अथ द्वादशोऽध्यायः

शौनक उवाच

कार्तिकस्य च माहात्म्यं महत्पुण्यफलप्रदम्।
कदा धात्री समुत्पन्ना कथं सा ख्यातिमागता॥१॥
कस्मादियं पवित्रा च कस्मात्पापप्रणाशिनी।
आमर्दकी कृता केन कथयस्वात्र विस्तरात्॥२॥

सूत उवाच

कथयामि द्विजश्रेष्ठ यथा चेयं हि पुण्यदा।
ऊर्जशुक्लचतुर्दश्यां धात्रीपूजां समाचरेत्॥३॥
आमर्दकीमहावृक्षः सर्वपापप्रणाशनः।
वैकुण्ठाख्यचतुर्दश्यां धात्रीछायां गतो नरः॥४॥
पूजयेत् तत्र देवेशं राधया सहितं हरिम्।
प्रदक्षिणां ततः कुर्याच्छतमष्टोत्तरं तथा॥५॥
सुवर्णरजतैर्वाऽपि फलैरामलकैस्तथा।
शतमष्टोत्तरं कुर्यादेकैकेन प्रदक्षिणाम्॥६॥
साष्टाङ्गं प्रणतो भूत्वा प्रार्थयेत्परमेश्वरम्।
धात्रीछायां समाश्रित्य शृणुयाच्च कथामिमाम्॥७॥
ब्राह्मणान्भोजयेत्पश्चाद् यथाशक्त्या च दक्षिणाम्।
ब्राह्मणेषु च तुष्टेषु तुष्टो मोक्षप्रदो हरिः॥८॥
अत्र ते कथयिष्यामि कथां पुण्यफलप्रदाम्।
आमर्दकीफलं वक्तुं ब्रह्मा चापि न पार्यते॥९॥
एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे।
नष्टे देवासुरगणे प्रणष्टोरगराक्षसे॥१०॥
तत्र देवाधिदेवेशः परमात्मा सनातनः।
जजाप ब्रह्म परममात्मनः परमाव्ययम्॥११॥
ततोऽस्य ब्रह्म जपतो निरगाच्छ्वसितं पुरः।
तद्दर्शनानुरागेण नेत्राभ्यामगमज्जलम्॥१२॥
प्रेमाश्रुभरनिर्भिन्नो भूमौ बिन्दुः पपात सः।
तस्माद्बिन्दो समुत्पन्नः स्वयं धात्री नगो महान्॥१३॥
शाखाप्रशाखाबहुलः फलभारेण पीडितः।
सर्वेषामेव वृक्षाणामादिरोहः प्रकीर्तितः॥१४॥
ब्रह्मा तमसृजत्पूर्वं तत्पश्चाच्चासृजत्प्रजाः।
देवदानवगन्धर्वयक्षराक्षसपन्नगान्॥१५॥
असृजद्भगवान्देवो मानुषांश्च तथाऽमलान्।
आजग्मुस्तत्र देवास्ते यत्र धात्री हरिप्रिया॥१६॥
तां दृष्ट्वा ते महाभागाः परमं विस्मयं गताः।
न जानीम इमं वृक्षं चिन्तयन्तो मुहुर्मुहुः॥१७॥
एवं चिन्तयतां तेषां वागुवाचाशरीरिणी।
आमर्दकी नगो ह्येष प्रवरो वैष्णवो यतः॥१८॥
अस्य वै स्मरणादेव लभेद्गोदानजं फलम्।
दर्शनाद्द्विगुणं पुण्यं त्रिगुणं भक्षणात्तथा॥१९॥
तस्मात् सर्वप्रयत्नेन सेव्या आमर्दकी सदा।
सर्वपापहरा प्रोक्ता वैष्णवी पापनाशिनी॥२०॥
तस्या मूले स्थितो विष्णुस्तदूर्ध्वं च पितामहः।
स्कन्धे च भगवान् रुद्रः संस्थितः परमेश्वरः॥२१॥
शाखासु सवितारश्च प्रशाखासु च देवताः।
पर्णेषु देवताः सन्ति पुष्पेषु मरुतस्तथा॥२२॥
प्रजानां पतयः सर्वे फलेष्वेवं व्यवस्थिताः।
सर्वदेवमयी ह्येषा धात्री वै कथिता मया॥२३॥
अतः सा पूजनीया च सर्वकामार्थसिद्धये।
एकदा नारदो योगी ब्रह्मणः पुरतः स्थितः।
नमस्कृत्वा जगन्नाथं पप्रच्छातीव विस्मितः॥२४॥

नारद उवाच

यथा प्रियं सुतुलसीकाननं सर्वदा हरेः।
तथा धात्रीवनं मासे कार्तिके श्रीहरिप्रियम्॥२५॥

ब्रह्मोवाच

धात्रीवने हरेः पूजा धात्री छायासु भोजनम्।
कार्तिके मासि यः कुर्यात्तस्य पापं विनश्यति॥२६॥
तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके।
नित्यं धात्रीं समाश्रित्य तिष्ठन्त्यर्के तुलास्थिते॥२७॥
यत्किञ्चित्कुरुते पुण्यं धात्रीछायासु मानवः।
तत्कोटिगुणितं भूयान्नात्र कार्या विचारणा॥२८॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्॥२९॥
अयोध्यानगरे कश्चिद् वैश्यश्चाऽऽसीद् द्विजोत्तम।
पुत्रदारविहीनश्च दैवाद्दारिद्र्यपीडितः॥३०॥
भिक्षया चोदराग्निं स शमयामास नारद।
कदाचिद्वणिजो वैश्यो ययाचे क्षुत्प्रपीडितः॥३१॥
भिक्षाप्तचणकान्गृह्य धात्रीछायामगात्किल।
तत्र तान्भक्षयामास कार्तिके मासि नारद॥३२॥
केचिदुर्वरितास्तेषु चणकास्तत्र नारद।
वैश्येन तेन दत्ता हि क्षुत्क्षामाय द्विजातये॥३३॥
तेन पुण्यप्रभावेन राजाऽऽसीद्धनिकः क्षितौ।
तस्माद्दानं प्रकर्तव्यं कार्तिके मासि सर्वदा॥३४॥
धात्रीवने मुनिश्रेष्ठ सर्वकामार्थसिद्धये।
धात्रीछायां समाश्रित्य कार्तिके च हरेः कथाम्।
यः शृणोति स पापेभ्यो मुच्यते द्विजसूनुवत्॥३५॥

नारद उवाच

कोऽभूद्द्विजसुतो ब्रह्मन् किं पापं कृतवान् पुरा।
तस्य जाता कथं मुक्तिरेतद्विस्तरतो वद॥३६॥

ब्रह्मोवाच

पुरा द्विजवरश्चासीत्कावेर्या उत्तरे तटे॥३७॥
देवशर्मेति विख्यातो वेदवेदाङ्गपारगः।
तस्य पुत्रो दुराचारस्तमाह च पिता हितम्॥३८॥
इदानीं कार्तिको मासो वर्तते हरिवल्लभः।
तत्र स्नानं च दानं च व्रतानि नियमान्कुरु॥३९॥
तुलसीपुष्पसहितां कुरुपूजां हरेः सुत।
दीपदानं च विविधं नमस्कारं प्रदक्षिणाम्॥४०॥
एवं पितुर्वचः श्रुत्वा पुत्रः क्रोधसमन्वितः।
पितरं प्राह दुष्टात्मा चलदोष्ठो विनिन्दयन्॥४१॥

पुत्र उवाच

न करिष्याम्यहं तात कार्तिके पुण्यसङ्ग्रहम्।
इति पुत्रवचः श्रुत्वा सक्रोधः प्राह तं सुतम्॥४२॥
मूषको भव दुर्बुद्धे वने वृक्षस्य कोटरे।
इति शापभयाद्भीतो नत्वा पितरमब्रवीत्॥४३॥
दुर्योनेर्मम मुक्तिः स्यात्कथं तद्वद मे गुरो।
इति प्रसादितो विप्रः प्राह निष्कृतिकारणम्॥४४॥
यदोर्जव्रतजं पुण्यं शृणोषि हरिवल्लभम्।
तदा ते भविता मुक्तिस्तत्कथाश्रवणात्सुत॥४५॥
स पित्रा चैवमुक्तस्तु तत्क्षणान्मूषकोऽभवत्।
बहुवर्षसहस्राणि गह्वरे विपिने वसन्॥४६॥
एकदा कार्तिके मासि विश्वामित्रः सशिष्यकः।
स्नात्वा नद्यां हरिं चार्च्य धात्रीछायां समाश्रितः॥४७॥
कथयामास माहात्म्यं शिष्येभ्यश्चोर्जसम्भवम्।
तदा कश्चिद्दुराचारो व्याधोऽगान्मृगयां चरन्॥४८॥
दृष्ट्वा ऋषिगणान्हन्तुं कृतेच्छः प्राणिघातकः।
तेषां दर्शनमात्रेण सुबुद्धिरभवत्तदा॥४९॥
अथोवाच द्विजान्नत्वा भवद्भिः क्रियतेऽत्र किम्।
तेनैवमुक्तो विप्रेन्द्रो विश्वामित्रस्तमब्रवीत्॥५०॥

विश्वामित्र उवाच

सर्वेषामेव मासानां कार्तिकः श्रेष्ठ उच्यते।
तस्मिन्यत्क्रियते कर्म वर्धते वटबीजवत्॥५१॥
कार्तिके मासि यः कुर्यात्स्नानं दानं च पूजनम्।
विप्राणां भोजनं चैव तदक्षय्यफलं भवेत्॥५२॥
व्याधप्रयुक्तमाकर्ण्य धर्मं च ऋषिणा द्विजः।
मौषकं देहमुत्सृज्य दिव्यदेहोऽभवत्तदा॥५३॥
विश्वामित्रं प्रणम्याथ स्ववृत्तान्तं निवेद्य च।
अनुज्ञातोऽथ ऋषिणा विमानस्थो दिवं ययौ॥५४॥
विस्मितो गाधिपुत्रस्तु व्याधश्चैव विशेषतः।
व्याधोऽप्यूर्जव्रतं कृत्वा जगाम हरिमन्दिरम्॥५५॥
तस्मात् सर्वप्रयत्नेन कार्तिके केशवाग्रतः।
धात्रीछायां समाश्रित्य कथाश्रवणमाचरेत्॥५६॥
मूषकोऽपि च दुर्योनेर्मुक्त ऊर्जकथाश्रुतेः।
शृणुयाच्छ्रावयेद्यो वा मुक्तिभागी न संशयः॥५७॥
धात्रीछायां समाश्रित्य वनभोजनमाचरेत्।
आदौ कृत्वा तथा स्नानमुदके वनसंस्थिते।
कृत्वा कर्माणि नित्यानि माधवं पूजयेत्ततः॥५८॥
धात्रीछायां समाश्रित्य हरौ भक्तिसमन्वितः।
शृणुयाच्च कथां दिव्यां मासमाहात्म्यशंसनीम्॥५९॥
ततस्तु ब्राह्मणान्भक्त्या भोजयेद्ब्रह्मवित्तमान्।
ततो भुञ्जीत विप्रेन्द्र स्वयं हरिमनुस्मरन्॥६०॥
एवङ्कृते व्रते विप्र कार्तिके हरिवल्लभे।
यत्पापं नश्यते पुत्र सावधानमना शृणु॥६१॥
हरेर्नार्पितभोगाच्च भोजने सूर्यदर्शनात्।
रजस्वलावाक्छ्रवणपापाद्भोजनके तथा॥६२॥
भोजनावसरे चान्यस्पर्शदोषस्तु यद्भवेत्।
निषिद्धभोजनात्तस्माद्भोजने चान्नदूषणात्॥६३॥
शुद्धस्यापि तथा त्यागात्पुण्यकाले हरिप्रिये।
एतैर्यत्साधितं पापं तत्सर्वं नश्यति ध्रुवम्॥६४॥
तस्मात् सर्वप्रयत्नेन धात्र्यां भोजनमाचरेत्॥६५॥
कार्तिके मासि वै विप्रो धात्रीमालां तु यो वहेत्।
तथैव तुलसीमालां तस्य पुण्यमनन्तकम्॥६६॥
धात्रीछायां समाश्रित्य दीपमालार्पणं नरः।
करिष्यति विशेषेण तस्य पुण्यमनन्तकम्॥६७॥
राधादामोदरौ पूज्यौ तुलस्यधो विशेषतः।
तुलस्यभावे कर्तव्या पूजा धात्रीतले शुभा॥६८॥
धात्रीछायातले येन सकृद्भुक्तं तु कार्तिके।
दम्पत्योर्भोजनं दत्तमन्नदोषात्प्रमुच्यते॥६९॥
सम्पूर्णे कार्तिके यस्तु सम्पूज्यामलकीं शुभाम्।
राधादामोदरप्रीत्यै भोजयित्वा च दम्पती।
पश्चात्स्वयं तु भुञ्जीत न श्रीस्तस्य क्षयं व्रजेत्॥७०॥
यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं मुने।
प्रियो भवति देवानां मनुष्याणां च का कथा॥७१॥
धात्रीफलविलिप्ताङ्गो धात्रीफलसमन्वितः।
धात्रीफलकृताहारो नरो नारायणो भवेत्॥७२॥
धात्रीफलानि यो नित्यं वहते करसम्पुटे।
तस्य नारायणो देवो वरमिष्टं प्रयच्छति॥७३॥
श्रीकामः सर्वदा स्नानं कुर्यादामलकैर्नरः।
तुष्यत्यामलकैर्विष्णुरेकादश्यां विशेषतः॥७४॥
नवम्यां दर्शे सप्तम्यां सङ्क्रान्तौ रविवासरे।
चन्द्रसूर्योपरागे च स्नानमामलकैस्त्यजेत्॥७५॥
धात्रीछायां समाश्रित्य कुर्यात्पिण्डं तु यो नरः।
प्रयान्ति पितरो मुक्तिं प्रसादान्माधवस्य तु॥७६॥
मूर्ध्नि पाणौ मुखे चैव बाह्वोः कण्ठे तु यो नरः।
धत्ते धात्रीफलं वत्स धात्रीफलविभूषितः॥७७॥
यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि।
तावत्तस्य शरीरे तु प्रीत्या लुठति केशवः॥७८॥
धात्रीफलं च तुलसी मृत्तिका द्वारकोद्भवा।
सफलं जीवितं तस्य त्रितयं यस्य वेश्मनि॥७९॥
यावद्दिनानि वहते धात्रीमालां कलौ नरः।
तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत्॥८०॥
मालायुग्मं वहेद्यस्तु धात्रीतुलसिसम्भवम्।
यो नरः कण्ठदेशे तु कल्पकोटिं दिवं वसेत्॥८१॥
धात्रीछायां गतो यस्तु द्वादश्यां पूजयेद्धरिम्।
तत्रैव भोजनं यस्तु ब्राह्मणानां च कारयेत्॥८२॥
स्वयं च तत्र भुङ्क्ते यः सूपभक्षादिकं तथा।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि॥८३॥
तुलस्याश्चैव धात्र्याश्च फलैः पत्रैर्हरिं यजेत्॥८४॥
तुलसी धात्रीयुक्ता हि सिक्ते सति च कार्तिके।
विलयं यान्ति पापानि ब्रह्महत्यादिकानि च॥८५॥
धर्मदत्तो द्विजः पूर्वं यथा मुक्तिमवाप ह॥८६॥

नारद उवाच

कार्तिके मासि सा सेव्या पूजनीया सदा नरैः।
चातुर्मास्ये न सेव्या सा इत्युक्तं भवता पुरा।
तस्मात् सर्वमशेषेण कथयस्व ममाग्रतः॥८७॥

ब्रह्मोवाच

कार्तिके मासि विप्रर्षे शुक्ला या दशमी शुभा।
तद्दिनारभ्य सा सेव्या दैवे पित्र्ये च कर्मणि।
दशम्यारभ्य तत्पत्रैः फलकैर्मधुसूदनम्॥८८॥
पूजयन्ति नरा ये वै ते वै वैकुण्ठगामिनः।
समाप्ते कार्तिकव्रते वनभोजनमाचरेत्॥८९॥
दशम्यां वाऽथ द्वादश्यां पौर्णमास्यामथापि वा।
पञ्चम्यां वा महाभाग वनभोजनमाचरेत्॥९०॥
सर्वोपस्करसंयुक्तो वृद्धबालैश्च संयुतः।
वनं प्रवेशयेद्धीमान्धात्रीवृक्षैः सुशोभितम्॥९१॥
चूतैर्बकैस्तथाऽश्वत्थैः पिचुमन्दैः कदम्बकैः।
न्यग्रोधतिन्तिणीवृक्षैः समन्तात्परिशोभितम्॥९२॥
तत्र गत्वा महाप्राज्ञ पुण्याहं कारयेत्पुरा।
वास्तुपीठं तथा पूज्यं धात्रीमूले तु कारयेत्॥९३॥
वेदिकां चतुरस्रां च हस्तमात्रायतां शुभाम्।
तथोपवेदिकां कृत्वा वेदिकाग्रे महामते॥९४॥
उपवेशाय देवस्य ह्यलं कार्यं तु धातुभिः।
वेदिकापश्चिमेभागे कारयेत्कुण्डमण्डपम्॥९५॥
मेखलात्रयसंयुक्तं पिप्पलच्छदसंयुतम्।
हस्तमात्रायतं सौम्य एवं कुण्डं तु कारयेत्॥९६॥
पश्चात्स्नात्वा ततो जप्त्वा देवपूजां समाचरेत्।
पश्चादग्निं समाधाय होमं कुर्याद् यथाविधि॥९७॥
पायसाज्यगुडसूपपालाशसमिधा तथा।
ग्रहाणां वास्तुदेवेभ्यश्चरुं कृत्वा प्रयत्नतः॥९८॥
धात्री शान्तिस्तथा कान्तिर्माया प्रकृतिरेव च।
विष्णुपत्नी महालक्ष्मी रमा मा कमला तथा॥९९॥
इन्दिरा लोकमाता च कल्याणी कमला तथा।
सावित्री च जगद्धात्री गायत्री सुधृतिस्तथा॥१००॥
अन्तज्ञा विश्वरूपा च सुकृपा ह्यब्धिसम्भवा।
प्रधानदेवताभिस्तु रक्षाहोमं समारभेत्॥१०१॥
संसृष्टेति च मन्त्रेण ऋषभं मेति मन्त्रतः।
अपूपं गुडसूपाभ्यां संयुतं जुहुयाद्धविः॥१०२॥
अष्टोत्तरशतं हुत्वा मूलमन्त्रेण पायसम्।
ततो ग्रहादि देवांस्तु यथासङ्ख्येन होमयेत्॥१०३॥
धात्रीहोमे महाप्राज्ञ रक्षाहोमे तु पायसम्।
ततः स्विष्टकृतं हुत्वा बलिदानं समाचरेत्॥१०४॥
इन्द्रादिलोकपालांश्च रक्षा पूज्या प्रयत्नतः।
धात्रीवृक्षस्य सर्वत्र वेदिकासंयुतस्य च॥१०५॥
सूपेन गुडमिश्रेण बलिं पश्चान्निवेदयेत्।
देवि धात्रि नमस्तुभ्यं गृहाण बलिमुत्तमम्॥१०६॥
मिश्रितं गुडसूपाभ्यां सर्वमङ्गलदायिनि।
पुत्रान्देहि महाप्राज्ञान्यशो देहि शुभप्रदम्॥१०७॥
प्रज्ञां मेधां च सौभाग्यं विष्णुभक्तिं च देहि मे।
नीरोगं कुरु मे नित्यं निष्पापं कुरु सर्वदा॥१०८॥
वर्चस्कं कुरु मां देवि धनवन्तं तथा कुरु।
इति तां प्रार्थयेद् देवीं प्रादक्षिण्याद्बलिं न्यसेत्॥१०९॥
बलिप्रदानकाले तु ये कुर्वन्ति प्रदक्षिणम्।
ते यान्ति विष्णुसालोक्यं पितृभिः सार्धमेव च॥११०॥
ततः पूर्णाहुतिं कृत्वा होमशेषं समापयेत्॥१११॥
धात्रीवृक्षस्य मूलस्थं मन्दस्मितरमापतिम्।
ते यान्ति विष्णुसायुज्यं ये पश्यन्तीह चक्षुषा॥११२॥
वैश्वदेवं ततः कृत्वा पूजयेद्वनदेवताः।
गन्धाक्षतांस्ततो दत्त्वा विप्रेभ्यः पद्मसम्भव॥११३॥
ब्राह्मणान्भोजयेत्पश्चात्स्वयं भुञ्जीत बन्धुभिः।
गृहं प्रवेशयेत्पश्चाद्वृद्धान्बालादिकैः सह॥११४॥
ब्रह्मचारी भवेद्रात्रौ क्षितिशायी भवेत्ततः।
ग्रामस्थैश्च मिलित्वा च स्वयं वा कारयेद्बुधः॥११५॥
सर्वपापविमुक्त्यर्थं वनभोजनमुत्तमम्।
कृत्वैवं सकलं कर्म कृष्णाय च समर्पयेत्॥११६॥
अश्वमेधसहस्रस्य राजसूयशतस्य च।
यत्फलं समवाप्नोति तत्फलं वनभोजने॥११७॥
अतो धात्री महाभाग पवित्रा पापनाशनी।
धात्री चैव नृणां धात्री धात्रीवत्कुरुते क्रियाम्॥११८॥
ददात्यायुः पयःपानात्स्नानाद्वै धर्मसञ्चयम्।
अलक्ष्मीनाशनं स्नानमात्रैर्निर्वाणमाप्नुयात्।
विघ्नानि नैव जायन्ते धात्रीस्नानेन वै नृणाम्॥११९॥
तस्मात् त्वं कुरु विप्रेन्द्र धात्रीस्नानं हि यत्नतः।
प्रयास्यसि हरेर्धाम देवत्वं प्राप्य नारद॥१२०॥
यत्र यत्र मुनिश्रेष्ठ धात्रीस्नानं समाचरेत्।
तीर्थे वाऽपि गृहे वाऽपि तत्र तत्र हरिः स्थितः॥१२१॥
धात्रीस्नानेन विप्रर्षे यस्यास्थीनि कलेवरे।
प्रक्षाल्यन्ते मुनिश्रेष्ठ न स गर्भगृहं वसेत्॥१२२॥
धात्रीजलेन विप्रेन्द्र येषां केशाश्च रञ्जिताः।
ते नराः केशवं यान्ति नाशयित्वा कलेर्मलम्॥१२३॥
धात्रीफलं महापुण्यं स्नानं पुण्यतमं स्मृतम्।
पुण्यात्पुण्यतरं वत्स भक्षणे मुनिसत्तम॥१२४॥
न गङ्गा न गया काशी न वेणी न च पुष्करम्।
एकैव हि यथा पुण्या धात्री माधववासरे॥१२५॥
धात्रीस्नानं हरेर्नाम तथैवैकादशी सुत।
गयाश्राद्धं तथा वत्स समानि मुनयो विदुः॥१२६॥
संस्पृशन्यस्तु वै धात्रीमहन्यहनि मानवः।
मुच्यते पातकैः सर्वैर्मनोवाक्कायसम्भवैः॥१२७॥
धात्रीफलैरमावास्यासप्तमीनवमीषु च।
रविवारे च सङ्क्रान्तौ न स्नायान्मुनिसत्तम॥१२८॥
यस्मिन्गृहेमुनिवर धात्री तिष्ठति सर्वदा।
तस्मिन्गृहे न गच्छन्ति प्रेतकूष्माण्डराक्षसाः॥१२९॥
धात्रीफलकृतां मालां कण्ठस्थां यो वहेन्नहि।
स वैष्णवो न विज्ञेयो विष्णोर्भक्तिपरो यदि॥१३०॥
न त्याज्या तुलसीमाला धात्रीमाला विशेषतः।
तथा पद्माक्षमालाऽपि धर्मकामार्थमीप्सुभिः॥१३१॥
यावद्दिनानि वहते धात्रीमालां कलौ नरः।
तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत्॥१३२॥
सर्वदेवमयी धात्री वासुदेवमनःप्रिया।
आरोपणीया सेव्या च पूजनीया सदा नरैः॥१३३॥
एतत्ते सर्वमाख्यातं धात्रीमाहात्म्यमुत्तमम्।
श्रोतव्यं च सदा भक्तैश्चतुर्वर्गफलप्रदम्॥१३४॥
धात्रीछायां समाश्रित्य कार्तिकेऽन्नं भुनक्ति यः।
अन्नसंसर्गजं पापमावर्षं तस्य नश्यति॥१३५॥

आदितः श्लोकाः — ९११
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
धात्रीमाहात्म्यवर्णनं
नाम द्वादशोऽध्यायः॥१२॥