अथ चतुर्दशोऽध्यायः
पृथुरुवाच
यत्त्वया कथितं ब्रह्मन्व्रतमूर्जस्य विस्तरात्।
तत्र या तुलसीमूले विष्णोः पूजा त्वयोदिता॥१॥
तेनाहं प्रष्टुमिच्छामि माहात्म्यं तुलसीभवम्।
कथं साऽतिप्रिया तस्य देवदेवस्य शार्ङ्गिणः॥२॥
कथमेषा समुत्पन्ना कस्मिन्स्थाने च नारद।
एवं ब्रूहि समासेन सर्वज्ञोऽसि मतो मम॥३॥
नारद उवाच
शृणु राजन्नवहितो माहात्म्यं तुलसीभवम्।
सेतिहासं पुरावृत्तं तत्सर्वं कथयामि ते॥४॥
पुरा शक्रः शिवं द्रष्टुमगात्कैलासपर्वतम्।
सर्वदेवैः परिवृतो ह्यप्सरोगणसेवितः॥५॥
यावद्गतः शिवगृहं तावत् तत्र स दृष्टवान्।
पुरुषं भीमकर्माणं दंष्ट्राननविभीषणम्॥६॥
स पृष्टस्तेन कस्त्वं भोः क्व गतो जगदीश्वरः।
एवं पुनः पुनः पृष्टः स तदा नोक्तवान्नृप॥७॥
ततः क्रुद्धो वज्रपाणिस्तं निर्भर्त्स्य वचोऽब्रवीत्।
रे मया पृच्छ्यमानोऽपि नोत्तरं दत्तवानसि॥८॥
अतस्त्वां हन्मि वज्रेण कस्ते त्राताऽस्ति दुर्मते।
इत्युदीर्य ततो वज्री वज्रेणाभ्यहनद्दृढम्॥९॥
तेनास्य कण्ठो नीलत्वमगाद्वज्रं च भस्मताम्।
ततो रुद्रः प्रजज्वाल तेजसा प्रदहन्निव॥१०॥
दृष्ट्वा बृहस्पतिस्तूर्णं कृताञ्जलिपुटोऽभवत्।
इन्द्रं च दण्डवद्भूमौ कृत्वा स्तोतुं प्रचक्रमे॥११॥
बृहस्पतिरुवाच
नमो देवाधिपतये त्र्यम्बकाय कपर्दिने।
त्रिपुरघ्नाय शर्वाय नमोऽन्धकनिषूदिने॥१२॥
विरूपायातिरूपाय बहुरूपाय शम्भवे।
यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने॥१३॥
कालान्तकाय कालाय कालभोगिधराय च।
नमो ब्रह्मशिरोहन्त्रे ब्राह्मणाय नमो नमः॥१४॥
नारद उवाच
एवं स्तुतस्तदा शम्भुर्धिषणेन जगाद तम्।
संहरन्नयनज्वालां त्रिलोकीदहनक्षमाम्॥१५॥
वरं वरय भो ब्रह्मन् प्रीतः स्तुत्याऽनया तव।
इन्द्रस्य जीवदानेन जीवेति त्वं प्रथां वज्र॥१६॥
बृहस्पतिरुवाच
यदि तुष्टोऽसि देव त्वं पाहीन्द्रं शरणागतम्।
अग्निरेष शमं यातु भालनेत्रसमुद्भवः॥१७॥
ईश्वर उवाच
पुनः प्रवेशमायाति भालनेत्रे कथं शिखी।
एनं त्यक्ष्याम्यहं दूरे यथेन्द्रं नैव पीडयेत्॥१८॥
नारद उवाच
इत्युक्त्वा तं करे धृत्वा प्राक्षिपल्लवणार्णवे।
सोऽपतत्सिन्धुगङ्गायाः सागरस्य च सङ्गमे॥१९॥
तावत्स बालरूपत्वमगात् तत्र रुरोद च।
रुदतस्तस्य शब्देन प्राकम्पद्धरणी मुहुः॥२०॥
स्वर्गाद्याः सत्यलोकान्तास्तत्स्वनाद्बधिरीकृताः।
श्रुत्वा ब्रह्मा ययौ तत्र किमेतदिति विस्मितः॥२१॥
तावत्समुद्रस्योत्सङ्गे तं बालं स ददर्श ह।
दृष्ट्वा ब्रह्माणमायातं समुद्रोऽपि कृताञ्जलिः॥२२॥
प्रणम्य शिरसा बालं तस्योत्सङ्गे न्यवेशयत्।
भो ब्रह्मन्सिन्धुगङ्गायां जातोऽयं मम पुत्रकः।
जातकर्मादिसंस्कारान्कुरुष्वाद्य जगद्गुरो॥२३॥
नारद उवाच
इत्थं वदति पाथोधौ स बालः सागरात्मजः॥२४॥
ब्रह्माणमग्रहीत्कूर्चे विधुन्वंस्तं मुहुर्मुहुः।
धुन्वतस्तस्य कूर्चे तु नेत्राभ्यामगमज्जलम्।
कथञ्चिन्मुक्तकूर्चोऽथ ब्रह्मा प्रोवाच सागरम्॥२५॥
ब्रह्मोवाच
नेत्राभ्यां विधृतं यस्मादनेनैतज्जलं मम।
तस्माज्जलन्धर इति ख्यातो नाम्ना भविष्यति॥२६॥
अनेनैवैष तरुणः सर्वशस्त्रास्त्रपारगः।
अवध्यः सर्वभूतानां विना रुद्रं भविष्यति॥२७॥
यत एष समुद्भूतस्तत्रैवान्तं गमिष्यति॥२८॥
नारद उवाच
इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत्।
आमन्त्र्य सरितां नाथं ब्रह्मान्तर्धानमागमत्॥२९॥
अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा।
कालनेमिसुतां वृन्दां तद्भार्यार्थमयाचत॥३०॥
ते कालनेमिप्रमुखास्ततोऽसुरा-
स्तस्मै सुतां तां प्रददुः प्रहर्षिताः।
स चापि तां प्राप्य सुहृद् वरां वशां
शशास गां शुक्रसहायवान्बली॥३१॥
आदितः श्लोकाः — ९९७
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
जलन्धरोत्पत्तिवर्णनं
नाम चतुर्दशोऽध्यायः॥१४॥
❀