अथ नवमोऽध्यायः
वालखिल्या ऊचुः
कृष्णः प्रोवाच धर्माय द्वादशीं वत्ससंज्ञिताम्।
गोधूलिकालसंयुक्ता द्वादशी वत्सपूजने॥१॥
वत्सपूजा वटे चैव कर्तव्या प्रथमेऽहनि।
सवत्सां तुल्यवर्णां च शीलिनीं गां पयस्विनीम्।
चन्दनादिभिरालिप्य पुष्पमालाभिरर्चयेत्॥२॥
तद्दिने तैलपक्वं च स्थालीपक्वं युधिष्ठिर।
गोक्षीरं गोघृतं चैव दधिक्षीरं च वर्जयेत्॥३॥
दिनान्ते सूर्यबिम्बार्धादुभयत्र घटीदलम्।
ततो नीराजनं कार्यं निरीक्षेच्च शुभाशुभम्॥४॥
नानादीपान् प्रकल्प्याऽऽदौ स्वर्णपात्रादिसंस्थितान्।
नीराजयेद्दीपपूर्वं निरीक्षेत शुभाशुभम्॥५॥
लापयित्वा सर्वदीपानुत्तराभिमुखान्न्यसेत्।
मुख्या दीपा नव प्रोक्ता अन्यानपि च कल्पयेत्॥६॥
ज्वाला चेद्दक्षिणासंस्था सतेजस्का शिखान्विता।
स्थिरा चेत्सौख्यदा प्रोक्ता विपरीता तु दुःखदा॥७॥
कार्तिके कृष्णपत्रे तु द्वादश्यादिषु पञ्चसु।
तिथिषूक्तः पूर्वरात्रे नृणां नीराजनाविधिः॥८॥
पक्षं संसूचयत्यादिर्द्वितीयो मासमेव च।
तृतीय ऋतुमेवेह चतुर्थस्त्वयनं तथा।
वर्षं तु पञ्चमो दीपः शुभाशुभं विनिर्णयेत्॥९॥
सूर्यांशसम्भवा दीपा अन्धकारविनाशकाः।
त्रिकाले मां दीपयन्तु दिशन्तु च शुभाशुभम्॥१०॥
अभिमन्त्र्य च मन्त्रेण ततो नीराजयेत्क्रमात्॥११॥
आदौ देवांस्ततो विप्रान्हस्तिनश्च तुरङ्गमान्।
ज्येष्ठाञ्च्छ्रेष्ठाञ्जघन्यांश्च मातृमुख्याश्च योषितः॥१२॥
ततो नीराजितान्दीपान्स्वस्वस्थानेषु विन्यसेत्।
रूक्षैर्लक्ष्मीविनाशः स्याच्छ्वेतैरन्नक्षयो भवेत्।
अतिरक्तेषु युद्धानि मृत्युः कृष्णशिखेषु च॥१३॥
एकाङ्गी नाम गोपाला तयैतच्च व्रतं कृतम्।
धनधान्यसमायुक्ता जाता वर्षत्रयेण सा॥१४॥
तस्माद्गोपूजनं कार्यं द्वादश्यां कार्तिकस्य तु।
एतद्गोव्रतमाहात्म्यं श्रुत्वा कुर्वन्ति ये नराः॥१५॥
ते गोव्रतप्रभावेन न गोभिर्विच्युता भुवि।
गोऽपराधः कृतो यः स्यात्स व्रताद्विलयं व्रजेत्॥१६॥
वालखिल्या ऊचुः
कृष्णपक्षे चतुर्दश्यां मासि चाऽऽश्वयुजे तथा।
दीपोत्सव समीपे तु व्रतमेतत्समाचरेत्॥१७॥
प्रातः स्नात्वा त्रयोदश्यां कृत्वा वै दन्तधावनम्।
त्रिरात्रनियमं कृत्वा गोविन्दे भक्तितत्परः॥१८॥
कार्य एतद्व्रतस्यान्ते तथा गोवर्धनोत्सवः।
त्रिमुहूर्ताधिका ग्राह्या परवेधो न दोषभाक्॥१९॥
आश्विनस्यासिते पक्षे त्रयोदश्यां निशामुखे।
यमदीपं बलिं दद्यादपमृत्युर्विनश्यति॥२०॥
पुरा हेमनकस्यैव बालकश्चापमृत्युतः।
मुक्तोभूदाश्विने कृष्णत्रयोदश्यां दयावशात्॥२१॥
दूता ऊचुः
यथा न जीविताद्भ्रश्येदीदृशे तु महोत्सवे।
तथोपायं ब्रूहि यम कृपां कृत्वाऽस्मदग्रतः॥२२॥
यम उवाच
आश्विनस्यासिते पक्षे त्रयोदश्यां निशामुखे।
प्रतिवर्षं तु यो दद्याद्गृहद्वारे सुदीपकम्॥२३॥
मन्त्रेणानेन भो दूताः समानेयः स नोत्सवे।
प्राप्तेऽपमृत्यावपि च शासनं क्रियतां मम॥२४॥
मृत्युना पाशदण्डाभ्यां कालेन च मया सह।
त्रयोदश्यां दीपदानात्सूर्यजः प्रीयतामिति॥२५॥
मन्त्रेणानेन यो दीपं द्वारदेशे प्रयच्छति।
उत्सवे चापमृत्योश्च भयं तस्य न जायते॥२६॥
वालखिल्या ऊचुः
पूर्वविद्धचतुर्दश्यामाश्विनस्य सितेतरे।
पक्षे प्रत्यूषसमये स्नानं कुर्यात्प्रयत्नतः॥२७॥
अरुणोदयतोऽन्यत्र रिक्तायां स्नाति यो नरः।
तस्याब्दिकभवो धर्मो नश्यत्येव न संशयः॥२८॥
तथा कृष्णचतुर्दश्यामाश्विनेऽर्कोदये सुराः।
यामिन्याः पश्चिमे यामे तैलाभ्यङ्गो विशिष्यते॥२९॥
यदा चतुर्दशी न स्याद्द्विदिने चेद्विधूदये।
दिनद्वये भवेच्चापि तदा पूर्वैव गृह्यते॥३०॥
बलात्काराद्धठाद्वाऽपि शिष्टत्वान्न करोति चेत्।
तैलाभ्यङ्गं चतुर्दश्यां रौरवं नरकं व्रजेत्॥३१॥
तैले लक्ष्मीर्जले गङ्गा दीपावल्याश्चतुर्दशीम्।
प्रातःस्नानं हि यः कुर्याद्यमलोकं न पश्यति॥३२॥
अपामार्गमथो तुम्बीं प्रपुन्नाडमथापरम्।
भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय वै॥३३॥
वारत्रयं त्रिवारं च पठित्वा मन्त्रमुत्तमम्॥३४॥
सीतालोष्टसमायुक्त सकण्टकदलान्वित।
हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः।
अपामार्गं प्रपुन्नाडं भ्रामयेच्छिरसोपरि॥३५॥
स्नात्वार्द्रवाससा दद्याद्दीपकं मृत्युपुत्रयोः।
शुनकौ श्यामशबलौ भ्रातरौ यमसेवकौ।
तुष्टौ स्यातां चतुर्दश्यां दीपदानेन मृत्युजौ॥३६॥
इष्टबन्धुजनैः सार्धमेतत्स्नानं समाचरेत्।
स्नानाङ्गतर्पणं कृत्वा यमं सन्तर्पयेत्ततः॥३७॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च।
वैवस्वताय कालाय सर्वभूतक्षयाय च॥३८॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने।
वृकोदराय चित्राय चित्रगुप्ताय ते नमः॥३९॥
चतुर्दशैते मन्त्राः स्युः प्रत्येकं च नमोऽन्विताः।
एकैकेन तिलैर्मिश्रान्दद्यात्त्रीनुदकाञ्जलीन्॥४०॥
यज्ञोपवीतिना कार्यं प्राचीनावीतिनाऽथवा।
देवत्वं च पितृत्वं च यमस्यास्ति द्विरूपता॥४१॥
जीवत्पिताऽपि कुर्वीत तर्पणं यमभीष्मयोः।
नरकाय प्रदातव्यो दीपः सम्पूज्य देवताः॥४२॥
अत्रैव लक्ष्मीकामस्य विधिः स्नाने मयोच्यते।
इषे भूते च दर्शे च कार्तिके प्रथमे दिने॥४३॥
यदा स्नाति तदाऽभ्यङ्गस्नानं कुर्याद्विधूदये।
ऊर्जशुक्लद्वितीयायां तिथौ च स्वातियुग्मगे॥४४॥
मानवो मङ्गलस्नायी नैव लक्ष्म्या वियुज्यते।
दीपैर्नीराजनादत्र सैषा दीपावलिः स्मृता॥४५॥
इन्दुक्षयेऽपि सङ्क्रान्तौ रवौ पाते दिनक्षये।
अत्राभ्यङ्गो न दोषाय प्रातः पापापनुत्तये॥४६॥
माषपत्रस्य शाकं वै भुक्त्वा तस्मिन्दिने नरः।
प्रेताख्यायां चतुर्दश्यां सर्वपापैः प्रमुच्यते॥४७॥
इषासितचतुर्दश्यामिन्दुक्षयतिथावपि।
दर्शादौ स्वातिसंयुक्ते तदा दीपावलिर्भवेत्॥४८॥
कुर्यात्संलग्नमेतच्च दीपोत्सवदिनत्रयम्।
महाराजो बलिः प्रोक्तस्तुष्टेन हरिणा तथा॥४९॥
वरं याचस्व भद्रं ते यद्यन्मनसि वर्तते।
इति विष्णुवचः श्रुत्वा बलिर्वचनमब्रवीत्॥५०॥
आत्मार्थं किं याचनीयं सर्वं दत्तं मया तथा।
लोकार्थं याचयिष्यामि शक्तश्चेद्देहि तच्च मे॥५१॥
मयाऽद्य ते धरा दत्ता वामनच्छद्मरूपिणे।
त्रिभिः पदैस्त्रिदिवसैः सा चाऽऽक्रान्ता यतस्त्वया॥५२॥
तस्माद्भूमितले राज्यमस्तु घस्रत्रये हरे॥५३॥
मद्राज्ये ये दीपदानं भुवि कुर्वन्ति मानवाः।
तेषां गृहे तव स्त्रीयं सदा तिष्ठतु सुस्थिरा॥५४॥
मम राज्ये गृहे यैषामन्धकारः पतिष्यति।
लक्ष्मीसन्तानान्धकारः सदा पततु तद्गृहे॥५५॥
चतुर्दश्यां च ये दीपान्नरकाय ददन्ति च।
तेषां पितृगणाः सर्वे नरके न वसन्ति च॥५६॥
बलिराज्यं समासाद्य यैर्न दीपावलिः कृता।
तेषां गृहे कथं दीपाः प्रज्वलिष्यन्ति केशव॥५७॥
बलिराज्ये तु ये लोकाः शोकानुत्साहकारिणः।
तेषां गृहे सदा शोकः पतेदिति न संशयः॥५८॥
चतुर्दशीत्रये राज्यं बलेरस्त्विति याचयेत्।
पुरा वामनरूपेण प्रार्थयित्वा धरामिमाम्।
ददावतिथयेन्द्राय बलिं पातालवासिनम्॥५९॥
दत्तं दैत्यपतेरित्थं हरिणा तद्दिनत्रयम्।
तस्मान्महोत्सवं चात्र सर्वथैव हि कारयेत्॥६०॥
महारात्रिः समुत्पन्ना चतुर्दश्यां मुनीश्वराः।
अतस्तदुत्सवः कार्यः शक्तिपूजापरायणैः॥६१॥
बलिराज्यं समासाद्य यक्षगन्धर्वकिन्नराः।
औषध्यश्च पिशाचाश्च मन्त्राश्च मणयस्तथा॥६२॥
सर्व एव प्रहृष्यन्ति नृत्यन्ति च निशामुखे।
तत्तन्मन्त्राश्च सिद्ध्यन्ति बलिराज्ये न संशयः॥६३॥
बलिराज्यं समासाद्य यथा लोकाः सुहर्षिताः।
तथा तद्दिनमध्ये तु लोकाः स्युर्हर्षिता भृशम्॥६४॥
तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः।
उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम्॥६५॥
नरकस्थास्तु ये प्रेतास्ते मार्गं तु व्रतात् सदा।
पश्यन्त्येव न सन्देहः कार्योऽत्र मुनिपुङ्गवैः॥६६॥
आश्विने मासि भूतादितिथयः कीर्तितास्त्रयः।
दीपदानादिकार्येषु ग्राह्या मध्याह्नकालिकाः॥६७॥
यदि स्युः सङ्गवादर्वागेताश्च तिथयस्त्रयः।
दीपदानादिकार्येषु कर्तव्याः पूर्वसंयुताः॥६८॥
ऋषय ऊचुः
कौमोदिन्यास्तु माहात्म्यं प्रष्टुमिच्छामहे द्विजाः।
तस्मिन्दिने तु किं भोज्यं कस्य पूजां तु कारयेत्॥६९॥
किमर्थं क्रियते सा तु तस्याः का देवता भवेत्।
किं च तत्र भवेद्देयं किं न देयं विशेषतः॥७०॥
प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा काऽत्र प्रकीर्तिता।
दीपावल्याः फलं सर्वं वदन्तु ऋषिसत्तमाः॥७१॥
वालखिल्या ऊचुः
ततः प्रभातसमये त्वमायां तु मुनीश्वराः।
स्नात्वा देवान् पितॄन्भक्त्या सम्पूज्याथ प्रणम्य च॥७२॥
कृत्वा तु पार्वणश्राद्धं दधिक्षीरघृतादिभिः।
दिवा तत्र न भोक्तव्यमृते बालातुराज्जनात्॥७३॥
ततः प्रदोषसमये पूजयेदिन्दिरां शुभाम्।
कुर्यान्नानाविधैर्वस्त्रैः स्वच्छं लक्ष्म्याश्च मण्डपम्॥७४॥
नानापुष्पैः पल्लवैश्च चित्रैश्चापि विचित्रितम्।
तत्र सम्पूजयेल्लक्ष्मीं देवांश्चापि प्रपूजयेत्॥७५॥
सम्पूज्या देवनार्योऽपि बहुभिश्चोपचारकैः।
पादसंवाहनं कुर्याल्लक्ष्म्यादीनां तु भक्तितः॥७६॥
अस्मिन्नहनि सर्वेऽपि विष्णुना मोचिताः पुरा।
बलिकारागृहाद् देवा लक्ष्मीश्चापि विमोचिता॥७७॥
लक्ष्म्या सार्धं ततो देवा जग्मुः क्षीरोदधौ पुनः।
प्रसुप्ता बहुकालं ते सुखं तस्मान्मुनीश्वराः॥७८॥
रचनीयाः सूत्रगर्भाः पर्यङ्काश्च सुतूलिकाः।
दुग्धफेनोपमैर्वस्त्रैरास्तृताश्च यथादिशम्॥७९॥
स्थापयेत्तान्सुराँल्लक्ष्मीं वेदघोषसमन्वितः।
लक्ष्मीर्दैत्यभयान्मुक्ता सुखं सुप्ताम्बुजोदरे॥८०॥
अतोऽत्र विधिवत्कार्या तुष्ट्यै तु सुखसुप्तिका।
तदह्नि पद्मशय्यां यः पद्मासौख्यविवृद्धये॥८१॥
कुर्यात्तस्य गृहं मुक्त्वा तत्पद्मा क्वापि न व्रजेत्।
न कुर्वन्ति नरा इत्थं लक्ष्म्या ये सुखसुप्तिकाम्॥८२॥
धनचिन्ता विहीनास्ते कथं रात्रौ स्वपन्ति हि।
तस्मात् सर्वप्रयत्नेन लक्ष्मीं सम्पूजयेन्नरः॥८३॥
स तु दारिद्र्यनिर्मुक्तः स्वजातौ स्यात्प्रतिष्ठितः।
जातिपत्रलवङ्गैलात्वक्कर्पूरसमन्वितम्॥८४॥
पाचयित्वा गव्यदुग्धं सितां दत्त्वा यथोचिताम्।
लड्डुकांस्तस्य कुर्वीत तांश्च लक्ष्म्यै समर्पयेत्॥८५॥
अन्यच्चतुर्विधं भक्ष्यं दद्याच्छ्रीः प्रीयतामिति।
अप्रबुद्धे हरौ पूर्वं स्त्रीभिर्लक्ष्मीं प्रबोधयेत्॥८६॥
प्रबोधसमये लक्ष्मीं बोधयित्वा भुनक्ति या।
पुमान्वा वत्सरं यावल्लक्ष्मीस्तं नैव मुञ्चति॥८७॥
अभयं प्राप्य विप्रेभ्यो विष्णुभीताः सुरद्विषः।
क्षीराब्धौ तुष्टुवुर्ज्ञात्वा सुप्तां पद्माश्रितां श्रियम्॥८८॥
त्वं ज्योतिः श्रीरवीन्द्वग्निविद्युत्सौवर्णतारकाः।
सर्वेषां ज्योतिषां ज्योतिर्दीपज्योतिःस्थिते नमः॥८९॥
या लक्ष्मीर्दिवसे पुण्ये दीपावल्यां च भूतले।
गवां गोष्ठे तु कार्तिक्यां सा लक्ष्मीर्वरदा मम॥९०॥
दीपदानं ततः कुर्यात्प्रदोषे च तथोल्मुकम्।
भ्रामयेत्स्वस्य शिरसि सर्वारिष्टनिवारणम्॥९१॥
दीपवृक्षास्तथा कार्याः शक्त्या देवगृहादिषु।
चतुष्पथे श्मशाने च नदीपर्वतवेश्मसु॥९२॥
वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च।
वस्त्रैः पुष्पैः शोभितव्या राजमार्गस्य भूमयः॥९३॥
सर्वं पुरमलङ्कृत्य प्रदोषे तदनन्तरम्।
ब्राह्मणान्भोजयित्वाऽऽदौ सम्भोज्य च बुभुक्षितान्॥९४॥
अलङ्कृतेन भोक्तव्यं नववस्त्रोपशोभिना।
ततोऽपराह्णसमये घोषयेन्नगरं नृपः॥९५॥
अद्य राज्यं बलेर्लोका यथेच्छं क्रीड्यतामिति।
यथेच्छं क्रीडतां बाला इत्याज्ञाप्य नृपेण तु॥९६॥
तेभ्यो दद्यात्क्रीडनकं ततः पश्येच्छुभाशुभम्।
बलिराज्ये प्रकर्तव्यं यद्यन्मनसि वर्तते॥९७॥
जीवहिंसा सुरापानमगम्यागमनं तथा।
चौर्यं विश्वासघातश्च पञ्चैतानि मुनीश्वराः।
बलिराज्ये तु नरकद्वाराण्युक्तानि सन्त्यजेत्॥९८॥
ततोऽर्धरात्रसमये स्वयं राजा व्रजेत्पुरम्।
अवलोकयितुं रम्यं पद्भ्यामेव शनैःशनैः।
बलिराज्यप्रमोदं च दृष्ट्वा स्वगृहमाव्रजेत्॥९९॥
एवं गते निशीथे च जने निद्रार्धलोचने।
एवं नगरनारीभिः शूर्पडिण्डिमवादनैः।
निष्कास्यते प्रदृष्टाभिरलक्ष्मीः स्वगृहाङ्गणात्॥१००॥
दण्डैकरजनीयोगे दर्शः स्यात्तु परेऽहनि।
तदा विहाय पूर्वेद्युः परेऽह्नि सुखरात्रिका॥१०१॥
ये वैष्णवाऽवैष्णवाश्च बलिराज्योत्सवं नराः।
न कुर्वन्ति वृथा तेषां धर्माः स्युर्नात्र संशयः॥१०२॥
रात्रौ जागरणं कुर्यात्पुराणपठनादिभिः।
द्यूतेन वा हरेरग्रे गीतया वा तथैव च॥१०३॥
आदितः श्लोकाः — ६३४
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
वत्सद्वादशीयमत्रयोदशीनरकचतुर्दशीदीपावलीकृत्यवर्णनं
नाम नवमोऽध्यायः॥९॥
❀