अथ एकविंशोऽध्यायः

नारद उवाच

विष्णुर्जलन्धरं गत्वा तद्दैत्यपुटभेदनम्।
पातिव्रत्यस्य भङ्गाय वृन्दायाश्चाऽकरोन्मतिम्॥१॥
अथ वृन्दारका देवी स्वप्नमध्ये ददर्श ह।
भर्तारं महिषारूढं तैलाभ्यक्तं दिगम्बरम्॥२॥
कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम्।
दक्षिणाशागतं मुण्डं तमसाऽप्यावृतं तदा॥३॥
स्वपुरं सागरे मग्नं सहसैवाऽऽत्मना सह।
ततः प्रबुद्धा सा बाला तत्स्वप्नं प्रविचिन्वती॥४॥
ददर्शोदितमादित्यं सच्छिद्रं निष्प्रभं मुहुः।
तदनिष्टमिति ज्ञात्वा रुदती भयविह्वला॥५॥
कुत्रचिन्नालभच्छर्म गोपुराट्टालभूमिषु।
ततः सखीद्वययुता नगरोद्यानमागमत्॥६॥
तत्रापि साऽभ्रमद्बाला नालभत्कुत्रचित्सुखम्।
वनाद्वनान्तरं याता नैव वेदाऽऽत्मनस्तदा॥७॥
ततः सा भ्रमती बाला ददर्शातीवभीषणौ।
राक्षसौ सिंहवदनौ दंष्ट्राननविभीषणौ॥८॥
तौ दृष्ट्वा विह्वलाऽतीव पलायनपराऽभवत्।
ददर्श तापसं शान्तं सशिष्यं मौनमास्थितम्॥९॥
ततस्तत्कण्ठमावृत्य निजां बाहुलतां भयात्।
मुने मां रक्ष शरणमागताऽस्मीत्यभाषत॥१०॥
मुनिस्तां विह्वलां दृष्ट्वा राक्षसानुगतां तदा।
हुङ्कारेणैव तौ घोरौ चकार विमुखौ रुषा॥११॥
तौ हुङ्कारभयत्रस्तौ दृष्ट्वा च विमुखौ गतौ।
प्रणम्य दण्डवद्भूमौ वृन्दा वचनमब्रवीत्॥१२॥

वृन्दोवाच

रक्षिताऽहं त्वया घोराद् भयादस्मात् कृपानिधे।
किञ्चिद्विज्ञस्तुमिच्छामि कृपया तन्निशामय॥१३॥
जलन्धरो हि मद्भर्ता रुद्रं योद्धुं गतः प्रभो।
स तत्राऽऽस्ते कथं युद्धे तन्मे कथय सुव्रत॥१४॥

नारद उवाच

मुनिस्तद्वाक्यमाकर्ण्य कृपयोर्ध्वमवैक्षत।
तावत्कपी समायातौ प्रणम्य चाग्रतः स्थितौ॥१५॥
ततस्तद्भ्रूलतासंज्ञानियुक्तौ गगनं गतौ।
गत्वा क्षणार्धादागत्य प्रणतावग्रतः स्थितौ।
शिरःकबन्धे हस्तौ च गृहीत्वा समुपस्थितौ॥१६॥
शिरःकबन्धे हस्तौ च दृष्ट्वाऽब्धितनयस्य सा।
पपात मूर्छिता भूमौ भर्तृव्यसनदुःखिता॥१७॥
कमण्डलूदकैः सिक्त्वा मुनिनाऽऽश्वासिता तदा।
स्वभर्तृभाले सा भालं कृत्वा दीना रुरोद ह॥१८॥

वृन्दोवाच

यः पुरा सुखसंवादे विनोदयसि मां प्रभो।
स कथं न वदस्यद्य वल्लभा मामनागसम्॥१९॥
येन देवाः सगन्धर्वा निर्जिता विष्णुना सह।
स कथं तापसेनाद्य त्रैलोक्यविजयी हतः॥२०॥

नारद उवाच

रुदित्वेति तदा वृन्दा तं मुनिं वाक्यमब्रवीत्।

वृन्दोवाच

कृपानिधे मुनिश्रेष्ठ जीवयैनं मम प्रियम्॥२१॥
त्वमेवास्य मुने शक्तो जीवनाय मतो मम।

नारद उवाच

इति तद्वाक्यमाकर्ण्य प्रहसन्मुनिरब्रवीत्॥२२॥

मुनिरुवाच

नायं जीवयितुं शक्तो रुद्रेण निहतो युधि।
तथाऽपि त्वत्कृपाविष्ट एनं सञ्जीवयाम्यहम्॥२३॥

नारद उवाच

इत्युक्त्वाऽन्तर्दधे विप्रस्तावत्सागरनन्दनः।
वृन्दामालिङ्ग्य तद्वक्त्रं चुचुम्ब प्रीतमानसः॥२४॥
अथ वृन्दाऽपि भर्तारं दृष्ट्वा हर्षितमानसा।
रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरम्॥२५॥
कदाचित्सुरतस्यान्ते दृष्ट्वा विष्णुं तमेव च।
निर्भर्त्स्य क्रोधसंयुक्ता वृन्दा वचनमब्रवीत्॥२६॥

वृन्दोवाच

धिक्त्वदीयं हरे शीलं परदाराभिगामिनः।
ज्ञातोऽसि त्वं मया सम्यङ्मायाप्रच्छन्नतापसः॥२७॥
यौ त्वया मायया द्वाःस्थौ स्वकीयौ दर्शितौ मम।
तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यतः॥२८॥
त्वं चापि भार्यादुःखार्तो वने कपिसहायवान्।
भ्रम सर्पेश्वरेणाऽयं यस्ते शिष्यत्वमागतः॥२९॥
इत्युक्त्वा सा तदा वृन्दा प्राविशद्धव्यवाहनम्।
विष्णुना वार्यमाणाऽपि तस्यामासक्तचेतसा॥३०॥
ततो हरिस्तामनुसंस्मरन्मुहुर्-
वृन्दान्वितोभस्मरजोवगुण्ठितः।
तत्रैव तस्थौ सुरसिद्धसङ्घैः
प्रबोध्यमानोऽपि ययौ न शान्तिम्॥३१॥

आदितः श्लोकाः — १२०९
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
जलन्धरोपाख्याने वृन्दाग्निप्रवेशवर्णनं
नामैकविंशोऽध्यायः॥२१॥