अथ अष्टमोऽध्यायः
नारद उवाच
भूयः कथय तृप्तिर्हि नास्ति मे कमलासन।
त्वद्वागमृतपानेन तृषा भूयः प्रवर्धते॥१॥
ब्रह्मोवाच
प्रातः स्नात्वा शुचिर्भूत्वा कार्तिके विष्णुतत्परः।
देवं दामोदरं पूज्य कोमलैस्तुलसीदलैः।
स तु मोक्षमवाप्नोति नात्र कार्या विचारणा॥२॥
भक्त्या विरहितो यस्तु सुवर्णादिभिरर्चयेत्।
तस्य पूजां न गृह्णाति नात्र कार्या विचारणा॥३॥
सर्वेषामपि वर्णानां भक्तिरेषा परा स्मृता।
भक्त्या विरहितं कर्म न विष्णोः प्रियकारणम्॥४॥
भक्त्या सम्पूजितो नित्यं तुलस्यास्तु दलार्धतः।
स्वयं प्रत्यक्षमायाति भगवान्हरिरीश्वरः॥५॥
विष्णुदासः पुरा भक्त्या तुलसीपूजनेन च।
विष्णुलोकं गतः शीघ्रं चोलो गौणत्वमागतः॥६॥
तुलस्याः शृणु माहात्म्यं पापघ्नं पुण्यवर्धनम्।
यत्पुरा विष्णुना प्रोक्तं रमायै तद्वदाम्यहम्॥७॥
सम्प्राप्ते कार्तिके मासि तुलस्याः पूजनं हरेः।
ये कुर्वन्ति नरा भक्त्या ते यान्ति परमं पदम्॥८॥
तस्मात् सर्वप्रयत्नेन तुलस्याः कोमलैर्दलैः।
पूजनीयो महाभक्त्या सर्वक्लेशविनाशनः॥९॥
रोपिता तुलसी यावत्कुरुते मूलविस्तरम्।
तावद्युगसहस्राणि ब्रह्मलोके महीयते॥१०॥
तुलसीपत्रसंयुक्तजले स्नानं चरेद्यदि।
सर्वपापविनिर्मुक्तो मोदते विष्णुमन्दिरे॥११॥
वृन्दावनं च कुरुते रोपणार्थं महामुने।
तावतैव विमुक्ताघो ब्रह्मभूयाय कल्पते॥१२॥
तुलसीकाननं ब्रह्मन्गृहे यस्यावतिष्ठते।
तद्गृहं तीर्थभूतं तु न यान्ति यमकिङ्कराः॥१३॥
सर्वपापहरं पुण्यं कामदं तुलसीवनम्।
रोपयन्ति नराः श्रेष्ठास्ते न पश्यन्ति भास्करिम्॥१४॥
तुलसीकाष्ठसंयुक्तं गन्धं यो धारयेन्नरः।
तद्देहं न स्पृशेत्पापं क्रियमाणं तथैव च॥१५॥
तुलसीविपिनच्छाया यत्र चैव भवेद्द्विज।
तत्र श्राद्धं प्रकर्तव्यं पितॄणां तृप्तिहेतवे॥१६॥
यत्कृते तुलसीपत्रं कर्णे शिरसि दृश्यते।
यमस्तं नेक्षितुं शक्तः किमु दूता भयङ्कराः॥१७॥
तुलस्या महिमां यस्तु शृणुयान्नित्यमादृतः।
सवपापविमुक्तात्मा ब्रह्मलोकं स गच्छति॥१८॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
तुलस्या विषये ब्रह्मञ्च्छ्रवणात्पापनाशनम्॥१९॥
पुरा काश्मीरदेशे तु ब्राह्मणौ सम्बभूवतुः।
हरिमेधःसुमेधाख्यौ विष्णुभक्तिपरायणौ॥२०॥
सर्वभूतदयायुक्तौ सर्वतत्त्वार्थवेदिनौ।
कदाचित्तौ द्विजवरौ तीर्थयात्रापरायणौ॥२१॥
गच्छतावेकतो विप्रौ कान्तारे श्रमविह्वलौ।
तुलसीकाननं तत्र ददर्शतुररिन्दमौ॥२२॥
तयोः सुमेधास्तद्दृष्ट्वा तुलसीकाननं महत्।
प्रदक्षिणीकृत्य तदा ववन्दे भक्तिसंयुतः॥२३॥
दृष्ट्वैतद्धरिमेधास्तु उवाच परया मुदा।
ज्ञातुं तुलस्या माहात्म्यं तत्फलं च पुनःपुनः॥२४॥
हरिमेधा उवाच
किमर्थं विप्र देवेषु तीर्थेषु च व्रतेषु च।
स्थितेषु विप्रमुख्येषु प्रणामं कृतवानसि॥२५॥
सुमेधा उवाच
शृणु विप्र महाभाग साधु वाक्यमुदीरितम्।
आतपो बाधते ह्यावां गत्वैतद्वटसन्निधौ॥२६॥
तस्य छायां समाश्रित्य वक्ष्यामि ते यथार्थतः।
एवमुक्तः सुमेधास्तु हरिमेधेन संयुतः॥२७॥
वटं जगाम धर्मज्ञो महत्कोटरसंयुतम्।
तत्र विश्राम्य विप्रोऽसौ हरिमेधमुवाच ह॥२८॥
श्रूयतां विप्रशार्दूल तुलस्यास्तूत्तमां कथाम्।
परमेशप्रसादेन सञ्जाता या पयोनिधौ॥२९॥
पुरा दुर्वाससः शापाद्गतैश्वर्ये पुरन्दरे।
ममन्थुः क्षीरजलधिं ब्रह्माद्याः ससुरासुराः॥३०॥
ऐरावतः कल्पतरुश्चन्द्रमाः कमला तथा।
उच्चैःश्रवा कौस्तुभश्च तथा धन्वन्तरिर्हरिः॥३१॥
हरीतक्यादयश्चापि दिव्या ओषधयस्तथा।
अजायन्त द्विजश्रेष्ठ लोकश्रेयोविधायकाः॥३२॥
ततः पीयूषकलशमजरामरदायकम्।
कराभ्यां कलशं विष्णुर्धारयन्सुतलं परम्।
अवेक्ष्य मनसा सद्यः परां निर्वृतिमाप ह॥३३॥
तस्मिन् पीयूषकलश आनन्दास्रोदबिन्दवः।
व्यपतंस्तुलसी सद्यः समजायत मण्डला॥३४॥
सर्वलक्षणसम्पन्ना सर्वाभरणभूषिता॥३५॥
तत्रोत्पन्नां तथा लक्ष्मीं तुलसीं च ददुर्हरेः।
देवा ब्रह्मादयस्ते हि जगृहे भगवान्हरिः॥३६॥
ततोऽतीव प्रियकरा तुलसी जगतां पतेः॥३७॥
सा तु देवगणैः सर्वैर्विष्णुवत्पूज्यते प्रिया।
नारायणो जगत्त्राता तुलसी तस्य वल्लभा॥३८॥
तस्मात् तस्या नमस्कारो मया विप्र कृतस्ततः।
इत्येवं वदतस्तस्य सुमेधस्य महात्मनः॥३९॥
आराददृश्यत महद्विमानं सूर्यवर्चसम्।
तदानीं वटवृक्षस्तु पपात पुरतो मुने॥४०॥
तथैव तस्माद्वृक्षाच्च पुरुषौ द्वौ विनिर्गतौ।
द्योतयन्तौ दिशः सर्वास्तेजसा सूर्यसन्निभौ॥४१॥
प्रणामं चक्रतुस्तौ हि हरिमेधसुमेधयोः।
हरिमेधसुमेधौ तौ तौ दृष्ट्वा भयविह्वलौ॥४२॥
ऊचतुर्विस्मयाविष्टौ तावुभौ देवसन्निभौ॥४३॥
हरिमेधसुमेधसावूचतुः
युवां कौ देवसङ्काशौ भवन्तौ सर्वमङ्गलौ।
मन्दारमालां तरुणां धारयन्तौ तथाऽमरौ।
नमस्कार्यौ तथाऽऽवाभ्यां पूज्यौ च सुररूपिणौ॥४४॥
इत्युक्तौ ब्राह्मणाभ्यां तावूचतुर्वृक्षनिर्गतौ।
युवामेव पिता माता आवयोश्च तथा गुरुः॥४५॥
बन्ध्वादयस्तथा चैव युवामेव न संशयः।
ज्येष्ठ उवाच
अहं तु देवलोकस्य आस्तीको नाम नामतः॥४६॥
अप्सरोगणसंवीतः कदाचिन्नन्दनं वनम्।
क्रीडार्थमगमं चाऽऽद्रौ विषयासक्तचेतनः॥४७॥
रेमिरे देववनिता यथाकामं मया सह।
मुक्तामल्लिकमाल्यानि निपेतुस्तानि योषिताम्॥४८॥
तपतो रोमशस्यैव तद्दृष्ट्वा कुपितो मुनिः।
योषितां नापराधोऽयं यासां वै परतन्त्रता॥४९॥
अयमेव दुराचारः शापार्ह इति चाब्रवीत्।
त्वं ब्रह्मराक्षसो भूत्वा वटवृक्षे चरेति माम्॥५०॥
प्रसादितो मया सोऽथ विशापमपि दत्तवान्।
तुलसीपत्रमाहात्म्यं विष्णोर्नाम तथा द्विजात्॥५१॥
यदा शृणोषि सद्यस्त्वं विमुक्तिं यास्यसे पराम्।
इति शप्तस्तु मुनिना चिरकालं सुदुःखितः॥५२॥
वसाम्यत्र वटे दैवाद्भवद्दर्शनतो ध्रुवम्।
मुक्तिर्जाता विप्रशापाद्द्वितीयस्य कथां शृणु॥५३॥
अयं मुनिवरः पूर्वं गुरुशुश्रूषणे रतः।
गुरोराज्ञामनादृत्य ब्रह्मराक्षसतां गतः॥५४॥
युष्मत्प्रसादादधुना ब्रह्मशापाद्विमोचितः।
तीर्थयात्राफलं चैव युवाभ्यामिह साधितम्॥५५॥
उत्तरोत्तरपुण्यानि वर्धन्ते च दिनेदिने।
इत्युक्त्वा तौ मुनिवरौ प्रणम्य च पुनःपुनः॥५६॥
तावनुज्ञाप्य तौ धाम जग्मतुः परया मुदा।
ततस्तौ तीर्थयात्रार्थं परमौ मुनिपुङ्गवौ॥५७॥
शंसन्तौ तुलसीं पुण्यां जग्मतुर्मुनिपुङ्गव।
एवं नारद माहात्म्यं तुलस्याः को नु वर्णयेत्॥५८॥
तस्मान्नारद मासेऽस्मिन्कार्तिके हरितुष्टिदे।
कर्तव्या तुलसीपूजा नात्र कार्या विचारणा॥५९॥
एवमङ्गव्रतान्येव प्रोक्तानि मुनिसत्तम।
उपाङ्गानि प्रवक्ष्यामि वालखिल्योदितानि च॥६०॥
आदितः श्लोकाः — ५३१
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
तुलसीमाहात्म्यवर्णनं
नामाष्टमोऽध्यायः॥८॥
❀