अथ षड्विंशोऽध्यायः
नारद उवाच
इत्थं तद्वचनं श्रुत्वा धर्मदत्तः सविस्मयः।
प्रणम्य दण्डवद्भूमौ वाक्यमेतदुवाच ह॥१॥
धर्मदत्त उवाच
आराधयन्ति सर्वेऽपि विष्णुं भक्तार्तिनाशनम्।
यज्ञैर्दानैर्व्रतैस्तीर्थैस्तपोभिश्च यथाविधि॥२॥
विष्णुप्रीतिकरं तेषां किञ्चित्सान्निध्यकारकम्।
यत्कृत्वा तानि चीर्णानि सर्वाण्यपि भवन्ति हि॥३॥
गणावूचतुः
साधु पृष्टं त्वया विप्र शृणुष्वैकाग्रमानसः।
सेतिहासकथां पुण्यां कथ्यमानां पुराभवाम्॥४॥
काञ्चिपुर्यां पुरा चोलश्चक्रवर्ती नृपोऽभवत्।
यस्याख्ययैव ते देशाश्चोला इति प्रथां गताः॥५॥
यस्मिञ्छासति भूचक्रं दरिद्रो वाऽपि दुःखितः।
पापबुद्धिः सरुग्वाऽपि नैव कश्चिदभून्नरः॥६॥
यस्याप्युन्नतयज्ञस्य ताम्रपर्ण्यास्तटावुभौ।
सुवर्णयूपैः शोभाढ्यावास्तां चैत्ररथोपमौ॥७॥
स कदाचिदगाद्राजा ह्यनन्तशयनं द्विज।
यत्रासौ जगतां नाथो योगनिद्रामुपाश्रितः॥८॥
तत्र श्रीरमणं देवं सम्पूज्य विधिवन्नृपः।
मणिमुक्ताफलैर्दिव्यैः स्वर्णपुष्पैश्च शोभनैः॥९॥
प्रणम्य दण्डवद्भूमावुपविष्टः स तत्र वै।
तावद्ब्राह्मणमायातमपश्यद् देवसन्निधौ॥१०॥
देवार्चनार्थं पाणौ तु तुलस्युदकधारिणम्।
स्वपुरीवासिनं तत्र विष्णुदासाह्वयं द्विजम्॥११॥
स तत्राभ्येत्य विप्रर्षिर्देवदेवमपूजयत्।
विष्णुसूक्तेन संस्नाप्य तुलसीमञ्जरीदलैः॥१२॥
तुलसीपूजया तस्य रत्नपूजां पुरा कृताम्।
आच्छादितां समालोक्य राजा क्रुद्धोऽब्रवीदिदम्॥१३॥
चोल उवाच
माणिक्यस्वर्णपूजाऽत्र शोभाढ्या या कृता मया।
विष्णुदास कथं सेयमाच्छन्ना तुलसीदलैः॥१४॥
विष्णुभक्तिं न जानासि वराकोऽसि मतो मम।
यस्त्विमामतिशोभाढ्यां पूजामाच्छादयस्यहो॥१५॥
इति तद्वचनं श्रुत्वा सक्रोधः स द्विजोत्तमः।
राज्ञो गौरवमुल्लङ्घ्य जगाद वचनं तदा॥१६॥
विष्णुदास उवाच
राजन्भक्तिं न जानासि गर्वितोऽसि नृपश्रिया।
कियद्विष्णुव्रतं पूर्वं त्वया चीर्णं वदस्व तत्॥१७॥
गणावूचतुः
तद्ब्राह्मणवचः श्रुत्वा प्रहस्य स नृपोत्तमः।
विष्णुदासं तदा गर्वादुवाच वचनं द्विजम्॥१८॥
राजोवाच
इत्थं चेद्वदसे विप्र विष्णुभक्त्याऽतिगर्वितः।
भक्तिस्ते कियती विष्णोर्दरिद्रस्याऽधनस्य च॥१९॥
यज्ञदानादिकं नैव विष्णोस्तुष्टिकरं कृतम्।
नापि देवालयं पूर्वं कृतं विप्र त्वया क्वचित्॥२०॥
ईदृशस्यापि ते गर्व एष तिष्ठति भक्तितः।
तच्छृण्वन्तु वचो मेऽद्य सर्वेऽप्येते द्विजातयः॥२१॥
साक्षात्कारमहं विष्णोरेष वादो गमिष्यति।
पश्यन्तु सर्वेऽपि ततो भक्तिं ज्ञास्यन्ति चाऽऽवयोः॥२२॥
गणावूचतुः
इत्युक्त्वा स नृपोऽगच्छन्निजराजगृहं तदा।
आरभद्वैष्णवं सत्रं कृत्वाऽऽचार्यं तु मुद्गलम्॥२३॥
ऋषिसङ्घसमाजुष्टं बह्वन्नं बहुदक्षिणम्।
यच्च ब्रह्मकृतं पूर्वं गयाक्षेत्रे समृद्धिमत्॥२४॥
विष्णुदासोऽपि तत्रैव तस्थौ देवालये व्रती।
यथोक्तनियमान्कुर्वन् विष्णोस्तुष्टिकरान्सदा॥२५॥
माघोर्जयोर्व्रतं सम्यक्तुलसीवनपालनम्।
एकादश्यां हरेर्जाप्यं द्वादशाक्षरविद्यया॥२६॥
उपचारैः षोडशभिर्नृत्यगीतादिमङ्गलैः।
नित्यं विष्णोस्तथा पूजां व्रतान्येतानि सोऽकरोत्॥२७॥
नित्यं संस्मरणं विष्णोर्गच्छन्भुवि स्वपन्नपि।
सर्वभूतस्थितं विष्णुमपश्यत्समदर्शनः॥२८॥
माघकार्तिकयोर्नित्यं विशेषनियमानपि।
अकरोद्विष्णुतुष्ट्यर्थं सोद्यापनविधिं तथा॥२९॥
एवं समाराधयतोः श्रियः पतिं
तयोश्च चोलेश्वरविष्णुदासयोः।
अगाद्धि कालः सुमहान्व्रतस्थयो-
स्तन्निष्ठसर्वेन्द्रियकर्मणोस्तदा॥३०॥
आदितः श्लोकाः — १३४७
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
चोलराजविष्णुदासब्राह्मणविवादकथनं
नाम षड्विंशोऽध्यायः॥२६॥
❀