अथ विंशोऽध्यायः
नारद उवाच
पतितं वीरभद्रं तु दृष्ट्वा रुद्रगणा भयात्।
अगमंस्ते रणं हित्वा क्रोशमाना महेश्वरम्॥१॥
अथ कोलाहलं श्रुत्वा गणानां चन्द्रशेखरः।
अभ्ययाद्वृषभारूढः सङ्ग्रामं प्रहसन्निव॥२॥
रुद्रमायान्तमालोक्य सिंहनादैर्गणाः पुनः।
निवृत्ताः सङ्गरे दैत्यान्निर्जघ्नुः शरवृष्टिभिः॥३॥
दैत्याश्च भीषणं दृष्ट्वा सर्वे चैव विदुद्रुवुः।
कार्तिकव्रतिनं दृष्ट्वा पातकानीव तद्भयात्॥४॥
जलन्धरोऽथ तान्दैत्यान्निवृत्तान् प्रेक्ष्य सङ्गरे।
रोषादधावच्चण्डीशं मुञ्चन्बाणान्सहस्रशः॥५॥
शुम्भो निशुम्भोऽश्वमुखः कालनेमिर्बलाहकः।
खड्गरोमा प्रचण्डश्च घस्मराद्याः शिवं ययुः॥६॥
बाणान्धकारसञ्छन्नं दृष्ट्वा गणबलं शिवः।
बाणजालमवाच्छिद्य स्वबाणैरावृणोन्नभः॥७॥
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा।
प्रचण्डबाणजालौघैरपातयत भूतले॥८॥
खड्गरोम्णः शिरः कायात्तदा परशुनाऽच्छिनत्।
बलाहकस्य च शिरः खट्वाङ्गेनाऽकरोद् द्विधा॥९॥
बद्ध्वा च घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि।
वृषभेण हताः केचित्केचिद्बाणैर्निपातिताः॥१०॥
न शेकुरसुराः स्थातुं गजाः सिंहार्दिता इव।
ततः क्रोधपरीतात्मा वेगाद्रुद्रं जलन्धरः॥११॥
आह्वयामास समरे तीव्राशनिसमस्वनः।
जलन्धर उवाच
युध्यस्व च मया सार्धं किमेभिर्निहितैस्तव॥१२॥
यच्च किञ्चिद्बलं तेऽस्ति तद्दर्शय जटाधर।
इत्युक्त्वा बाणसप्तत्या जघान वृषभध्वजम्॥१३॥
तान् प्राप्तान्निशितैर्बाणैश्चिच्छेद प्रहसन्निव।
ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद शक्तिभिः॥१४॥
स च्छिन्नधन्वा विरथो गदामुद्यम्य वेगवान्।
अभ्यधावच्छिवस्तावद्गदां बाणैर्विधाऽच्छिनत्॥१५॥
तथाऽपि मुष्टिमुद्यम्य ययौ रुद्रं जिघांसया।
तावच्छिवेन बाणौघैः क्रोशमात्रमपाकृतः॥१६॥
ततो जलन्धरो दैत्यो मत्वा रुद्रं बलाधिकम्।
ससर्ज मायां गान्धर्वीमद्भुतां रुद्रमोहिनीम्॥१७॥
ततो जगुश्च ननृतुर्गन्धर्वाप्सरसां गणाः।
तालवेणुमृदङ्गाद्यान्वादयन्ति स्म चापरे॥१८॥
तद्दृष्ट्वा महदाश्चर्यं रुद्रो नादविमोहितः।
पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः॥१९॥
एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलन्धरः।
कामार्तः स जगामाशु यत्र गौरी स्थिताऽभवत्॥२०॥
युद्धे शुम्भनिशुम्भाख्यौ स्थापयित्वा महाबली।
दशदोर्दण्डपञ्चास्यस्त्रिनेत्रश्च जटाधरः॥२१॥
महावृषभमारूढः स बभूव जलन्धरः।
अथो रुद्रं समायान्तमालोक्य भववल्लभा॥२२॥
अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत्।
यावद्ददर्श चार्वङ्गी पार्वती दनुजेश्वरः॥२३॥
तावत्स्ववीर्यं मुमुचे जडाङ्गश्चाभवत्तदा।
अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला॥२४॥
जगामान्तर्हिता वेगात्सा तदोत्तरमानसे।
तामदृष्ट्वा ततो दैत्यः क्षणाद्विद्युल्लतामिव॥२५॥
जवेनाऽऽगात्पुनर्युद्धं यत्र देवो वृषध्वजः।
पार्वत्यपि भयाद्विष्णुं सस्मार मनसा तदा॥२६॥
तावद्ददर्श तं देवं सूपविष्टं समीपगम्।
पार्वत्युवाच
विष्णो जलन्धरो दैत्यः कृतवान् परमाद्भुतम्॥२७॥
तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः।
विष्णुरुवाच
तेनैव दर्शितः पन्था वयमप्यन्वयामहे॥२७॥
नान्यथा स भवेद्वध्यः पातिव्रत्यसुरक्षितः।
नारद उवाच
जगाम विष्णुरित्युक्त्वा पुनर्जालन्धरं पुरम्॥२८॥
अथ रुद्रश्च गन्धर्वानुगतः सङ्गरे स्थितः।
अन्तर्धानं गतां मायां दृष्ट्वा स बुबुधे तदा॥२९॥
ततो भवो विस्मितमानसः पुनर्-
जगाम युद्धाय जलन्धरं रुषा।
स चापि दैत्यः पुनरागतं शिवं
दृष्ट्वा शरौघैः समवाकिरद्रणे॥३०॥
आदितः श्लोकाः — ११७८
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
जलन्धरोपाख्याने शिवजलन्धरयुद्धवर्णनं
नाम विंशोऽध्यायः॥२०॥
❀