अथ दशमोऽध्यायः

ब्रह्मोवाच

प्रतिपद्यथ चाभ्यङ्गं कृत्वा नीराजनं ततः।
सुवेषः सत्कथागीतैर्दानैश्च दिवसं नयेत्॥१॥
शङ्करस्तु पुरा द्यूतं ससर्ज सुमनोहरम्।
कार्तिके शुक्लपक्षे तु प्रथमेऽहनि सत्यवत्॥२॥
बलिराज्यदिनस्यापि माहात्म्यं शृणु तत्त्वतः।
स्नातव्यं तिलतैलेन नरैर्नारीभिरेव च॥३॥
यदि मोहान्न कुर्वीत स याति यमसादनम्।
पुरा कृतयुगस्याऽऽदौ दानवेन्द्रो बलिर्महान्॥४॥
तेन दत्ता वामनाय भूमिः स्वमस्तकान्विता।
तदानीं भगवान्साक्षात्तुष्टो बलिमुवाच ह॥५॥
कार्तिके मासि शुक्लायां प्रतिपद्यां यतो भवान्।
भूमिं मे दत्तवान्भक्त्या तेन तुष्टोऽस्मि तेऽनघ॥६॥
वरं ददामि ते राजन्नित्युक्त्वाऽदाद् वरं तदा।
त्वन्नाम्नैव भवेद्राजन्कार्तिकी प्रतिपत्तिथिः॥७॥
एतस्यां ये करिष्यन्ति तैलस्नानादिकार्चनम्।
तदक्षयं भवेद्राजन्नात्र कार्या विचारणा॥८॥
तदाप्रभृति लोकेऽस्मिन् प्रसिद्धा प्रतिपत्तिथिः।
प्रतिपत्पूर्वविद्धा नो कर्तव्या तु कथञ्चन॥९॥
तत्राभ्यङ्गं न कुर्वीत अन्यथा मृतिमाप्नुयात्।
प्रतिपद्यां यदा दर्शो मुहूर्तप्रमितो भवेत्॥१०॥
माङ्गल्यं तद्दिने चेत्स्याद्वित्तादिस्तस्य नश्यति।
बलेश्च प्रतिपद्दर्शाद्यदि विद्धं भविष्यति॥११॥
तस्यां यद्यथ चाऽऽर्तिक्यं नारी मोहात्करिष्यति।
नारीणां तत्र वैधव्यं प्रजानां मरणं ध्रुवम्॥१२॥
अविद्धा प्रतिपच्चेत्स्यान्मुहूर्तमपरेऽहनि।
उत्सवादिककृत्येषु सैव प्रोक्ता मनीषिभिः॥१३॥
प्रतिपत्स्वल्पमात्राऽपि यदि न स्यात्परेऽहनि।
पूर्वविद्धा तदा कार्या कृता नो दोषभाग्भवेत्॥१४॥
तद्दिने गृहमध्ये तु कुर्यान्मूर्तिं तदाङ्गणे।
गोमयेन च तत्रापि दधि तत्पुरतः क्षिपेत्॥१५॥
आर्तिक्यं तत्र संस्थाप्य एवं कुर्याद्विधानतः।
अभ्यङ्गं ये न कुर्वन्ति तस्यां तु मुनिपुङ्गव॥१६॥
न माङ्गल्यं भवेत्तेषां यावत्स्याद्वत्सरं ध्रुवम्।
यो यादृशेन रूपेण तस्यां तिष्ठेच्छुभे दिने॥१७॥
आवर्षं तद्भवेत्तस्य तस्मान्मङ्गलमाचरेत्।
यदीच्छेत्स्वशुभान्भोगान्भोक्तुं दिव्यान्मनोहरान्॥१८॥
कुरु दीपोत्सवं रम्यं त्रयोदश्यादिकेषु च।
शङ्करश्च भवानी च क्रीडया द्यूतमास्थिते॥१९॥
गौर्या जित्वा पुरा शम्भुर्नग्नो द्यूते विसर्जितः।
अतोऽर्थं शङ्करो दुःखी गौरी नित्यं सुखस्थिता॥२०॥
द्यूतं निषिद्धं सर्वत्र हित्वा प्रतिपदं बुधाः।
प्रथमं विजयो यस्य तस्य संवत्सरं सुखम्॥२१॥
भवान्याऽभ्यर्थिता लक्ष्मीर्धेनुरूपेण संस्थिता।
प्रातर्गोवर्धनः पूज्यो द्यूतं रात्रौ समाचरेत्॥२२॥
भूषणीयास्तदा गावो वर्ज्या वहनदोहनात्॥२३॥
गोवर्धन धराधार गोकुलत्राणकारक।
विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव॥२४॥
या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता।
घृतं वहति यज्ञार्थे मम पापं व्यपोहतु॥२५॥
अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः।
गावो मे हृदयं सन्तु गवां मध्ये वसाम्यहम्॥२६॥

॥इति गोवर्धनपूजा॥

सद्भावेनैव सन्तोष्य देवान्सत्पुरुषान्नरान्।
इतरेषामन्नपानैर्वाक्यदानेन पण्डितान्॥२७॥
वस्त्रैस्ताम्बूलधूपैश्च पुष्पकर्पूरकुङ्कुमैः।
भक्ष्यैरुच्चावचैर्भोज्यैरन्तःपुरनिवासिनः॥२८॥
ग्राम्यान्वृषभदानैश्च सामन्तान्नृपतिर्धनैः।
पदातिजनसङ्घांश्च ग्रैवेयैः कटकैः शुभैः।
स्वनामाङ्कैश्च तान् राजा तोषयेत्सज्जनान् पृथक्॥२९॥
यथार्थं तोषयित्वा तु ततो मल्लान्नरांस्तथा।
वृषभान्महिषांश्चैव युध्यमानान् परैः सह॥३०॥
राज्ञस्तथैव योधांश्च पदातीन्समलङ्कृतान्।
मञ्चाऽऽरूढः स्वयं पश्येन्नटनर्तकचारणान्॥३१॥
युद्धापयेद्वासयेच्च गोमहिष्यादिकं च यत्।
वत्सानाकर्षयेद्गोभिरुक्तिप्रत्युक्तिवादनात्॥३२॥
ततोऽपराह्णसमये पूर्वस्यां दिशि सुव्रत।
मार्गपालीं प्रबध्नाति दुर्गस्तम्भेऽथ पादपे॥३३॥
कुशकाशमयीं दिव्यां लम्बकैर्बहुभिः प्रिये।
वीक्षयित्वा गजानश्वान्मार्गपाल्यास्तले नयेत्॥३४॥
गावो वृषांश्च महिषान्महिषीर्घटकोत्कटान्।
कृतहोमैर्द्विजेन्द्रैस्तु बध्नीयान्मार्गपालिकाम्॥३५॥
नमस्कारं ततः कुर्यान्मन्त्रेणानेन सुव्रत।
मार्गपालि नमस्तुभ्यं सर्वलोकसुखप्रदे।
तले तव सुखेनाश्वा गजा गावश्च सन्तु मे॥३६॥
मार्गपालीतले पुत्र यान्ति गावो महावृषाः।
राजानो राजपुत्राश्च ब्राह्मणाश्च विशेषतः॥३७॥
मार्गपाली समुल्लङ्घ्य नीरुजः सुखिनो हि ते।
कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपतेर्बलेः॥३८॥
पूजां कुर्यात्ततः साक्षाद्भूमौ मण्डलके कृते।
बलिमालिख्य दैत्येन्द्रं वर्णकैः पञ्चरङ्गकैः॥३९॥
सर्वाभरणसम्पूर्णं विन्ध्यावलिसमन्वितम्।
कूष्माण्डमयजम्भोरुमधुदानवसंवृतम्॥४०॥
सम्पूर्णं कृष्टवदनं किरीटोत्कटकुण्डलम्।
द्विभुजं दैत्यराजानं कारयित्वा स्वके पुनः॥४१॥
गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत्।
मातृभ्रातृजनैः सार्धं सन्तुष्टो बन्धुभिः सह॥४२॥
कमलैः कुमुदैः पुष्पैः कह्लारै रक्तकोत्पलैः।
गन्धपुष्पान्ननैवेद्यैः सक्षीरैर्गुडपायसैः॥४३॥
मद्यमांससुरालेह्यचोष्यभक्ष्योपहारकैः।
मन्त्रेणानेन राजेन्द्र समन्त्री सपुरोहितः।
पूजां करिष्यते यो वै सौख्यं स्यात्तस्य वत्सरम्॥४४॥
बलिराज नमतुभ्यं विरोचनसुत प्रभो।
भविष्येन्द्र सुराराते पूजेयं प्रतिगृह्यताम्॥४५॥
एवं पूजाविधानेन रात्रौ जागरणं ततः।
कारयेद्वै क्षणं रात्रौ नटनृत्यकथानकैः॥४६॥
लोकश्चापि गृहस्यान्ते सपर्यां शुक्लतण्डुलैः।
संस्थाप्य बलिराजानं फलैः पुष्पैः प्रपूजयेत्॥४७॥
बलिमुद्दिश्य वै तत्र कार्यं सर्वं च सुव्रत।
यानि यान्यक्षयाण्याहुर्मुनयस्तत्त्वदर्शिनः॥४८॥
यदत्र दीयते दानं स्वल्पं वा यदि वा बहु।
तदक्षयं भवेत् सर्वं विष्णोः प्रीतिकरं शुभम्॥४९॥
रात्रौ ये न करिष्यन्ति तव पूजां बले नराः।
तेषां च श्रोत्रियो धर्मः सर्वस्त्वामुपतिष्ठतु॥५०॥
विष्णुना च स्वयं वत्स तुष्टेन बलये पुनः।
उपकारकरं दत्तमसुराणां महोत्सवम्॥५१॥
एकमेवमहोरात्रं वर्षे वर्षे च कार्तिके।
दत्तं दानवराजस्य आदर्शमिव भूतले॥५२॥
यः करोति नृपो राज्ये तस्य व्याधिभयं कुतः।
सुभिक्षं क्षेममारोग्यं तस्य सम्पदनुत्तमा॥५३॥
नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः॥५४॥
कौमुदी क्रियते यस्माद्भावं कर्तुं महीतले।
यो यादृशेन भावेन तिष्ठत्यस्यां च सुव्रत।
हर्षदुःखादिभावेन तस्य वर्षं प्रयाति हि॥५५॥
रुदिते रोदितं वर्षं प्रहृष्टे तु प्रहर्षितम्।
भुक्तौ भोग्यं भवेद् वर्षं स्वस्थे स्वस्थं भविष्यति॥५६॥
वैष्णवी दानवी चेयं तिथिः प्रोक्ता च कार्तिके॥५७॥
दीपोत्सवं जनितसर्वजनप्रमोदं
कुर्वन्ति ये शुभतया बलिराजपूजाम्।
दानोपभोगसुखबुद्धिमतां कुलानां
हर्षं प्रयाति सकलं प्रमुदा च वर्षम्॥५८॥
बलिपूजां विधायैवं पश्चाद्गोक्रीडनं चरेत्॥५९॥
गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः।
सोमो राजा पशून्हन्ति सुरभीपूजकांस्तथा॥६०॥
प्रतिपद्दर्शसंयोगे क्रीडनं तु गवां मतम्।
परविद्धासु यः कुर्यात्पुत्रदारधनक्षयः॥६१॥
अलङ्कार्यास्तदा गावो गोग्रासादिभिरर्चिताः।
गीतवादित्रनिर्घोषैर्नयेन्नगरबाह्यतः।
आनीय च ततः पश्चात्कुर्यान्नीराजनाविधिम्॥६२॥
अथ चेत्प्रतिपत्स्वल्पा नारी नीराजनं चरेत्।
द्वितीयायां ततः कुर्यात्सायं मङ्गलमालिकाः॥६३॥
एवं नीराजनं कृत्वा सर्वपापैः प्रमुच्यते।
प्रतिपत्पूर्वविद्धैव यष्टिकाकर्षणे भवेत्॥६४॥
कुशकाशमयीं कुर्याद्यष्टिकां सुदृढां नवाम्।
देवद्वारे नृपद्वारेऽथवाऽऽनेया चतुष्पथे॥६५॥
तामेकतो राजपुत्रा हीनवर्णास्तथैकतः।
गृहीत्वा कर्षयेयुस्ते यथासारं मुहुर्मुहुः॥६६॥
समसङ्ख्या द्वयोः कार्या सर्वेऽपि बलवत्तराः।
जयोऽत्र हीनजातीनां जयो राज्ञस्तु वत्सरम्॥६७॥
उभयोः पृष्ठतः कार्या रेखा तत्कर्षकोपरि।
रेखान्ते यो नयेत्तस्य जयो भवति नान्यथा॥६८॥
जयचिह्नमिदं राजा निदधीत प्रयत्नतः॥६९॥

आदितः श्लोकाः — ७०३
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
कार्तिकशुक्लप्रतिपन्माहात्म्यवर्णनं
नाम दशमोऽध्यायः॥१०॥