन्मासमेकमुवास सः॥५॥
स नित्यं नर्मदातीरे भ्रमन्विक्रयकारणात्।
ददर्श ब्राह्मणान्स्नानजपदेवार्चने स्थितान्॥६॥
कांश्चित्पुराणं पठतः कांश्चिच्च श्रवणे रतान्।
नृत्यगायनवादित्रविष्णुश्रवणतत्परान्॥७॥
उद्यापनविधौ सक्तान्कांश्चिज्जागरणे रतान्।
विप्रगोपूजनरतान्दीपदानरतांस्तथा॥८॥
ददर्श कौतुकाविष्टस्तत्र तत्र धनेश्वरः।
नित्यं परिभ्रमंस्तत्र दर्शनस्पर्शभाषणात्॥९॥
वैष्णवानां तथा विष्णोर्नामश्रावादि सोऽलभत्।
एवं मासं स्थितस्तस्या नर्मदायास्तटे द्विजः॥१०॥
तावत्कृष्णाहिना दष्टो विह्वलः स पपात ह।
अथ देहपरित्यक्तं तं बद्ध्वा यमकिङ्कराः॥११॥
यमाज्ञया कुम्भिपाके चिक्षिपुस्तं धनेश्वरम्।
यावत्क्षिप्तश्च तत्रासौ तावच्छीतलतां ययौ॥१२॥
कुम्भीपाको यथा वह्निः प्रह्लादक्षेपणात्पुरा।
यमस्तु कौतुकं दृष्ट्वा पप्रच्छाऽऽनीय तं ततः॥१३॥
तावदभ्यागतस्तत्र नारदः प्राह सत्वरम्।

नारद उवाच

नैवायं निरयान्भोक्तुमर्हो ह्यरुणनन्दन॥१४॥
यस्मादन्तेऽस्य सञ्जातं कर्म यन्निरयापहम्।
यः पुण्यकर्मिणां कुर्याद्दर्शनस्पर्शभाषणम्॥१५॥
ततः षडंशमाप्नोति पुण्यस्य नियतं नरः।
सख्यं तु तैस्तु संसर्गं कृतवान्वै धनेश्वरः॥१६॥
कार्तिकव्रतिभिर्मासं तेषां पुण्यांशभागयम्॥१७॥
तस्मादकामपुण्यो हि यक्षयोनिस्थितो ह्ययम्।
विलोक्य निरयान्सर्वान् पापभोगप्रदर्शकान्॥१८॥

श्रीकृष्ण उवाच

इत्युक्त्वा गतवति नारदे स सौरि-
स्तद् वाक्यश्रवणविबुद्धतत्सुकर्मा।
तं विप्रं पुनरनयत्स्वकिङ्करेण
तान्सर्वान्निरयगणान् प्रदर्शयिष्यन्॥१९॥
ततो धनेश्वरं नीत्वा निरयान् प्रेतपोऽब्रवीत्।
दर्शयिष्यंस्तु तान्सर्वान्यमानुज्ञाकरस्तदा॥२०॥

प्रेतप उवाच

पश्येमान्निरयान्घोरान्धनेश्वर महाभयान्।
एषु पापकरा नित्यं पच्यन्ते यमकिङ्करैः॥२१॥
अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम्।
आर्द्रशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान्॥२२॥
चतुराशीतिसङ्ख्याकैः पृथग्भेदैरवस्थितान्।
यत्प्रकीर्णमपाङ्क्तेयं मलिनीकरणं तथा॥२३॥
जातिभ्रंशकरं तद्वदुपपातकसंज्ञकम्।
अतिपापं महापापं सप्तधा पातकं स्मृतम्॥२४॥
एभिः सप्तसु पच्यन्ते निरयेषु यथाक्रमम्।
कार्तिकव्रतिभिर्यस्मात्संसर्गो ह्यभवत् तव॥२५॥
तत्पुण्योपचयादेते निर्हृता निरयाः खलु।

श्रीकृष्ण उवाच

दर्शयित्वेति निरयान् प्रेतपस्तमथाहरत्॥२६॥
धनेश्वरं यक्षलोकं यक्षश्चाभूत्स तत्र हि।
धनदस्यानुगः सोऽयं धनयक्षेति विश्रुतः॥२७॥

सूत उवाच

इत्युक्त्वा वासुदेवोऽसौ सत्यभामामतिप्रियम्।
सायं सन्ध्याविधिं कर्तुं जगाम जननीगृहम्॥२८॥

ब्रह्मोवाच

एवं प्रभावः खलु कार्तिकोऽयं
मुक्तिप्रदो भुक्तिकरश्च यस्मात्।
प्रयान्त्यनेकाऽर्जितपातकानि
व्रतस्य सन्दर्शयतोऽपि मुक्तिम्॥२९॥

आदितः श्लोकाः — १४४०
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
धनेश्वरयक्षजन्मप्राप्तिवर्णनं
नामैकोनत्रिंशोऽध्यायः॥२९॥