अथ षोडशोऽध्यायः

नारद उवाच

पुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः।
भयप्रकम्पिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः॥१॥

[देवा ऊचुः]

नमो मत्स्यकूर्मादिनानास्वरूपैः
सदाभक्तकार्योद्यतायार्तिहन्त्रे।
विधात्रादिसर्गस्थितिध्वंसकर्त्रे
गदाशङ्खपद्मारिहस्ताय तेऽस्तु॥२॥
रमा वल्लभायासुराणां निहन्त्रे
भुजङ्गारियानाय पीताम्बराय।
मखादिक्रियापाककर्त्रे विकर्त्रे
शरण्याय तस्मै नताः स्मो नताः स्मः॥३॥
नमो दैत्यसन्तापितामर्त्यदुःखा-
चलध्वंसदम्भोलये विष्णवे ते।
भुजङ्गेशतल्पेशयायार्कचन्द्र-
द्विनेत्राय तस्मै नताः स्मो नताः स्मः॥४॥

नारद उवाच

सङ्कष्टनाशनं नाम स्तोत्रमेतत्पठेन्नरः।
स कदाचिन्न सङ्कष्टैः पीड्यते कृपया हरेः॥५॥
इति देवाः स्तुतिं यावत्कुर्वन्ति दनुजद्विषः।
तावत्सुराणामापत्तिर्विज्ञाता विष्णुना तदा॥६॥
सहसोत्थाय दैत्यारिः सक्रोधः खिन्नमानसः।
आरूढो गरुडं वेगाल्लक्ष्मीं वचनमब्रवीत्॥७॥

श्रीभगवानुवाच

जलन्धरेण ते भ्रात्रा देवानां कदनं कृतम्।
तैराहूतो गमिष्यामि युद्धायाद्य त्वरान्वितः॥८॥

श्रीरुवाच

अहं ते वल्लभा नाथ भक्त्या च यदि सर्वदा।
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे॥९॥

श्रीभगवानुवाच

रुद्रांशसम्भवत्वाच्च ब्रह्मणो वचनादपि।
प्रीत्या च तव नैवायं मम वध्यो जलन्धरः॥१०॥

नारद उवाच

इत्युक्त्वा गरुडारूढः शङ्खचक्रगदासिभृत्।
विष्णुर्वेगाद्ययौ योद्धुं यत्र देवाः स्तुवन्ति ते॥११॥
अथारुणानुजात्युग्रपक्षवातप्रपीडिताः।
वात्या विमर्दिता दैत्या बभ्रमुः खे यथा घनाः॥१२॥
ततो जलन्धरो दृष्ट्वा दैत्यान् वात्या प्रपीडितान्।
उद्वृत्तनयनः क्रोधात्ततो विष्णुं समभ्ययात्॥१३॥
ततः समभवद्युद्धं विष्णुदैत्येन्द्रयोर्महत्।
आकाशं कुर्वतोर्बाणैस्तदा निरवकाशवत्॥१४॥
विष्णुर्दैत्यस्य बाणौघैर्ध्वजं छत्रं धनुर्हयान्।
चिच्छेद तं च हृदये बाणेनैकेन ताडयत्॥१५॥
ततो दैत्यः समुत्पत्य गदापाणिस्त्वरान्वितः।
आहत्य गरुडं मूर्ध्नि पातयामास भूतले॥१६॥
विष्णुर्गदां स्वखङ्गेन चिच्छेद प्रहसन्निव।
तावत्स हृदये विष्णुं जघान दृढमुष्टिना॥१७॥
ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ।
बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम्॥१८॥
एवं तौ सुचिरं युद्धं कृत्वा विष्णुः प्रतापवान्।
उवाच दैत्यराजानं मेघगम्भीरनिस्वनः॥१९॥

विष्णुरुवाच

वरं वरय दैत्येन्द्र प्रीतोऽस्मि तव विक्रमात्।
अदेयमपि ते दद्मि यत्ते मनसि वर्तते॥२०॥

जलन्धर उवाच

यदि भावुक तुष्टोऽसि वरमेनं ददस्व मे।
मद्भगिन्या सहाऽद्य त्वं मद्गृहे सगणो वस॥२१॥

नारद उवाच

तथेत्युक्ता स भगवान्सर्वदेवगणैः सह।
तदा जलन्धरपुरमगमद्रमया सह॥२२॥
जलन्धरस्तु देवानामधिकारेषु दानवान्।
स्थापयित्वा महाबाहुः पुनरागान्महीतलम्॥२३॥
देवगन्धर्वसिद्धेषु यत्किञ्चिद्रत्नसंयुतम्।
तदात्मवशगं कृत्वाऽतिष्ठत्सागरनन्दनः॥२४॥
पातालभुवने दैत्यं निशुम्भं स महाबलम्।
स्थापयित्वा स शेषादीनानयद्भूतलं बली॥२५॥
देवगन्धर्वसिद्धाद्यान्सर्पराक्षसमानुषान्।
स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम्॥२६॥
एवं जलन्धरः कृत्वा देवान्स्ववशवर्तिनः।
धर्मेण पालयामास प्रजाः पुत्रानिवौरसान्॥२७॥
न कश्चिद्व्याधितो नैव दुःखी नैव कृतस्तथा।
न दीनो दृश्यते तस्मिन्धर्माद् राज्यं प्रशासति॥२८॥
एवं महीं शासति दानवेन्द्रे
धर्मेण सम्यक्च दिदृक्षयाऽहम्।
कदाचिदागामथ तस्य लक्ष्मीं
विलोकितुं श्रीरमणं च सेवितुम्॥२९॥

आदितः श्लोकाः — १०५३
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
जलन्धरसभायां नारदागमनं
नाम षोडशोऽध्यायः॥१६॥