अथ एकोनविंशोऽध्यायः

नारद उवाच

ते गणाधिपतीन्दृष्ट्वा नन्दीभमुखषण्मुखान्।
अमर्षादभ्यधावन्त द्वन्द्वयुद्धाय दानवाः॥१॥
नन्दिनं कालनेमिश्च शुम्भो लम्बोदरं तथा।
निशुम्भः षण्मुखं वेगादभ्यधावत दंशितः॥२॥
निशुम्भः कार्तिकेयस्य मयूरं पञ्चभिः शरैः।
हृदि विव्याध वेगेन मूर्च्छितः स पपात च॥३॥
ततः शक्तिधरः शक्तिं यावज्जग्राह रोषितः।
तावन्निशुम्भो वेगेन स्वशक्त्या तमपातयत्॥४॥
नन्दीश्वरः शरव्रातैः कालनेमिमवध्यत।
सप्तभिश्च हयान्केतुं त्रिभिः सारथिमच्छिनत्॥५॥
कालनेमिस्तु सङ्क्रुद्धो धनुश्चिच्छेद नन्दिनः।
तदपास्य स शूलेन तं वक्षस्यहनद्बली॥६॥
स शूलभिन्नहृदयो हताश्वो हतसारथिः।
अद्रेः शिखरमामुच्य शैलादिं सोऽप्यपातयत्॥७॥
अथ शुम्भो गणेशश्च रथमूषकवाहनौ।
युध्यमानौ शरव्रातैः परस्परमविध्यताम्॥८॥
गणेशस्तु तदा शुम्भं हृदि विव्याध पत्रिणा।
सारथिं च त्रिभिर्बाणैः पातयामास भूतले॥९॥
ततोऽतिक्रुद्धः शुम्भोऽपि बाणषष्ट्या गणाधिपम्।
मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः॥१०॥
मूषकः शरभिन्नाङ्गश्चचाल दृढवेदनः।
लम्बोदरश्च पतितः पदातिरभवन्नृप॥११॥
ततो लम्बोदरः शुम्भं हत्वा परशुना हृदि।
अपातयत्तदा भूमौ मूषकं चाऽऽरुहत्पुनः॥१२॥
कालनेमिर्निशुम्भश्चाप्युभौ लम्बोदरं शरैः।
युगपज्जघ्नतुः क्रोधात्तोत्रैरिव महाद्विपम्॥१३॥
तं पीड्यमानमालोक्य वीरभद्रो महाबलः।
अभ्यधावत वेगेन भूतकोटियुतस्तदा॥१४॥
कूष्माण्डभैरवाश्चापि वेताला योगिनीगणाः।
पिशाचयोगिनीसङ्घा गणाश्चापि तमन्वयुः॥१५॥
ततः किलकिलाशब्दैः सिंहनादैः सुघर्घरैः।
भेरीतालमृदङ्गैश्च पृथिवी समकम्पत॥१६॥
ततो भूतान्यधावन्त भक्षयन्ति स्म दानवान्।
उत्पतन्त्यापतन्ति स्म ननृतुश्च रणाङ्गणे॥१७॥
नन्दी च कार्तिकेयश्च समाश्वस्य त्वरत्वितौ।
निजघ्नतू रणे दैत्यान्निरन्तरशरव्रजैः॥१८॥
छिन्नभिन्ना हतैर्देत्यैः पतितैर्भक्षितैस्तदा।
व्याकुला साऽभवत्सेना विषण्णवदना तदा॥१९॥
प्रविध्वस्तां तदा सेनां दृष्ट्वा सागरनन्दनः।
रथेनातिपताकेन गणानभिययौ बली॥२०॥
हस्त्यश्वरथसंह्रादाः शङ्खभेरीस्वनास्तथा।
अभवन्सिंहनादाश्च सेनयोरुभयोस्तदा॥२१॥
जलन्धरशरव्रातैर्नीहारपटलैरिव।
द्यावापृथिव्योराच्छिन्नमन्तरं समपद्यत॥२२॥
गणेशं पञ्चभिर्विद्ध्वा शैलादिं नवभिः शरैः।
वीरभद्रं च विंशत्या ननाद जलदस्वनः॥२३॥
कार्तिकेयस्तदा दैत्यं शक्त्या विव्याध सत्वरः।
युयुधे शक्तिनिर्भिन्नः किञ्चिद्व्याकुलमानसः॥२४॥
ततः क्रोधपरीताक्षः कार्तिकेयं जलन्धरः।
गदया ताडयामास स च भूमितलेऽपतत्॥२५॥
तथैव नन्दिनं वेगादपातयत भूतले।
ततो गणेश्वरः क्रुद्धो गदां परशुनाऽहनत्॥२६॥
वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम्।
सप्तभिश्च हयान्केतुं धनुश्छत्रं च चिच्छिदे॥२७॥
ततोऽतिक्रुद्धो दैत्येन्द्रः शक्तिमुद्यम्य दारुणाम्।
गणेशं पातयामास रथं चान्यमथाऽऽरुहत्॥२८॥
अभ्ययादथ वेगेन वीरभद्रं रुषान्वितः।
ततस्तौ सूर्यसङ्काशौ युयुधाते परस्परम्॥२९॥
वीरभद्रः पुनस्तस्य हयान्बाणैरपातयत्।
धनुश्चिच्छेद दैत्येन्द्रः पुप्लुवे परिघायुधः॥३०॥
स वीरभद्रं त्वरयाऽभिगम्य
जघान दैत्यः परिघेण मूर्ध्नि।
स चापि वीरः प्रविभिन्नमूर्धा
पपात भूमौ रुधिरं समुद्गिरन्॥३१॥

आदितः श्लोकाः — ११४८
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
जलन्धरोपाख्याने वीरभद्रपतनं
नामैकोनविंशोऽध्यायः॥१९॥