अथ त्रयोदशोऽध्यायः
सूत उवाच
श्रियः पतिमथाऽऽमन्त्र्य गते देवर्षिसत्तमे।
हर्षोत्फुल्लानना सत्या वासुदेवमथाब्रवीत्॥१॥
सत्यभामोवाच
धन्याऽस्मि कृतकृत्याऽस्मि सफलं जीवितं मम।
दानं व्रतं तपो वाऽपि किं नु पूर्वं कृतं मया॥२॥
येनाहं मर्त्यजा देव तवाङ्गार्धहराऽभवम्।
भवान्तरे च किंशीला का चाऽहं कस्य कन्यका।
तवाहं वल्लभा जाता तद्वदस्व ममाखिलम्॥३॥
श्रीकृष्ण उवाच
शृणुष्वैकमना कान्ते यथा त्वं पूर्वजन्मनि॥४॥
पुण्यव्रतं कृतवती तत्सर्वं कथयामि ते।
आसीत्कृतयुगस्यान्ते मायापुर्यां द्विजोत्तमः॥५॥
आत्रेयो देवशर्मेति वेदवेदाङ्गपारगः।
तस्यातिवयसश्चाऽऽसीन्नाम्ना गुणवती सुता॥६॥
अपुत्रः स स्वशिष्याय चन्द्रनाम्ने ददौ सुताम्।
तमेव पुत्रवन्मेने स च तं पितृवद्वशी॥७॥
तौ कदाचिद्वनं यातौ कुशेध्माहरणार्थिनौ।
निहतौ रक्षसा तौ च कृतान्तसमरूपिणा॥८॥
स्वस्वपुण्य प्रभावेन विष्णुलोकं गतावुभौ।
ततो गुणवती श्रुत्वा रक्षसा निहतावुभौ॥९॥
पितृभर्तृजदुःखार्ता कारुण्यं पर्यदेवयत्।
सा गृहोपस्करान्सर्वान्विक्रीयाशु च कर्म तत्॥१०॥
तयोश्चक्रे यथाशक्ति पारलौकीं ततः क्रियाम्।
तस्मिन्नेव पुरे चक्रे वासं सा मृतजीविनी॥११॥
व्रतद्वयं तया सम्यगाजन्ममरणात्कृतम्।
एकादशीव्रतं सम्यक्सेवनं कार्तिकस्य च॥१२॥
इत्थं गुणवती सम्यक्प्रत्यब्दं व्रतिनी ह्यभूत्।
कदाचित्सरुजा साऽथ कृशाङ्गी ज्वरपीडिता॥१३॥
स्नातुं गङ्गां गता कान्ते कथञ्चिच्छनकैस्तदा।
यावज्जलान्तरगता कम्पिता शीतपीडिता॥१४॥
तावत्सा विह्वलाऽपश्यद्विमानं यातमम्बरात्।
अथ सा तद्विमानस्था वैकुण्ठभुवनं ययौ॥१५॥
कार्तिकव्रतपुण्येन मत्सान्निध्यं गताऽभवत्।
अथ ब्रह्मादिदेवानां यदा प्रार्थनया भुवम्॥१६॥
आगतोऽहं गणाः सर्वे यातास्तेऽपि मया सह।
एते हि यादवाः सर्वे मद्गणा एव भामिनि॥१७॥
पिता ते देवशर्माऽभूत्सत्राजिदभिधो ह्ययम्।
यश्चन्द्रनामाऽसोऽक्रूरस्त्वं सा गुणवती शुभा॥१८॥
कार्तिकव्रतपुण्येन बहु मत्प्रीतिदायिनी।
मद्द्वारि यत्त्वया पूर्वं तुलसीवाटिका कृता॥१९॥
तस्मादयं कल्पवृक्षस्तवाङ्गणगतः शुभे।
आजन्ममरणात्पूर्वं यत्कृतं कार्तिकव्रतम्॥२०॥
कदाचिदपि तेन त्वं मद्वियोगं न यास्यसि।
सत्योवाच
मासानां तु कथं नाम स मासः कार्तिको वरः॥२१॥
प्रियस्ते देवदेवेश कारणं तत्र कथ्यताम्।
श्रीकृष्ण उवाच
साधु पृष्टं त्वया कान्ते शृणुष्वैकाग्रमानसा॥२२॥
पृथोर्वैन्यस्य संवादं महर्षेर्नारदस्य च।
एवमेव पुरा पृष्टो नारदः पृथुनाऽब्रवीत्॥२३॥
नारद उवाच
शङ्खनामाभवत्पूर्वमसुरः सागरात्मजः।
इन्द्रादिलोकपालानामधिकाराञ्जहार ह॥२४॥
सुवर्णाद्रिगुहादुर्गसंस्थितास्त्रिदशादयः।
तद्वीक्षयां बभूवुस्ते तदा दैत्यो व्यचारयत्॥२५॥
हृताधिकारास्त्रिदशा मया यद्यपि निर्जिताः।
लक्ष्यन्ते बलयुक्तास्ते करणीयं मयाऽत्र किम्॥२६॥
ज्ञातं तत्तु मया देवा वेदमन्त्रबलान्विताः।
तान्हरिष्ये ततः सर्वे बलहीना भवन्ति वै॥२७॥
इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितम्।
सत्यलोकाज्जहाराऽऽशु वेदानादिस्वयम्भुवः॥२८॥
नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन्।
तोयानि विविशुर्यज्ञमन्त्रबीजसमन्विताः॥२९॥
तान्मार्गमाणः शङ्खोऽपि समुद्रान्तर्गतो भ्रमन्।
न ददर्श तदा दैत्यः क्वचिदेकत्र संस्थितान्।
अथ देवैः स्तुतो विष्णुर्बोधितस्तानुवाच ह॥३०॥
विष्णुरुवाच
वरदोऽहं सुरगणा गीतवाद्यादिमङ्गलैः॥३१॥
ऊर्जस्य शुक्लैकादश्यां भवद्भिः प्रतिबोधितः।
अतश्चैषा तिथिर्मान्या साऽतीव प्रीतिदा मम॥३२॥
वेदाः शङ्खहृताः सर्वे तिष्ठन्त्युदकसंस्थिताः।
तानानयाम्यहं देवा हत्वा सागरनन्दनम्॥३३॥
अद्यप्रभृति वेदास्तु मन्त्रबीजसमन्विताः।
प्रत्यब्दं कार्तिके मासि विश्रमन्त्वप्सु सर्वदा॥३४॥
कालेऽस्मिन्ये प्रकुर्वन्ति प्रातःस्नानं नरोत्तमाः।
ते सर्वे यज्ञावभृथैः सुस्नाताः स्युर्न संशयः॥३५॥
अद्यप्रभृत्यहमपि भवामि जलमध्यगः।
भवन्तोऽपि मया सार्धमायान्तु समुनीश्वराः॥३६॥
कार्तिकव्रतिनां चेन्द्र रक्षा कार्या त्वया सदा।
इत्युक्त्वा भगवान् विष्णुः शफरीतुल्यरूपधृक्।
खात्पपात जले विन्ध्यवासिनः कस्य पश्यतः॥३७॥
हत्वा शङ्खासुरं विष्णुर्बदरीवनमागमत्।
तत्राऽऽहूय ऋषीन्सर्वानिदमाज्ञापयत्प्रभुः॥३८॥
विष्णुरुवाच
जलान्तरविशीर्णांस्तान्यूयं वेदान् प्रमार्गथ।
आनयध्वं च त्वरिताः सागरस्य जलान्तरात्।
तावत्प्रयागं तिष्ठामि देवतागणसंयुतः॥३९॥
नारद उवाच
ततस्तैः सर्वमुनिभिस्तपोबलसमन्वितैः॥४०॥
उद्धृताश्च सबीजास्ते वेदा यज्ञसमन्विताः।
तेषु यावन्मितं येन लब्धं तावद्धि तस्य तत्॥४१॥
स स एव ऋषिर्जातस्तत्तत्प्रभृति पार्थिव।
अथ सर्वेऽपि सङ्गम्य प्रयागं मुनयो ययुः॥४२॥
विष्णवे सविधात्रे ते लब्धान्वेदान्न्यवेदयन्।
लब्ध्वा वेदान्समग्रांस्तु ब्रह्मा हर्षसमन्वितः॥४३॥
अयजद्वाजिमेधेन देवर्षिगणसंयुतः।
यज्ञान्ते देवताः सर्वे विज्ञप्तिं चक्रुरञ्जसा॥४४॥
देवा ऊचुः
देवदेव जगन्नाथ विज्ञप्तिं शृणु नः प्रभो।
हर्षकालोऽयमस्माकं तस्मात् त्वं वरदो भव॥४५॥
स्थानेऽस्मिन्द्रुहिणो वेदान्नष्टान् प्राप पुनस्त्वयम्।
यज्ञभागान्वयं प्राप्तास्त्वत्प्रसादाद्रमापते॥४६॥
स्थानमेतद्धि नः श्रेष्ठं पृथिव्यां पुण्यवर्धनम्।
भुक्तिमुक्तिप्रदं चाऽस्तु प्रसादाद्भवतः सदा॥४७॥
कालोऽप्ययं महापुण्यो ब्रह्मघ्नाऽऽदिविशुद्धिकृत्।
दत्ताऽक्षयकरं चाऽस्तु वरमेवं ददस्व नः॥४८॥
विष्णुरुवाच
ममाप्येतद्वृतं देवा यद्भवद्भिरुदाहृतम्।
तथास्तु सुलभं त्वेतद्ब्रह्मक्षेत्रमितिप्रथम्॥४९॥
सूर्यवंशोद्भवो राजा गङ्गामत्रानयिष्यति।
सा सूर्यकन्यया चात्र कालिन्द्या योगमेष्यति॥५०॥
यूयं च सर्वे ब्रह्माद्या निवसन्तु मया सह।
तीर्थराजेति विख्यातं तीर्थमेतद्भविष्यति॥५१॥
सर्वपापानि नश्यन्ति तीर्थराजस्य दर्शनात्।
सूर्ये मकरगे प्राप्ते स्नायिनां पापनाशनः॥५२॥
कालोऽप्येष महापुण्यफलदोऽस्तु सदा नृणाम्।
सालोक्यादिफलं स्नानैर्माघे मकरगे रवौ॥५३॥
नारद उवाच
एवं देवान्देवदेवस्तदुक्त्वा
तत्रैवान्तर्धानमागात्सवेधाः।
देवाः सर्वेऽप्यंशकैस्तेऽप्यतिष्ठं-
श्चान्तर्धानं प्रापुरिन्द्रादयस्ते॥५४॥
कार्तिके तुलसीमूले योऽर्चयेद्धरिमीश्वरम्।
भुक्त्वेह निखिलान्भोगानन्ते विष्णुपुरं व्रजेत्॥५५॥
आदितः श्लोकाः — ९६६
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
सत्यभामापूर्वजन्मवृत्तान्तकथनपूर्वक प्रयागतीर्थप्रशंसाप्रसङ्गवर्णनं
नाम त्रयोदशोऽध्यायः॥१३॥
❀