अथ एकादशोऽध्यायः

नारद उवाच

भगवन् प्रष्टुमिच्छामि त्वामहं विनयान्वितः।
तद्व्रतं ब्रूहि मे मर्त्यो मृत्युं येन न पश्यति॥१॥

ब्रह्मोवाच

यदि पृच्छसि विप्रेन्द्र व्रतानामुत्तमं व्रतम्।
व्रतं यमद्वितीयाख्यं शृणु त्वं मृत्युनाशनम्॥२॥
कार्तिके मासि शुद्धायां द्वितीयायां मुनीश्वर।
कर्तव्यं तद्विधानेन सर्वमृत्युनिवारणम्॥३॥
ब्राह्मे मुहूर्ते चोत्थाय द्वितीयायां मुनीश्वर।
मनसा चिन्तयेदात्महितं नैवाहितं स्मरेत्॥४॥
प्रातःस्नानं ततः कुर्याद्दन्तधावनपूर्वकम्।
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः॥५॥
कृतनित्यक्रियो हृष्टः कुण्डलाङ्गदभूषितः।
औदुम्बरतरुं गत्वा कृत्वा मण्डलमुत्तमम्॥६॥
पद्ममष्टदलं कृत्वा तस्मिन्नौदुम्बरे शुभे।
विधिं विष्णुं च रुद्रं च वरदां च सरस्वतीम्॥७॥
वीणापुस्तकसंयुक्तां पूजयेत्स्वस्थमानसः।
चन्दनागरुकस्तूरीकुङ्कुमैर्द्विजसत्तम॥८॥
पुष्पैर्धूपैश्च नैवेद्यैर्नारिकेलफलादिभिः।
ततो मृत्युविनाशाथ सालङ्कारां पयस्विनीम्॥९॥
विप्राय वेदविदुषे गां दद्याच्च सवत्सकाम्।
अपमृत्युविनाशार्थं संसारार्णवतारकाम्॥१०॥
हे विप्र ते त्विमां सौम्यां धेनुं सम्प्रददाम्यहम्।
इति मन्त्रेण गां दद्याद्विप्राय ब्रह्मवादिने॥११॥
तदलाभे तु विप्राय भक्त्या दद्यादुपानहौ।
ततः पूजां समाप्याथ भक्तिमान् पुरुषोत्तमे॥१२॥
ज्ञातिश्रेष्ठान्वयोवृद्धान्सम्यग्भक्त्याऽभिवादयेत्।
नानाविधैः फलै रम्यैस्तर्पयेत्स्वजनानपि॥१३॥
ततः सोदरसम्पन्ना भगिनी या भवेन्मुने।
तस्या गृहं समागत्य सम्यग्भक्त्याऽभिवादयेत्॥१४॥
भगिनि सुभगे भद्रे त्वदङ्घ्रिसरसीरुहम्।
श्रेयसेऽथ नमस्कर्तुमागतोऽस्मि तवाऽऽलयम्॥१५॥
इत्युक्त्वा भगिनीं तां तु विष्णुबुद्ध्याऽभिवादयेत्।
तदा तु भगिनी श्रुत्वा भ्रातुर्वचनमुत्तमम्॥१६॥
भगिन्या भ्रातरं वाक्यं वक्तव्यं प्रति नारद।
अद्य भ्रातरहं जाता त्वत्तो धन्याऽस्मि मङ्गला॥१७॥
भोक्तव्यं तेऽद्य मद्गेहे स्वायुषे कुलदीपक।
कार्तिके शुक्लपक्षस्य द्वितीयायां सहोदर॥१८॥
यमो यमुनया पूर्वं भोजितः स्वगृहेऽर्चितः।
अस्मिन्दिने यमेनापि नारकीयाश्च मोचिताः।
अपि बद्धाः कर्मपाशैः स्वेच्छया पर्यटन्ति ते॥१९॥
स्वसुर्नरो वेश्मनि यो न भुङ्क्ते
यमद्वितीयादिनमत्र लब्ध्वा।
तं पापिनं प्राप्य वयं सुहृष्टाः
प्रभक्षयामोऽद्य च भक्ष्यहीनाः॥२०॥
इति पापा रटन्तीह ब्रह्महत्यादयस्तथा।
तस्माद्भ्रातर्मद्गृहे तु भोजनं कुरु कार्तिके॥२१॥
शुक्लायां तु द्वितीयायां विश्रुतायां जगत्त्रये।
अस्यां निजगृहे पुत्र भुज्यते न बुधैरपि॥२२॥
इत्युक्तः स तथेत्युक्ता भगिनीं पूजयेद्व्रती।
प्रहर्षास्तु महाभाग वस्त्रालङ्कारभूषणैः॥२३॥
अग्रजामभिवन्द्याऽथ आशिषं च प्रगृह्य च।
सर्वा भगिन्यः सन्तोष्या वस्त्रालङ्कारदानतः॥२४॥
अभावे स्वस्य तु स्वसुः पितृव्याः स्वपितुः स्वसा।
तस्या गृहं समागत्य कुर्याद्भोजनमादरात्॥२५॥
एवं यः कुरुते पुत्र द्वितीयां यमनामिकाम्।
अपमृत्युविनिर्मुक्तः पुत्रपौत्रादिभिर्वृतः॥२६॥
इह भुक्त्वा तु विपुलान्भोगानन्यान्यथेप्सितान्।
अन्ते मोक्षमवाप्नोति नान्यथा मद्वचो भवेत्॥२७॥
व्रतान्येतानि सर्वाणि दानानि विविधानि च।
गृहस्थस्यैव युज्यन्ते तस्माद्गार्हस्थ्यमाश्रयेत्॥२८॥
कथां यमद्वितीयाया व्रतस्थः शृणुयान्नरः।
तस्य सर्वाणि पापानि नश्यन्तीत्याह माधवः॥२९॥

सूत उवाच

कार्तिके च द्वितीयायां पूर्वाह्णे यममर्चयेत्।
भानुजायां नरः स्नात्वा यमलोकं न पश्यति॥३०॥
कार्तिके शुक्लपक्षे तु द्वितीयायां तु शौनक।
यमो यमुनया पूर्वं भोजितः स्वगृहेऽर्चितः॥३१॥
द्वितीयायां महोत्सर्गो नारकीयाश्च तर्पिताः।
पापेभ्यो विप्रयुक्तास्ते मुक्ताः सर्वे निबन्धनात्॥३२॥
अत्राऽऽशिताश्च सन्तुष्टाः स्थिताः सर्वे यदृच्छया।
तेषां महोत्सवो वृत्तो यमराष्ट्रसुखावहः॥३३॥
अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता।
तस्मान्निजगृहे विप्र न भोक्तव्यं ततो बुधैः॥३४॥
स्नेहेन भगिनीहस्ताद्भोक्तव्यं बलवर्धनम्।
ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः॥३५॥
महिषासनमारूढो दण्डमुद्गरभृत्प्रभुः।
वेष्टितः किङ्करैर्हृष्टैस्तस्मै याम्यात्मने नमः॥३६॥
यैर्भगिन्यः सुवासिन्यो वस्त्रदानादितोषिताः।
न तेषां वत्सरं यावत्कलहो न रिपोर्भयम्॥३७॥
धन्यं यशस्यमायुष्यं धर्मकामार्थसाधनम्।
व्याख्यातं सकलं पुत्र सरहस्यं मयाऽनघ॥३८॥
यस्यां तिथौ यमुनया यमराजदेवः
सम्भोजितः प्रतितिथौ स्वसृसौहृदेन।
तस्मात् स्वसुः करतलादिह यो भुनक्ति
प्राप्नोति वित्तशुभसम्पदमुत्तमां सः॥३९॥

सूत उवाच

विशेषश्चात्र सम्प्रोक्तो वालखिल्यैर्महर्षिभिः।
तदहं सम्प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः॥४०॥

वालखिल्या ऊचुः

कार्तिकस्य सिते पक्षे द्वितीया यमसंज्ञिता।
तत्रापराह्णे कर्तव्यं सर्वथैव यमार्चनम्॥४१॥
प्रत्यहं यमुनाऽऽगत्य यमं सम्प्रार्थयत्पुरा।
भ्रातर्मम गृहे याहि भोजनार्थं गणावृतः॥४२॥
अद्य श्वो वा परश्वो वा प्रत्यहं वदते यमः।
कार्यव्याकुलचित्तानामवकाशो न जायते॥४३॥
तदैकदा यमुनया बलात्कारान्निमन्त्रितः।
स गतः कार्तिके मासि द्वितीयायां मुनीश्वराः॥४४॥
नारकीयजनान्मुक्त्वा गणैः सह रवेः सुतः।
कृताऽऽतिथ्यो यमुनया नानापाकाः कृताः खग॥४५॥
कृताभ्यङ्गो यमुनया तैलैर्गन्धमनोहरैः।
उद् वर्तनं लापयित्वा स्नापितः सूर्यनन्दनः॥४६॥
ततोऽलङ्कारकं दत्तं नानावस्त्राणि चन्दनम्।
माल्यानि च प्रदत्तानि मञ्चोपरि उपाविशत्॥४७॥
पक्वान्नानि विचित्राणि कृत्वा सा स्वर्णभाजने।
यमायाभोजयद् देवी यमुना प्रीतमानसा॥४८॥
भुक्त्वा यमोऽपि भगिनीमलङ्कारैः समर्चयत्।
नानावस्त्रैस्ततः प्राह वरं वरय भामिनि।
इति तद्वचनं श्रुत्वा यमुना वाक्यमब्रवीत्॥४९॥

यमुनोवाच

प्रतिवर्षं समागच्छ भोजनार्थं तु मद्गृहे॥५०॥
अद्य सर्वे मोचनीयाः पापिनो नरकाद्यम।
येऽद्यैव भगिनीहस्तात्करिष्यन्ति च भोजनम्।
तेषां सौख्यं प्रदेहि त्वमेतदेव वृणोम्यहम्॥५१॥

यम उवाच

यमुनायां तु यः स्नात्वा सन्तर्प्य पितृदेवताः॥५२॥
भुङ्क्ते च भगिनीगेहे भगिनीं पूजयेदपि।
कदाचिदपि मद्द्वारं न स पश्यति भानुजे॥५३॥
वीरेशैशानदिग्भागे यमतीर्थं प्रकीर्तितम्।
तत्र स्नात्वा च विधिवत्सन्तर्प्य पितृदेवताः॥५४॥
पठेदेतानि नामानि आमध्याह्नं नरोत्तमः।
सूर्यस्याभिमुखो मौनी हृतचित्तः स्थिरासनः॥५५॥
यमो निहन्ता पितृधर्मराजो
वैवस्वतो दण्डधरश्च कालः।
भूताधिपो दत्तकृतानुसारी
कृतान्तमेतद्दशभिर्जपन्ति॥५६॥
ततो यमेश्वरं पूज्य भगिनीगृहमाव्रजेत्।
मन्त्रेणानेन च तया भोजितः पूर्वमादरात्॥५७॥
भ्रातस्तवानुजाताऽहं भुङ्क्ष्व भक्तमिदं शुभम्।
प्रीतये यमराजस्य यमुनाया विशेषतः॥५८॥
ततः सन्तोष्य भगिनीं वस्त्रालङ्करणादिभिः।
स्वप्नेऽपि यमलोकस्य भविष्यति न दर्शनम्॥५९॥
नृपैः कारागृहे ये च स्थापिता मम वासरे।
अवश्यं ते प्रेषणीया भोजनार्थं स्वसुर्गृहे॥६०॥
विमोक्तव्या मया पापा नरकेभ्योऽद्य वासरे।
येऽद्य बन्दी करिष्यन्ति ते ताड्या मम सर्वथा॥६१॥
कनीयसी स्वसा नास्ति तदा ज्येष्ठागृहं व्रजेत्।
तदभावे सपत्यायाः पितृव्यजागृहे ततः॥६२॥
तदभावे मातृष्वसुर्मातुलस्याऽऽत्मजा तथा।
सापत्नगोत्रसम्बन्धैः कल्पयेदथवा क्रमम्॥६३॥
सर्वाभावे माननीया भगिनी काचिदेव हि।
गोनद्याद्यथवा तस्या अभावे सति कारयेत्॥६४॥
तदभावेप्यरण्यानीं कल्पयित्वा सहोदराम्।
अस्यां निजगृहे देवि न भोक्तव्यं कदाचन॥६५॥
ये भुञ्जते दुराचारा नरके ते पतन्ति च।
एवमुक्त्वा धर्मराजो ययौ संयमिनीं ततः॥६६॥
तस्मादृषिवराः सर्वे कार्तिकव्रतकारिणः।
भुञ्जते भगिनीहस्तात्सत्यं सत्यं न संशयः॥६७॥
यमद्वितीयां यः प्राप्य भगिनीगृहभोजनम्।
न कुर्याद् वर्षजं पुण्यं नश्यतीति रवेः श्रुतिः॥६८॥
या तु भोजयते नारी भ्रातरं भ्रातृके तिथौ।
अर्चयेच्चापि ताम्बूलैर्न सा वैधव्यमाप्नुयात्॥६९॥
भ्रातुरायुःक्षयो नूनं न भवेत् तत्र कर्हिचित्।
अपराह्णव्यापिनी सा द्वितीया भ्रातृभोजने॥७०॥
अज्ञानाद्यदि वा मोहान्न भुक्तं भगिनीगृहे।
प्रवासिना ह्यभावाद्वा ज्वरितेनाथ बन्दिना॥७१॥
एतदाख्यानकं श्रुत्वा भोजनस्य फलं भवेत्।
कार्तिके तु विशेषेण धात्रीछायां समाश्रितः॥७२॥
भोजनं कुरुते यस्तु स वैकुण्ठमवाप्नुयात्॥७३॥

आदितः श्लोकाः — ७७६
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
यमद्वितीयामाहात्म्यवर्णनं
नामैकादशोऽध्यायः॥११॥