अथ द्वाविंशोऽयायः

नारद उवाच

ततो जलन्धरो दृष्ट्वा रुद्रमद्भुतविक्रमम्।
चकार मायया गौरीं त्र्यम्बकं मोहयन्निव॥१॥
रथोपरि च तां बद्धां रुदन्तीं पार्वतीं शिवः।
निशुम्भप्रमुखाद्यैश्च वध्यमानां ददर्श सः॥२॥
गौरीं तथाविधां दृष्ट्वा शिवोऽप्युद्विग्नमानसः।
अवाङ्मुखः स्थितस्तूष्णीं विस्मृत्य स्वपराक्रमम्॥३॥
ततो जलन्धरो वेगात् त्रिभिर्विव्याध सायकैः।
आपुङ्खमग्रैस्तं रुद्रं शिरस्युरसि चोदरे॥४॥
ततो जज्ञे स तां मायां विष्णुना च प्रबोधितः।
रौद्ररूपधरो जातो ज्वालामालाऽतिभीषणः॥५॥
तस्यातीव महारौद्रं रूपं दृष्ट्वा महासुराः।
न शेकुः सम्मुखे स्थातुं भेजिरे ते दिशो दश॥६॥
ततः शापं ददौ रुद्रस्तयोः शुम्भनिशुम्भयोः।
मम युद्धादपक्रान्तौ गौर्या बध्यौ भविष्यथः॥७॥
पुनर्जलन्धरो वेगाद्ववर्ष निशितैः शरैः।
बाणान्धकारैः सञ्छन्नं तदा भूमितलं महत्॥८॥
यावद्रुद्रश्च चिच्छेद तस्य बाणगणं जवात्।
तावत्स परिघेणाऽऽशु जघान वृषभं बली॥९॥
वृषस्तेन प्रहारेण परावृत्तो रणाङ्गणात्।
रुद्रेणाऽऽकृष्यमाणोऽपि न तस्थौ रणभूमिषु॥१०॥
ततः परमसङ्क्रुद्धो रुद्रो रौद्रवपुर्धरः।
चक्रं सुदर्शनं वेगाच्चिक्षेपाऽऽदित्यवर्चसम्॥११॥
प्रदहद्रोदसी वेगात्पपात वसुधातले।
जहार तच्छिरः कायान्महदायतलोचनम्॥१२॥
रथात्कायः पपातास्य नादयन्वसुधातलम्।
तेजश्च निर्गतं देहात्तद्रुद्रे लयमागमत्॥१३॥
वृन्दादेहोद्भवं तेजस्तद्गौर्यां विलयं गतम्।
अथ ब्रह्मादयो देवा हर्षादुत्फुल्ललोचनाः॥१४॥
प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम्।

देवा ऊचुः

महादेव त्वया देवा रक्षिताः शत्रुजाद्भयात्॥१५॥
किञ्चिदन्यत्समुद्भूतं तत्र किं करवामहे।
वृन्दालावण्यसम्भ्रान्तो विष्णुस्तिष्ठति मोहितः॥१६॥

ईश्वर उवाच

गच्छध्वं शरणं देवा विष्णोर्मोहापनुत्तये।
शरण्यां मोहिनीं मायां सा वः कार्यं करिष्यति॥१७॥

नारद उवाच

इत्युक्त्वाऽन्तर्दधे देवः सर्वभूतगणैस्तदा।
देवाश्च तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम्॥१८॥

देवा ऊचुः

यदुद्भवाः सत्त्वरजस्तमोगुणाः
सर्गस्थितिध्वंसनिदानकारिणः।
यदिच्छया विश्वमिदं भवाभवौ
तनोति मूलप्रकृतिं नताः स्म ताम्॥१९॥
या हि त्रयोविंशतिभेदशब्दिता
जगत्यशेषे समधिष्ठिता परा।
यद्रूपकर्माणि जडास्त्रयोऽपि
देवा न विद्युः प्रकृतिं नताः स्म ताम्॥२०॥
यद्भक्तियुक्ताः पुरुषास्तु नित्यं
दारिद्र्यभीमोहपराभवादीन्।
न प्राप्नुवन्त्येव हि भक्तवत्सलां
सदैव मूलप्रकृतिं नताः स्म ताम्॥२१॥

नारद उवाच

स्तोत्रमेतत् त्रिसन्ध्यं यः पठेदेकाग्रमानसः।
दारिद्यमोहदुःखानि न कदाचित्स्पृशन्ति तम्॥२२॥
इत्थं स्तुवन्तस्ते देवास्तेजोमण्डलमास्थितम्।
ददृशुर्गगनं तत्र ज्वालाव्याप्तदिगन्तरम्॥२३॥
तन्मध्याद्भारतीं सर्वे शुश्रुवुर्व्योमचारिणीम्।

शक्तिरुवाच

अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः॥२४॥
गौरी लक्ष्मी स्वरा चेति रजःसत्त्वतमोगुणैः।
तत्र गच्छत ताः कार्यं विधास्यति च वः सुराः॥२५॥

नारद उवाच

शृण्वतामिति तां वाचमन्तर्धानमगान्महः।
देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा नृप॥२६॥
ततः सर्वेऽपि ते देवा गत्वा तद्वाक्यनोदिताः।
गौरीं लक्ष्मीं स्वरां चैव प्रणेमुर्भक्तितत्पराः॥२७॥
ततस्तास्तान्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलाः।
बीजानि प्रददुस्तेभ्यो वाक्यान्यूचुश्च भूमिप॥२८॥

देव्य ऊचुः

इमानि तत्र बीजानि विष्णुर्यत्रावतिष्ठते।
निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति॥२९॥

नारद उवाच

ततस्तु हृष्टाः सुरसिद्धसङ्घाः
प्रगृह्य बीजानि विचिक्षिपुस्ते।
वृन्दान्वितो भूमितले स यत्र
विष्णुः सदा तिष्ठति सौख्यहीनः॥३०॥

आदितः श्लोकाः — १२३९
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
जलन्धरमुक्तिकथनं
नाम द्वाविंशोऽध्यायः॥२२॥