अथ पञ्चविंशोऽध्यायः
धर्मदत्त उवाच
विलयं यान्ति पापानि तीर्थे दानव्रतादिभिः।
प्रेतदेहस्थितायास्ते तेषु नैवाधिकारिता॥१॥
त्वद्ग्लानिदर्शनादस्मात्खिन्नं च मम मानसम्।
न वै निर्वृतिमायाति त्वामनुद्धृत्य दुःखिताम्॥२॥
तस्मादाजन्मचरितं यन्मया कार्तिकव्रतम्।
तत्पुण्यस्यार्धभागेन सद्गतिं त्वमवाप्नुहि॥३॥
नारद उवाच
इत्युक्त्वा धर्मदत्तोऽसौ यावत्तामभ्यषेचयत्।
तुलसीमिश्रतोयेन श्रावयन्द्वादशाक्षरम्॥४॥
तावत्प्रेतत्वनिर्मुक्ता ज्वलदग्निशिखोपमा।
दिव्यरूपधरा जाता लावण्येन यथेन्दिरा॥५॥
ततः सा दण्डवद्भूमौ प्रणनामाथ तं द्विजम्।
उवाच सा तदा वाक्यैर्हर्षगद्गदभाषिणी॥६॥
कलहोवाच
त्वत्प्रसादाद् द्विजश्रेष्ठ विमुक्ता निरयादहम्।
पापाब्धौ मज्जमानायास्त्वं नौभूतोऽसि मे ध्रुवम्॥७॥
नारद उवाच
इत्थं वदन्ती सा विप्रं ददर्शाऽऽयातमम्बरात्।
विमानं भास्वरं युक्तं विष्णुरूपधरैर्गणैः॥८॥
अथ सा तद्विमानाग्र्यं द्वाःस्थाभ्यामवरोपिता।
पुण्यशीलसुशीलाभ्यामप्सरोगणसेविता॥९॥
तद्विमानं तदाऽपश्यद्धर्मदत्तः सविस्मयः।
पपात दण्डवद्भूमौ दृष्ट्वा तौ विष्णुरूपिणौ॥१०॥
पुण्यशीलसुशीलौ च तमुत्थाप्याऽऽनतं द्विजम्।
अभिनन्द्य ततो वाक्यमूचतुर्धर्मसंयुतम्॥११॥
गणावूचतुः
साधु साधु द्विजश्रेष्ठ यस्त्वं विष्णुरतः सदा।
दीनानुकम्पी सर्वज्ञो विष्णुव्रतपरायणः॥१२॥
आ बालत्वाच्छुभं त्वेतद्यत्त्वया कार्तिकव्रतम्।
कृतं तस्यार्धदानेन पुण्यं द्वैगुण्यमागमत्॥१३॥
जन्मान्तरशतोद्भूतं पापं तद्विलयं गतम्।
स्नानैरेव गतं पापं यदस्याः पूर्वकर्मजम्॥१४॥
हरिजागरणाद्यैश्च विमानमिदमास्थिता।
वैकुण्ठे नीयते साधो नानाभोगयुता त्वियम्॥१५॥
दीपदानभवैः पुण्यैस्तेजःसारूप्यमास्थिता।
तुलसीपूजनाद्यैश्च कार्तिकव्रतकैः शुभैः।
विष्णुसान्निध्यगा जाता त्वया दत्तैः कृपानिधे॥१६॥
त्वमप्यस्य भवस्यान्ते भार्याभ्यां सह यास्यसि।
वैकुण्ठभुवनं विष्णोः सान्निध्यं च सरूपताम्॥१७॥
ते धन्याः कृतकृत्यास्ते तेषां च सफलो भवः।
यैर्भक्त्याऽऽराधितो विष्णुर्धर्मदत्त यथा त्वया॥१८॥
सम्यगाराधितो विष्णुः किं न यच्छति देहिनाम्।
औत्तानचरणिर्येन ध्रुवत्वे स्थापितः पुरा॥१९॥
यन्नामस्मरणादेव देहिनो यान्ति सद्गतिम्॥२०॥
ग्राहग्रस्तो हि नागेन्द्रो यन्नामस्मरणात्पुरा।
विमुक्तः सन्निधिं प्राप्तो जातोऽयं जयसंज्ञकः॥२१॥
यतस्त्वयाऽर्चितो विष्णुस्तत्सान्निध्यं प्रयास्यसि।
बहून्यब्दसहस्राणि भार्याद्वययुतः किल॥२२॥
ततः पुण्यक्षये जाते यदा यास्यसि भूतलम्।
सूर्यवंशोद्भवो राजा विख्यातस्त्वं भविष्यसि॥२३॥
नाम्ना दशरथस्तत्र भार्याद्वययुतः पुनः।
तृतीययाऽनया चापि या ते पुण्यार्धभागिनी॥२४॥
तत्रापि तव सान्निध्यं विष्णुर्यास्यति भूतले।
आत्मानं तव पुत्रत्वे प्रकल्प्याऽमरकार्यकृत्॥२५॥
तव जन्मव्रतादस्माद्विष्णुसन्तुष्टिकारकात्।
न यज्ञा न च दानानि न तीर्थान्यधिकानि वै॥२६॥
धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः।
यदर्धभागात्सफला मुरारेः प्रणीयतेऽस्माभिरियं सलोकताम्॥२७॥
आदितः श्लोकाः — १३१७
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
धर्मदत्तोपाख्याने कलहामोक्षकथनं
नाम पञ्चविंशोऽध्यायः॥२५॥
❀