अथ पञ्चदशोऽध्यायः
नारद उवाच
ये देवैर्निर्जिताः पूर्वं दैत्याः पातालसंस्थिताः।
तेऽपि भूमण्डलं याता निर्भयास्तमुपाश्रिताः॥१॥
कदाचिच्छिन्नशिरसं राहुं दृष्ट्वा स दैत्यराट्।
पप्रच्छ भार्गवं तत्र तच्छिरश्छेदकारणम्॥२॥
स शशंस समुद्रस्य मथनं देवकारितम्।
रत्नापहरणं चैव दैत्यानां च पराभवम्॥३॥
स श्रुत्वा क्रोधरक्ताक्षः स्वपितुर्मथनं तदा।
दूतं सम्प्रेषयामास घस्मरं शक्रसन्निधौ॥४॥
दूतस्त्रिविष्टपं गत्वा सुधर्मां प्राविशद् वराम्।
जगादाखर्वमौलिस्तु देवेन्द्रं वाक्यमद्भुतम्॥५॥
घस्मर उवाच
जलन्धरोऽब्धितनयः सर्वदैत्यजनेश्वरः।
दूतोऽहं प्रेषितस्तेन स यदाह शृणुष्व तत्॥६॥
कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा।
नीतानि सर्वरत्नानि तानि शीघ्रं प्रयच्छ मे॥७॥
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः।
उवाच घस्मरं रौद्रं भयरोषसमन्वितः॥८॥
इन्द्र उवाच
शृणु दूत मया पूर्वं मथितः सागरो यथा।
अद्रयो मद्भयात्त्रस्ताः स्वकुक्षिस्थाः कृतास्तथा॥९॥
अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजाः पुरा।
तस्माद्यत्तत्प्रजातं तु मयाऽप्यपहृतं किल॥१०॥
शङ्खोऽप्येवं पुरा देवानद्विषत्सागरात्मजः।
ममानुजेन निहतः प्रविष्टः सागरोदरम्॥११॥
तद्गच्छ कथयस्वास्य सर्वं मथनकारणम्।
नारद उवाच
इत्थं विसर्जितो दूतस्तदेन्द्रेणागमद्भुवम्॥१२॥
तदिदं वचनं सर्वं दैत्यायाकथयत्तदा।
तन्निशम्य तदा दैत्यो रोषात्प्रस्फुरिताधरः॥१३॥
दैत्यसेनासमायुक्तो ययौ योद्धुं त्रिविष्टपम्।
ततो युद्धे महाञ्जातो देवदानवसङ्क्षयः॥१४॥
तत्र युद्धे मृतान्दैत्यान्भार्गवस्तूदतिष्ठपत्।
विद्यया मृतजीविन्या मन्त्रितैस्तोयबिन्दुभिः॥१५॥
देवानपि तथा युद्धे तत्राजीवयदङ्गिराः।
दिव्यौषधी समानीय द्रोणाद्रेः स पुनःपुनः॥१६॥
दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुत्थितान्।
जलन्धरः क्रोधवशो भार्गवं वाक्यमब्रवीत्॥१७॥
जलन्धर उवाच
मया युद्धे हता देवा उत्तिष्ठन्ति कथं पुनः।
तव सञ्जीविनीविद्या न वाऽन्यत्रेति विश्रुतम्॥१८॥
शुक्र उवाच
दिव्यौषधीः समानीय द्रोणाद्रेरङ्गिराः सुरान्।
जीवयत्येव तच्छीघ्रं द्रोणाद्रिं त्वमपाहर॥१९॥
नारद उवाच
इत्युक्तः स तु दैत्येन्द्रो नीत्वा द्रोणाचलं तदा।
प्राक्षिपत्सागरे तूर्णं पुनरागान्महाहवम्॥२०॥
अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः।
तावत् तत्र गिरीन्द्रं तु न ददर्श सुरार्चितः॥२१॥
ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः।
आगत्य दूराद्व्याजह्रे श्वासाऽऽकुलितविग्रहः॥२२॥
पलायध्वं हवाद् देवा नायं जेतुं क्षमो यतः।
रुद्रांशसम्भवो ह्येष स्मरध्वं शक्रचेष्टितम्॥२३॥
श्रुत्वा तद्वचनं देवा भयविह्वलितास्तदा।
दैत्येन वध्यमानास्ते पलायन्ते दिशो दश॥२४॥
देवान्विद्रावितान्दृष्ट्वा दैत्यैः सागरनन्दनः।
शङ्खभेरीजयरवैः प्रविवेशामरावतीम्॥२५॥
प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः।
सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः॥२६॥
ततश्च सर्वेष्वसुरोऽधिकारे-
ष्विन्द्रादिकानां विनिवेशयत्तदा।
शुम्भादिकान्दैत्यवरान् पृथक्पृथक्
स्वयं सुवर्णाद्रिगुहामगात्पुनः॥२७॥
आदितः श्लोकाः — १०२४
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
जलन्धरविजयप्राप्तिः
नाम पञ्चदशोऽध्यायः॥१५॥
❀