अथ अष्टादशोऽध्यायः

नारद उवाच

जलन्धरस्तु तच्छ्रुत्वा कोपाकुलितविग्रहः।
निर्जगामाऽऽशु दैत्यानां कोटिभिः परिवारितः॥१॥
गच्छतोऽस्याग्रतः शुक्रो राहुर्दृष्टिपथेऽभवत्।
मुकुटश्चापतद्भूमौ वेगात्प्रस्खलितस्तदा॥२॥
दैत्यसैन्यावृतैस्तस्य विमानानां शतैस्तदा।
व्यराजत नभःपूर्णं प्रावृषीव यथा घनैः॥३॥
तस्योद्योगं तदा दृष्ट्वा देवाः शक्रपुरोगमाः।
अलक्षितास्तदा जग्मुः शूलिनं तं व्यजिज्ञपुः॥४॥

देवा ऊचुः

न जानासि कथं स्वामिन्देवापत्तिमिमां विभो।
तदस्मद्रक्षणार्थाय जहि सागरनन्दनम्॥५॥

नारद उवाच

इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः।
महाविष्णुं समाहूय वचनं चेदमब्रवीत्॥६॥

ईश्वर उवाच

जलन्धरः कथं विष्णो न हतः सङ्गरे त्वया।
तद्गृहं चापि यातोऽसि त्यक्त्वा वैकुण्ठमात्मनः॥७॥

विष्णुरुवाच

तवांशसम्भवत्वाच्च भ्रातृत्वाच्च तथा श्रियः।
न मया निहतः सङ्ख्ये त्वमेनं जहि दानवम्॥८॥

ईश्वर उवाच

नायमेभिर्महातेजाः शस्त्रास्त्रैर्वध्यते मया।
देवैः सह स्वतेजोंशं शस्त्रार्थं दीयतां मम॥९॥

नारद उवाच

अथ विष्णुमुखा देवाः स्वतेजांसि ददुस्तदा।
तान्यैक्यमागतानीशो दृष्ट्वा स्वं चामुचन्महः॥१०॥
तेनाकरोन्महादेवो महसा शस्त्रमुत्तमम्।
चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम्॥११॥
ततः शेषेण च तदा वज्रं च कृतवान्हरिः।
तावज्जलन्धरो दृष्टः कैलासतलभूमिषु॥१२॥
हस्त्यश्वरथपत्तीनां कोटिभिः परिवारितः।
तं दृष्ट्वा लक्षिता जग्मुर्देवाः सर्वे यथागताः॥१३॥
गणाश्च समसज्जन्त युद्धायाऽतित्वरान्विताः।
नन्दीभवक्त्रसेनानीमुखाः सर्वे शिवाज्ञया॥१४॥
अवतेरुर्गणा वेगात्कैलासाद्युद्धदुर्मदाः।
ततः समभवद्युद्धं कैलासोपत्यकाभुवि॥१५॥
प्रमथाधिपदैत्यानां घोरशस्त्रास्त्रसङ्कुलम्।
भेरीमृदङ्गशङ्खौघ निःस्वनैर्वीरहर्षणैः॥१६॥
गजाश्वरथशब्दैश्च नादिता भूर्व्यकम्पत।
शक्तितोमरबाणौघमुसलप्रासपट्टिशैः॥१७॥
व्यराजत नभः पूर्णमुल्काभिरिव संवृतम्।
निहतैरथनागाश्वपत्तिभिर्भूर्व्यराजत॥१८॥
वज्राहताचलशिरःशकलैरिव संवृता।
प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा॥१९॥
वसासृङ्मांसपङ्काढ्या भूरगम्याऽभवत्तदा।
प्रमथाहतदैत्यौघान्भार्गवः समजीवयत्॥२०॥
युद्धे पुनः पुनस्तत्र मृतसञ्जीविनीबलात्।
तं दृष्ट्वा व्याकुलीभूता गणाः सर्वे भयान्विताः।
शशंसुर्देवदेवाय तत्सर्वं शुक्रचेष्टितम्॥२१॥
अथ रुद्रमुखात्कृत्या बभूवातीवभीषणा।
तालजङ्घा दरीवक्त्रा स्तनापीडितभूरुहा॥२२॥
सा युद्धभूमिमासाद्य भक्षयन्ती महासुरान्।
भार्गवं स्वभगे धृत्वा जगामान्तर्हिता नभः॥२३॥
विधृतं भार्गवं दृष्ट्वा दैत्यसैन्यं गणास्तदा।
अम्लानवदना हर्षान्निजघ्नुर्युद्धदुर्मदाः॥२४॥
अथाभज्यत दैत्यानां सेना गणभयार्दिता।
वायुवेगेनाहतेव प्रकीर्णा तृणसन्ततिः॥२५॥
भग्नां गणभयात्सेनां दृष्ट्वाऽमर्षयुता ययुः।
निशुम्भशुम्भौ सेनान्यौ कालनेमिश्च वीर्यवान्॥२६॥
त्रयस्ते वारयामासुर्गणसेनां महाबलाः।
मुञ्चतः शरवर्षाणि प्रावृषीव बलाहकाः॥२७॥
ततो दैत्यशरौघास्ते शलभानामिव व्रजाः।
रुरुधुः खं दिशः सर्वा गणसेनामकम्पयन्॥२८॥
गणाः शरशतैर्भिन्ना रुधिरासारवर्षिणः।
वसन्ते किंशुकाभासा न प्राज्ञायत किञ्चन॥२९॥
पतिताः पात्यमानाश्च भिन्नाश्छिन्नास्तदा गणाः।
त्यक्त्वा सङ्ग्रामभूमिं ते सर्वेऽपि विमुखाऽभवन्॥३०॥
ततः प्रभग्नं स्वबलं विलोक्य
शैलादिलम्बोदरकार्तिकेयाः।
त्वरान्विता दैत्यवरान् प्रसह्य
निवारयामासुरमर्षिणस्ते॥३१॥

आदितः श्लोकाः — १११७
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
जलन्धरोपाख्याने रुद्रसेनापराभवो
नामाष्टादशोऽध्यायः॥१८॥