अथ अष्टाविंशोऽध्यायः
धर्मदत्त उवाच
जयश्च विजयश्चैव विष्णोर्द्वास्थौ श्रुतौ मया।
किं नु ताभ्यां पुरा चीर्णं तस्मात् तद्रूपधारिणौ॥१॥
गणावूचतुः
तृणबिन्दोस्तु कन्यायां देवहूत्यां पुरा द्विज।
कर्दमस्य तु दृष्ट्यैव पुत्रौ द्वौ सम्बभूवतुः॥२॥
ज्येष्ठो जयः कनिष्ठोऽभूद्विजयश्चैव नामतः।
तस्यामेवाऽभवत्पश्चात्कपिलो योगधर्मवित्॥३॥
जयश्च विजयश्चैव विष्णुभक्तिरतौ सदा।
तौ तन्निष्ठेन्द्रियग्रामौ धर्मशीलौ बभूवतुः॥४॥
नित्यमष्टाक्षरीजाप्यौ विष्णुव्रतकरावुभौ।
साक्षात्कारं ददौ विष्णुस्तयोर्नित्यार्चने सदा॥५॥
मरुत्तेन कदाचित्तावाहूतौ यज्ञकर्मणि।
जग्मतुर्यज्ञकुशलौ देवर्षिगणपूजितौ॥६॥
जयस्तत्राभवद्ब्रह्मायाजको विजयोऽभवत्।
ततो यज्ञविधिं कृत्स्नं परिपूर्णं च चक्रतुः॥७॥
मरुत्तोऽवभृथस्नातस्ताभ्यां वित्तं ददौ बहु।
तत्समादाय तौ वित्तं जग्मतुः स्वाश्रमं प्रति॥८॥
यजनाय पृथग्विष्णोस्तुष्ट्यर्थं तौ ततो मुनी।
तद्धनं विभजन्तौ तु पस्पर्धाते परस्परम्॥९॥
जयोऽब्रवीत्समो भागः क्रियतामिति तत्र सः।
विजयश्चाब्रवीन्नैतद्यल्लब्धं येन तस्य तत्॥१०॥
ततोऽशपज्जयः क्रोधाद्विजयं लुब्धमानसम्।
गृहीत्वा न ददास्येतत्तस्माद्ग्राहो भवेति तम्॥११॥
विजयस्तस्य तं शापं श्रुत्वा सोऽप्यशपच्च तम्।
मदभ्रान्तोऽशपस्त्वं मां तस्मान्मातङ्गतां व्रज॥१२॥
तत्तदाचख्यतुर्विष्णुं दृष्ट्वा नित्यार्चने विभुम्।
शापयोश्च निवृत्तिं तौ ययाचाते रमापतिम्॥१३॥
जयविजयावूचतुः
भक्तावावां कथं देव ग्राहमातङ्गयोनिगौ।
भविष्यावः कृपासिन्धो तच्छापो विनिवर्त्यताम्॥१४॥
श्रीभगवानुवाच
मद्भक्तयोर्वचोऽसत्यं न कदाचिद्भविष्यति।
मयाऽपि नान्यथा कर्तुं शक्यते तत्कदाचन॥१५॥
प्रह्लादवचसा स्तम्भेऽप्याविर्भूतो ह्यहं पुरा।
तथाऽम्बरीषवाक्येन जातो गर्भे स्वयं किल॥१६॥
तस्माद्युवामिमौ शापावनुभूय स्वयङ्कृतौ।
लभेथां मत्पदं नित्यमित्युक्त्वाऽन्तर्दधे हरिः॥१७॥
गणावूचतुः
ततस्तौ ग्राहमातङ्गावभूतां गण्डकीतटे।
जातिस्मरौ तु तद्योन्यामपि विष्णुव्रते स्थितौ॥१८॥
कदाचित्स गजः स्नातुं कार्तिके गण्डकीं गतः।
तावज्जग्राह तं ग्राहः संस्मरञ्च्छापकारणम्॥१९॥
ग्राहग्रस्तो ह्यसौ नागः सस्मार श्रीपतिं तदा।
तावदाविरभूद्विष्णुश्चक्रशङ्खगदाधरः॥२०॥
ततस्तौ ग्राहमातङ्गौ चक्रं क्षिप्त्वा समुद्धृतौ।
दत्त्वैव निजसारूप्यं वैकुण्ठमनयद्विभुः॥२१॥
ततःप्रभृति तत्स्थानं हरिक्षेत्रमितिस्मृतम्।
चक्रसङ्घर्षणाद्यस्मिन्ग्रावाणोऽपि हि लाञ्छिताः॥२२॥
तावुभौ विश्रुतौ लोके जयश्च विजयस्तथा।
नित्यं विष्णुप्रियौ द्वाःस्थौ पृष्टौ यौ हि त्वया द्विज॥२३॥
अतस्त्वमपि धर्मज्ञ नित्यं विष्णुव्रते स्थितः।
त्यक्तमात्सर्यदम्भोऽपि भवस्व समदर्शनः॥२४॥
तुलामकरमेषेषु प्रातःस्नायी सदा भव।
एकादशीव्रते तिष्ठ तुलसीवनपालकः॥२५॥
ब्राह्मणानथ गाश्चापि वैष्णवांश्च सदा भज।
मसूरिकामारनालं वृन्ताकान्यपि खाद मा॥२६॥
एवं त्वमपि देहान्ते तद्विष्णोः परमं पदम्।
प्राप्नोषि धर्मदत्त त्वं तद्भक्त्यैव यथा वयम्॥२७॥
तावज्जन्म व्रतादस्माद्विष्णुसन्तुष्टिकारकात्।
न यज्ञा न च दानानि न तीर्थान्यधिकानि वै॥२८॥
धन्योऽसि विप्राग्र्य यतस्त्वयैतद्
व्रतं कृतं तुष्टिकरं जगद्गुरोः।
यदर्धभागाप्तफला मुरारेः
प्रणीयतेऽस्माभिरियं सलोकताम्॥२९॥
नारद उवाच
इत्थं तौ धर्मदत्तं तमुपदिश्य विमानगौ।
तया कलहया सार्धं वैकुण्ठभवनं गतौ॥३०॥
धर्मदत्तो ह्यसौ जातप्रत्ययस्तद्व्रते स्थितः।
देहान्ते तद्विभोः स्थानं भार्याभ्यां संयुतोऽभ्ययात्॥३१॥
इतिहासमिमं पुराभवं।
शृणुते श्रावयते च यः पुमान्॥३२॥
हरिसन्निधिकारणीं मतिं
लभतेऽसौ कृपया जगद्गुरोः
आदितः श्लोकाः — १४११
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
धर्मदत्तमोक्षप्राप्तिकथनं
नामाष्टाविंशोऽध्यायः॥२८॥
❀