अथ सप्तदशोऽध्यायः

नारद उवाच

स मां प्रोवाच विधिवत्सम्पूज्यातीव भक्तिमान्।
सम्प्रहस्य तदा वाक्यं स्नेहपूर्वं च वै नृप॥१॥
कुत आगम्यते ब्रह्मन् किञ्चिद् दृष्टं त्वया प्रभो।
यदर्थमिह चाऽऽयातस्तदाज्ञापय मां मुने॥२॥

नारद उवाच

गतः कैलासशिखरं दैत्येन्द्राहं यदृच्छया।
तत्रोमया समासीनं दृष्टवानस्मि शङ्करम्॥३॥
योजनायुतविस्तीर्णे कल्पवृक्षमहावने।
कामधेनुशताकीर्णे चिन्तामणिसुदीपिते॥४॥
तद् दृष्ट्वा महदाश्चर्यं विस्मयो मेऽभवत्तदा।
क्वाऽपीदृशी भवेदृद्धिस्त्रैलोक्ये वा न वेति च॥५॥
तदा तवापि दैत्येन्द्र समृद्धिः संस्मृता मया।
तद्विलोकनकामोऽस्मि त्वत्सान्निध्यमिहाऽऽगतः॥६॥
त्वत्समृद्धिमिमां पश्यन्स्त्रीरत्नरहितां ध्रुवम्।
तर्कयामि शिवादन्यस्त्रिलोक्यां न समृद्धिमान्॥७॥
अप्सरोनागकन्याद्या यद्यपि त्वद्वशे स्थिताः।
तथाऽपि ता न पार्वत्या रूपेण सदृशा ध्रुवम्॥८॥
यस्या लावण्यजलधौ निमग्नश्चतुराननः।
स्वधैर्यममुचत्पूर्वं तया काऽन्योपमीयते॥९॥
वीतरागोऽपि हि यथा मदनारिः स्वलीलया।
सौन्दर्यगहनेऽभ्रामि शफरीरूपया पुरा॥१०॥
यस्याः पुनः पुनः पश्यन् रूपं धाताऽपि सर्जने।
ससर्जाऽप्सरसस्तासां तत्समैकाऽपि नाभवत्॥११॥
अतः स्त्रीरत्नसम्भोक्तुः समृद्धिस्तस्य सा वरा।
तथा न तव दैत्येन्द्र सर्वरत्नाऽधिपस्य च॥१२॥
एवमुक्त्वा तमामन्त्र्य गते सति स दैत्यराट्।
तद्रूप श्रवणादासीदनङ्गज्वरपीडितः॥१३॥
अथ सम्प्रेषयामास स दूतं सिंहिकासुतम्।
त्र्यम्बकायाऽपि च तदा विष्णुमायाविमोहितः॥१४॥
कैलासमगमद्राहुः कुर्वञ्छुक्लेन्दुवर्चसम्।
कार्ष्ण्येन कृष्णपक्षेन्दुवर्चसं स्वाङ्गजेन तम्॥१५॥
निवेदितस्तदेशाय नन्दिना प्रविवेश सः।
त्र्यम्बकभ्रूलतासंज्ञा प्रेरितो वाक्यमब्रवीत्॥१६॥

राहुरुवाच

देवपन्नगसेव्यस्य त्रैलोक्याधिपतेः प्रभोः।
सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज॥१७॥
श्मशानवासिनो नित्यमस्थिभारवहस्य च।
दिगम्बरस्य ते भार्या कथं हैमवती शुभा॥१८॥
अहं रत्नाधिनाथोऽस्मि सा च स्त्रीरत्नसंज्ञिका।
तस्मान्ममैव सा योग्या नैव भिक्षाशिनस्तव॥१९॥

नारद उवाच

वदत्येवं तदा राहौ भ्रूमध्याच्छूलपाणिनः।
अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः॥२०॥
सिंहास्यः प्रललज्जिह्वः स ज्वलन्नयनो महान्।
ऊर्ध्वकेशः शुष्कतनुर्नृसिंह इव चापरः॥२१॥
स तं खादितुमायान्तं दृष्ट्वा राहुर्भयातुरः।
अधावत स वेगेन बहिः स च दधार तम्॥२२॥
स च राहुर्महाबाहो मेघगम्भीरया गिरा।
उवाच देवदेव त्वं पाहि मां शरणागतम्॥२३॥
ब्राह्मणं मां महादेव खादितुं समुपागतः।
महादेवो वचः श्रुत्वा ब्राह्मणस्य तदाऽब्रवीत्॥२४॥
नैवाऽसौ वध्यतामेति दूतोऽयं परवान्यतः।
मुञ्चेति पुरुषः श्रुत्वा राहुं तत्याज सोऽम्बरे॥२५॥
राहुं त्यक्त्वाऽथ पुरुषस्तदा रुद्रं व्यजिज्ञपत्।

पुरुष उवाच

क्षुधा मां वाधतेऽत्यन्तं क्षुत्क्षामश्चाऽस्मि सर्वथा॥२६॥
किं भक्षयामि देवेश तदाज्ञापय मां प्रभो।

ईश्वर उवाच

भक्षयस्वात्मनः शीघ्रं मांसं त्वं हस्तपादयोः॥२७॥

नारद उवाच

स शिवेनैवमाज्ञप्तश्चखाद पुरुषः स्वकम्।
हस्तपादोद्भवं मांसं शिरःशेषो यथाऽभवत्॥२८॥
दृष्ट्वा शिरोऽवशेषं तं सुप्रसन्नस्तदा शिवः।
उवाच भीमकर्माणं पुरुषं जातविस्मयः॥२९॥

ईश्वर उवाच

त्वं कीर्तिमुखसंज्ञो हि भव मद्द्वारिगः सदा।
त्वदर्चां ये न कुर्वन्ति नैव ते मे प्रियङ्कराः॥३०॥

नारद उवाच

तदा प्रभृति देवस्य द्वारि कीर्तिमुखः स्थितः।
नार्चयन्तीह ये पूर्वं तेषामर्चा वृथा भवेत्॥३१॥
राहुर्विमुक्तो यस्तेन सोऽपि तद्बर्बरे स्थले।
अतः स बर्बरोद्भूत इति भूमौ प्रथां गतः॥३२॥
ततः स राहुः पुनरेव जातम्
आत्मानमस्मिन्निति मन्यमानः।
समेत्य सर्वं कथयां बभूव
जलन्धरायैव विचेष्टितं तत्॥३३॥

आदितः श्लोकाः — १०८६
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
जलन्धरोपाख्याने दूतवाक्यकथनं
नाम सप्तदशोऽध्यायः॥१७॥