अथ सप्तविंशोऽध्यायः

नारद उवाच

कदाचिद्विष्णुदासोऽथ कृत्वा नित्यविधिं द्विज।
स पाकमकरोत्तावदहरत्कोऽप्यलक्षितः॥१॥
तमदृष्ट्वाऽप्यसौ पाकं पुनर्नैवाकरोत्तदा।
सायङ्कालार्चनस्यासौ व्रतभङ्गभयाद् द्विजः॥२॥
द्वितीयेऽह्नि पुनः पाकं कृत्वा यावत्स विष्णवे।
उपहारार्पणं कर्तुं गतः कोऽप्यहरत्पुनः॥३॥
एवं सप्तदिनं तस्य पाकं कोऽप्यहरन्नृप।
ततः सविस्मयश्चाथ मनस्येवमधारयत्॥४॥
अहो नित्यं समभ्येत्य कः पाकं हरते मम।
क्षेत्रसन्न्यासिनः स्थानं न त्याज्यं मम सर्वथा॥५॥
पुनः पाकं विधायात्र भुज्यते यदि चेन्मया।
सायङ्कालार्चनं चैव परित्याज्यं कथं भवेत्॥६॥
यदि पाकं विधायैवं भोक्तव्यं तु मया न तत्।
अनिवेद्य हरौ सर्वं वैष्णवैर्नैव भुज्यते॥७॥
उपोषितोऽहं सप्ताहं तिष्ठाम्यत्र व्रतस्थितः।
अद्य संरक्षणं सम्यक्पाकस्यात्र करोम्यहम्॥८॥
इति पाकं विधायासौ तत्रैवालक्षितः स्थितः।
तावद्ददर्श चण्डालं पाकान्नहरणे स्थितम्॥९॥
क्षुत्क्षामं दीनवदनमस्थिचर्मावशेषितम्।
तमालोक्य द्विजाग्र्योऽभूत्कृपयाऽन्वितमानसः॥१०॥
विलोक्यान्नहरं विप्रस्तिष्ठतिष्ठेत्यभाषत।
कथमश्नासि तद्रूक्षं घृतमेतद्गृहाण भोः॥११॥
इत्थं वदन्तं विप्राग्र्यमायान्तं स विलोक्य च।
वेगादधावत्तद्भीत्या मूर्च्छितश्च पपात ह॥१२॥
भीतं सम्मूर्च्छितं दृष्ट्वा चण्डालं स द्विजाग्रणीः।
वेगादभ्येत्य कृपया स्ववस्त्रान्तैरवीजयत्॥१३॥
अथोत्थितं तमेवासौ विष्णुदासो व्यलोकयत्।
साक्षान्नारायणं देवं शङ्खचक्रगदाधरम्॥१४॥
तं दृष्ट्वा सात्त्विकैर्भावैरावृतो द्विजसत्तमः।
स्तोतुं चैव नमस्कर्तुं तदा नालं बभूव सः॥१५॥
अथ शक्रादयो देवास्तत्रैवाभ्याययुस्तदा।
गन्धर्वाप्सरसश्चापि जगुश्च ननृतुर्मुदा॥१६॥
विमानशतसङ्कीर्णं देवर्षिशतसङ्कुलम्।
गीतवादित्रनिर्घोषं स्थानं तदभवत्तदा॥१७॥
ततो विष्णुः समालिङ्ग्य स्वभक्तं सात्त्विकव्रतम्।
सारूप्यमात्मनो दत्त्वाऽनयद्वैकुण्ठमन्दिरम्॥१८॥
विमानवरसंस्थं तं गच्छन्तं विष्णुसन्निधिम्।
दीक्षितश्चोलनृपतिर्विष्णुदासं ददर्श सः॥१९॥
वैकुण्ठभुवनं यान्तं विष्णुदासं विलोक्य सः।
स्वगुरुं मुद्गलं वेगादाहूयेत्थं वचोऽब्रवीत्॥२०॥

चोल उवाच

यत्स्पर्धया मया चैव यज्ञदानादिकं कृतम्।
स विष्णुरूपधृग्विप्रो याति वैकुण्ठमन्दिरम्॥२१॥
दीक्षितेन मया सम्यक्सत्रेऽस्मिन्वैष्णवे त्वया।
हुतमग्नौ कृता विप्रा दानाद्यैः पूर्णमानसाः॥२२॥
नैवाद्यापि स मे देवः प्रसन्नो जायते ध्रुवम्।
विष्णुदासस्य भक्त्यैव साक्षात्कारं ददौ हरिः॥२३॥
तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदति।
भक्तिरेव परं तस्य निदानं दर्शने विभोः॥२४॥

गणावूचतुः

इत्युक्त्वा भागिनेयं स्वमभ्यषिञ्चन्नृपासने।
आबाल्याद्दीक्षितो यज्ञे ह्यपुत्रत्वमगाद्यतः॥२५॥
तस्मादद्यापि तद्देशे सदा राज्यांशभागिनः।
स्वस्रेया एव जायन्ते तत्कृतावधिवर्तिनः॥२६॥
यज्ञवाटं ततोऽभ्येत्य यज्ञकुण्डाग्रतः स्थितः।
त्रिरुच्चैर्व्याजहाराऽऽशु विष्णुं सम्बोधयंस्तदा॥२७॥
विष्णो भक्तिं स्थिरां देहि मनोवाक्कायकर्मभिः।
इत्युक्त्वा सोऽपतद्वह्नौ सर्वेषामेव पश्यताम्॥२८॥
मुद्गलस्तु तदा क्रोधाच्छिखामुत्पाटयत्स्वकाम्।
ततस्त्वद्यापि तद्गोत्रे मुद्गला विशिखा बभुः॥२९॥
तावदाविरभूद्विष्णुः कुण्डाग्नौ भक्तवत्सलः।
तमालिङ्ग्य विमानाग्र्यं समारोहयदच्युतः॥३०॥
तमालिङ्ग्याऽऽत्मसारूप्यं दत्त्वा वैकुण्ठमन्दिरम्।
तेनैव सह देवेशो जगाम त्रिदशैर्वृतः॥३१॥

नारद उवाच

यो विष्णुदासः स तु पुण्यशीलो
यश्चोलभूपः स सुशीलनामा।
एतावुभौ तत्समरूपभाजौ
द्वाःस्थौ कृतौ तेन रमाप्रियेण॥३२॥

आदितः श्लोकाः — १३७९
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
चोलविष्णुदासमुक्तिकथनं
नाम सप्तविंशोऽध्यायः॥२७॥