अथ सप्तमोऽध्यायः

नारद उवाच

भगवन् कृतकृत्योऽस्मि तव पादसमाश्रयात्।
श्रोतव्यं नेह भूयो मे विद्यते देवसत्तम॥१॥
तथाऽपि भगवन् किञ्चित् प्रष्टव्यं मे हृदि स्थितम्।
त्वद्वाक्यामृतपीतस्य न मे तृप्तिर्हि जायते॥२॥
दीपदानस्य माहात्म्यं श्रोतुमिच्छामि ते प्रभो।
येन चापि पुरा दत्तस्तद्वदस्व चतुर्मुख॥३॥

ब्रह्मोवाच

प्रातः स्नात्वा शुचिर्भूत्वा दीपं दद्यात्प्रयत्नतः।
तेन पापानि नश्येयुस्तमांसीव भगोदये॥४॥
आजन्म यत्कृतं पापं स्त्रिया वा पुरुषेण च।
तत्सर्वं नाशमायाति कार्तिके दीपदानतः॥५॥
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम्।
श्रवणात्सर्वपापघ्नं दीपदानफलप्रदम्॥६॥
पुरा द्रविडदेशे तु ब्राह्मणो बुद्धनामकः।
तस्य भार्याऽभवद् दुष्टा अनाचाररता मुने॥७॥
तस्याः संसर्गदोषेण क्षीणायुर्मृतिमाप्तवान्।
पत्यौ मृतेऽपि सा पत्नी अनाचारे विशेषतः॥८॥
रताभून्न हि तस्यास्तु लज्जा लोकापवादतः।
सुतबन्धुविहीना सा सदाभिक्षान्नभोजना॥९॥
न संस्कारान्नमल्पं वा भुक्त्वा पर्युषिताशिनी।
परपाकरता नित्यं तीर्थयात्रादिवर्जिता॥१०॥
कथायाः श्रवणं चैव न श्रुतं तु तया द्विज।
एकदा ब्राह्मणः कश्चित्तीर्थयात्रापरायणः॥११॥
तस्या गृहं समागच्छद् विद्वान्वै कुत्सनामकः।
अनाचाररतां तां तु दृष्ट्वा ब्रह्मर्षिसत्तमः।
कोपेन रक्तचक्षुः संस्तामुवाचासतीं स्त्रियम्॥१२॥

कुत्स उवाच

वक्ष्यामि साम्प्रतं मूढे मद्वाक्यमवधारय॥१३॥
दुःखहेतुमिमं देहं पूयशोणितपूरितम्।
पञ्चभूतात्मकं चैव किं च पुष्णासि दूतिके॥१४॥
जलबुद्बुदवद्देहो नाशमायाति निश्चितम्।
अनित्यं देहमाश्रित्य नित्यं त्वं मन्यसे हृदि॥१५॥
तस्मादन्तःस्थितं मोहं त्यज मूढे विचारतः।
स्मर सर्वोत्तमं देवं कुरु श्रवणमादरात्॥१६॥
कार्तिके मासि सम्प्राप्ते स्नानदानादिकं कुरु।
दामोदरस्य प्रीत्यर्थं दीपदानं तथा कुरु॥१७॥
लक्षवर्त्यादिकं चैव लक्षपद्मादिकं तथा।
प्रदक्षिणां तु देवस्य नमस्कारं तथैव च॥१८॥
धारणं पारणं चैव कुरु भक्त्या हि कार्तिके।
विधवानां व्रतमिदं सधवानां तथैव च॥१९॥
सर्वपापप्रशमनं सर्वोपद्रवनाशनम्।
तत्रापि कार्तिके मासि दीयतां दीप उत्तमः॥२०॥
दीपो हरेः प्रियकरः कार्तिके मासि निश्चितम्।
महापातककृद् वाऽपि दीपदानात्प्रमुच्यते॥२१॥
पुरा कश्चिद्द्विजवरो नाम्ना हरिकरो ह्यभूत्।
अधर्मविषयासक्तः शश्वद्वेश्यारतो द्विजः॥२२॥
पितृवित्तक्षयकरो वंशच्छेदे कुठारकः।
कदाचित्तेन विधवे द्यूते पितृधनं महत्॥२३॥
हारितं दुष्टसंसर्गात्ततो दुःखी स चाभवत्।
कदाचित्साधुसंसर्गात्तीर्थयात्राप्रसङ्गतः॥२४॥
अयोध्यामागतो वत्से महापापकरो द्विजः।
कार्तिके मासि सम्प्राप्तः श्रीमद्द्विजगृहे सदा॥२५॥
द्यूतव्याजेन तेनाऽऽशु दीपो दत्तो हरेः पुरः।
ततः कालान्तरे विप्रो मृतो मोक्षमवाप्तवान्॥२६॥
महापातककृद् वाऽपि गतवानभयं हरिम्।
तस्मात् त्वं कार्तिके मासि दीपदानं तथा कुरु॥२७॥
तथाऽन्यान्यपि दानानि कुरु भक्तिसमन्विता।
इत्यादिश्याथ तां कुत्सो जगामाऽन्यगृहं द्विजः॥२८॥
साऽपि कुत्सवचः श्रुत्वा पश्चात्तापेन संयुता।
व्रतं तु कार्तिके मासि करिष्यामीति निश्चिता॥२९॥
पतङ्गोदयवेलायां कार्तिके स्नानमम्भसि।
दीपदानं व्रतं चैव मासमेकं चकार सा॥३०॥
ततः कालान्तरे चैव गतायुर्मृतिमागता।
दीपदानस्य माहात्म्यान्महापापकृदप्यसौ॥३१॥
स्वर्गमार्गं गता सा स्त्री काले मोक्षमवाप ह।
तस्मान्नारद माहात्म्यं दीपदानस्य को वदेत्॥३२॥
कार्तिके दीपदानं तु महापुण्यफलप्रदम्।
कार्तिकव्रतनिष्ठो यो दीपदानादिकृन्नरः॥३३॥
दीपदानस्येतिहासं शृण्वन्वै मोक्षमाप्नुयात्॥३४॥
दीपदानस्य माहात्म्यं वक्तुं केनेह शक्यते।
परदीपप्रबोधस्य माहात्म्यं शृणु नारद॥३५॥
स्वस्यापि शक्तिराहित्ये परस्यापि प्रबोधनम्।
यः कुर्याल्लभते सोऽपि नात्र कार्या विचारणा॥३६॥
दीपार्थं वर्तिकां तैलं पात्रं वा यो ददाति हि।
सहायं वाऽथ कुरुते ददतां दीपमुत्तमम्॥३७॥
स तु मोक्षमवाप्नोति नात्र कार्या विचारणा।
कार्तिके दीपदानस्य माहात्म्यं को नु वर्णयेत्॥३८॥
स्वस्यापि शक्तिराहित्ये परदीपं प्रबोधयेत्।
सोऽपि तत्फलमाप्नोति नात्र कार्या विचारणा॥३९॥
वेश्या चेन्दुमती नाम तस्या गेहेऽथ मूषिका।
परदीपप्रबोधेन मोक्षं प्राप सुदुर्लभम्॥४०॥
तस्मात् सर्वप्रयत्नेन परदीपं प्रबोधयेत्।
तेन मोक्षमवाप्नोति मूषिकावन्न संशयः॥४१॥
परदीपप्रबबोधस्य फलमीदृग्विधं मुने।
साक्षाद्दीपप्रदानस्य माहात्म्यं केन वर्ण्यते॥४२॥

नारद उवाच

कार्तिके दीपदानस्य माहात्म्यं च मया श्रुतम्।
परदीपप्रबोधस्य माहात्म्यमपि वै श्रुतम्।
इदानीं श्रोतुमिच्छामि व्योमदीपस्य वैभवम्॥४३॥

ब्रह्मोवाच

आकाशदीपमाहात्म्यं शृणु पुत्र समाहितः।
यस्य श्रवणमात्रेण दीपदाने मतिर्भवेत्॥४४॥
सम्प्राप्ते कार्तिके मासि प्रातःस्नानपरायणः।
आकाशदीपं यो दद्यात्तस्य पुण्यं वदाम्यहम्॥४५॥
सर्वलोकाधिपो भूत्वा सर्वसम्पत्समन्वितः।
इह लोके सुखं भुक्त्वा चान्ते मोक्षमवाप्नुयात्॥४६॥
स्नानदानक्रियापूर्वं हरिमन्दिरमस्तके।
आकाशदीपो दातव्यो मासमेकं तु कार्तिके।
कार्तिके शुद्धपूर्णायां विधिनोत्सर्जयेच्च तम्॥४७॥
यः करोति विधानेन कार्तिके व्योम्नि दीपकम्।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि॥४८॥
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम्।
यस्य श्रवणमात्रेण व्योमदीपफलं लभेत्॥४९॥
पुरा तु निष्ठुरो नाम लुब्धको लोककण्टकः।
यमुनातीरवासी च कालमृत्युरिवापरः॥५०॥
वने चरन्मृगान्सर्वान्हत्वा वृत्तिमकल्पयत्।
पथिकान्बाधते नित्यं चोरवृत्त्या धनुर्धरः॥५१॥
कञ्चिद्ग्रामं जगामाशु चौर्यार्थं कार्तिके मुने।
तस्मिन्विदर्भनगरे राजा सुकृतिनामकः॥५२॥
चन्द्रशर्माख्यविप्रस्य वचनात्कार्तिके सुधीः।
चकार व्योमदीपं तु हरिमन्दिरमस्तके॥५३॥
दीपं दत्त्वा महाभक्त्या अशृणोच्च कथां निशि।
एतस्मिन्नेव काले तु चौर्यार्थं समुपागतः॥५४॥
राज्ञा दत्तं व्योमदीपं पश्यन्क्षणमतिष्ठत।
तदानीं दैवयोगेन गृध्रो जवसमन्वितः॥५५॥
शीघ्रमागत्य जग्राह तैलपात्रं सदीपकम्।
स्वमुखेनैव सङ्गृह्य वृक्षाग्रं च समाश्रयत्॥५६॥
तत्र पीत्वा तु तैलं च दीपं स्थाप्य स पक्षिराट्।
वृक्षाग्रं तु समास्थाय क्षणमात्रमतिष्ठत॥५७॥
तदानीं दैवयोगेन ग्रहीतुं पक्षिसत्तमम्।
मार्जारोऽप्यारुहद्वृक्षं पक्षिणाऽधिष्ठितं तु तम्॥५८॥
तदग्रे मुखदीपं च पश्यन्क्षणमतिष्ठत।
आकाशदीपमाहात्म्यं कथितं चन्द्रशर्मणा॥५९॥
राज्ञे सुकृतिनाम्ने च तौ वै शुश्रुवतुः क्षणम्।
खगमार्जारकौ तत्र स्वस्वचाञ्चल्यदोषतः॥६०॥
मार्जारो जगृहे तत्र शाखामतरगतं खगम्।
दैवेन चोदितौ वृक्षाच्छिलायां पतितौ तदा॥६१॥
भग्नगात्रौ मृतौ तत्र पक्षिमार्जारकौ भुवि।
दिव्यदेहसमायुक्तौ यानारूढौ दिवं गतौ॥६२॥
तत्सर्वं लुब्धको दृष्ट्वा चौर्यार्थं समुपागतः।
निवृत्तो दुष्टभावेन कथयन्तं कथां मुनिम्॥६३॥
चन्द्रशर्माणमाभाष्य इदं वचनमब्रवीत्।
चन्द्रशर्मन्मया दृष्टं चौर्यार्थं ह्यागतेन च॥६४॥
राज्ञा सुकृतिना दत्तं व्योमदीपं मनोहरम्।
तदानीं दैवयोगेन खगः पात्रं प्रगृह्य च॥६५॥
तैलं पीत्वा तु तत्पात्रं सदीपं तु मनोहरम्।
वृक्षाग्रे स्थापयित्वा च तत्र क्षणमतिष्ठत॥६६॥
मार्जारोऽप्यागतस्तत्र ग्रहीतुं पक्षिपुङ्गवम्।
दैवेन प्रेरितौ तौ च उभे शाखे समाश्रितौ॥६७॥
त्वन्मुखात्कथ्यमानां हि कथां शुश्रुवतुः क्षणम्।
पश्चाच्चाञ्चल्यदोषेण मार्जारो ह्यग्रहीत्खगम्॥६८॥
तौ वृक्षात्पतितौ मृत्युं प्राप्तौ च क्षणमात्रतः।
उभौ तौ दिव्यरूपौ च यानारूढौ दिवं गतौ॥६९॥
तदाश्चर्यमहं दृष्ट्वा त्वां प्रष्टुं समुपागतः।
तौ कौ पुरा च मार्जारखगौ तद्वद भो द्विज॥७०॥
तिर्यग्योनिसमापन्नौ मुक्तौ केन च कर्मणा।
इति लुब्धवचः श्रुत्वा चन्द्रशर्माऽब्रवीत्तदा॥७१॥
शृणु लुब्ध प्रवक्ष्यामि तयोर्वृत्तान्तमञ्जसा।
मार्जारोऽपि पुरा पापी तथा श्रीवत्सगोत्रजः॥७२॥
देवशर्मा इति प्रोक्तो देवद्रव्यापहारकः।
अहोबलनृसिंहस्य पूजाकर्तृत्वमाप सः॥७३॥
तस्मिन्देवालये प्राप्तं तैलं द्रव्यादिकं तथा।
अपहृत्य च तेनैव कुटुम्बं पोषयत्यसौ॥७४॥
आयुर्नीत्वैवमेवासौ ततः पञ्चत्वमागतः।
तस्मात् पापात्कालसूत्रं महारौरवरौरवम्॥७५॥
निरुच्छ्वासं तथा प्राप्य असिपत्रवनं क्रमात्।
छिद्यमानो महाकायैर्यमदूतैर्भयङ्करैः॥७६॥
अनुभूय च तान्सर्वान्ब्रह्मराक्षसतां गतः।
ततस्तु श्वानयोनौ च चण्डालोऽभूत्कुकर्मतः॥७७॥
एवं जन्मशतं प्राप्य भूमौ मार्जारतां गतः।
आकाशदीपमाहात्म्यं श्रुत्वेदानीं तु दैवतः।
निर्मुक्ताऽखिलपापस्तु अगमद्धरिमन्दिरम्॥७८॥
गृध्रोऽयं तु पुरा विप्रो मिथिले वेदपारगः।
शर्यातिरिति विख्यातौ नाम्ना लोके महाप्रभुः॥७९॥
दासीसङ्गं चकारासौ वेश्यासङ्गं तथैव च।
तेन दोषेण महता पञ्चत्वमगमत्तदा॥८०॥
कुम्भीपाके महाघोरे स्थित्वा युगचतुष्टयम्।
कर्मशेषेण भूमौ च गृध्रत्वमगमत्तदा॥८१॥
दैवेन चोदितो गृध्रस्तैलपानार्थमागतः॥८२॥
दत्त्वा चाकाशदीपं च श्रुत्वा चैव हरेः कथाम्।
विध्वस्ताऽखिलपापस्तु जगाम हरिमन्दिरम्॥८३॥
इत्येतत्सर्वमाख्यातं लुब्ध गच्छ यथासुखम्।
व्याधोऽप्यस्य वचः श्रुत्वा गत्वा चैव स्वमन्दिरम्॥८४॥
व्रतं चाकाशदीपस्य चकार विधिवन्मुने।
आयुःशेषं तदा नीत्वा जगाम हरिमन्दिरम्॥८५॥
सुनन्दोऽपि महाराज आश्चर्यं समुपागतः।
चकार विधिना मासं चन्द्रशर्मोक्तमार्गतः॥८६॥
प्रातः स्नात्वा शुचिर्भूत्वा कार्तिके मासि वै नृपः।
कोमलैस्तुलसीपत्रैः समभ्यर्च्य जनार्दनम्॥८७॥
रात्रौ दद्याद्व्योमदीपं मन्त्रेणानेन वै नृपः॥८८॥
दामोदराय विश्वाय विश्वरूपधराय च।
नमस्कृत्वा प्रदास्यामि व्योमदीपं हरिप्रियम्।
निर्विघ्नं कुरु देवेश यावन्मासः समाप्यते॥८९॥
व्रतेनानेन देवेश त्वयि भक्तिः प्रवर्धताम्।
इति मन्त्रेण राजाऽसौ दीपदानं चकार ह॥९०॥
ब्राह्मे मुहूर्ते च पुनर्व्योमदीपं ददाति हि।
विष्णोः पूजा कृता प्रातः प्रातःस्नानं चकार ह॥९१॥
उत्सर्गस्य विधिं कृत्वा व्योम्नि दीपं समाप्य च।
ब्राह्मणान्भोजयित्वा च व्रतं विष्णोः समार्पयत्॥९२॥
तेन पुण्यप्रभावेन स राजा मुनिसत्तम।
शरदां शतसाहस्रमिह भोगान्मनोहरान्॥९३॥
सुपुत्रपौत्रस्वजनैर्बुभुजे सह भार्यया।
ततश्चान्ते द्विजवर विमानं सुमनोहरम्॥९४॥
स्त्रीभिः सह समारुह्य मोक्षमार्गं गतो मुने।
चतुर्भुजः पीतवासाः शङ्खचक्रगदाधरः॥९५॥
विष्णुलोके विष्णुरिव प्रोच्यमानः सदाऽमरैः।
क्रीडयामास राजाऽसौ यथाकामं महामनाः॥९६॥
तस्मात् तु कार्तिके मासि मानुष्यं प्राप्य दुर्लभम्।
आकाशदीपो दातव्यो विधानेन हरेः प्रियः॥९७॥
दास्यन्ति ये कार्तिकमासि मर्त्या
व्योमप्रदीपं हरितुष्टयेऽत्र।
पश्यन्ति ते नैव कदाऽपि देवं
यमं महाक्रूरमुखं मुनीन्द्र॥९८॥
अथान्यच्च प्रवक्ष्यामि व्योमदीपस्य वैभवम्।
वालखिल्यैः पुरा प्रोक्तं तच्छृणुष्व द्विजोत्तम॥९९॥

वालखिल्या ऊचुः

कृष्णादिमासक्रमतः कार्तिकस्यादिमासतः।
आकाशादीपदानं तु कुर्वन्तु ऋषिसत्तमाः॥१००॥
तुलायां तिलतैलेन सायं सन्ध्यासमागमे।
आकाशदीपं यो दद्यान्मासमेकं निरन्तरम्॥१०१॥
सश्रीकाय श्रीपतये श्रिया न स वियुज्यते।
आकाशदीपवंशस्तु विंशद्धस्तोत्तमो भवेत्॥१०२॥
मध्यमो नवहस्तः स्यात्कनिष्ठः पञ्चहस्तकः।
यथा दूरस्थितैर्लोकैर्दृश्यते तत्तथाऽऽचरेत्॥१०३॥
तथाऽभ्रादिकरण्डेषु दीपदानं विशिष्यते।
वंशस्य नवमांशेन लम्बा कार्या पताकिका॥१०४॥
मयूरपिच्छमुष्टिं वा कलशं चोपरि न्यसेत्।
विष्णुप्रीतिकरो दीपः पित्रुद्धारस्य कारकः॥१०५॥
एकादश्यास्तुलार्काद्वा दीपदानमतोऽपि वा।
दामोदराय नभसि तुलायां लोलया सह॥१०६॥
प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे।
आकाशदीपसदृशं पितुरुद्धारकं नहि॥१०७॥
हेलिकस्य च द्वौ पुत्रौ तत्रैकस्तु पिशाचकः।
व्योमदीपपुण्यदानान्मोक्षं प्राप सुदुर्लभम्॥१०८॥
नमः पितृभ्यः प्रेतेभ्यो नमो धर्माय विष्णवे।
नमो यमाय रुद्राय कान्तारपतये नमः॥१०९॥
मन्त्रेणानेन ये मर्त्याः पितृभ्यः खे तु दीपकम्।
प्रयच्छन्ति गता ये स्युर्नरके यान्ति तेऽपि वै।
उत्तमां गतिमित्थं ते दीपदानं मयेरितम्॥११०॥
लक्ष्मीसन्ततिसिद्ध्यर्थमारोग्याय प्रदीपयेत्॥१११॥
कार्तिके कृष्णपक्षे तु द्वादश्यादिषु पञ्चसु।
तिथीषूक्तः पूर्वरात्रे नृणां नीराजनाविधिः॥११२॥
ब्रह्मविष्णुशिवादीनां भवनेषु विशेषतः।
कूटागारेषु चैत्येषु सभासु च नदीषु च॥११३॥
प्राकारोद्यानवापीषु प्रतोलीनिष्कुटेषु च।
मन्दुरासु विविक्तासु हस्तिशालासु चैव हि॥११४॥
प्रदोषसमये दीपान्दद्यादेवं मनोहरान्।
कृतं यैः कार्तिके मासि दीपदानं विधानतः॥११५॥
दृश्यन्ते ये रत्नभाजस्तेऽत एव प्रकीर्तिताः।
दीपदानासमर्थश्चेत्परदीपं तु रक्षयेत्॥११६॥
यो वेदाभ्यासिने दद्याद्दीपार्थं तैलमादरात्।
को वा तस्य फलं वक्तुं भुवि तिष्ठति मानवः॥११७॥
दीपान्दद्याद्बहुविधान्कार्तिके विष्णुसन्निधौ।
कार्तिके मासि सम्प्राप्ते गगने स्वच्छतारके॥११८॥
रात्रौ लक्ष्मीः समायाति द्रष्टुं भुवनकौतुकम्।
यत्र यत्र च दीपान्सा पश्यत्यब्धिसमुद्भवा॥११९॥
तत्र तत्र रतिं कुर्यान्नान्धकारे कदाचन।
तस्माद्दीपः स्थापनीयः कार्तिके मासि वै सदा॥१२०॥
लक्ष्मीरूपार्थिनां प्रोक्तं दीपदानं विशेषतः।
देवालये नदीतीरे राजमार्गे विशेषतः॥१२१॥
निद्रास्थले दीपदाता तस्य श्रीः सर्वतोमुखी।
दुर्बलस्याऽऽलयं वीक्ष्य दीपशून्यं तु यो ददेत्॥१२२॥
विप्रस्य वाऽन्यवर्णस्य विष्णुलोके महीयते।
कीटकण्टकसङ्कीर्णे दुर्गमे विषमस्थले॥१२३॥
कुर्याद्यो दीपदानानि नरकं स न गच्छति।
दद्याद्रात्रौ पञ्चनदे दीपं यो विधिपूर्वकम्॥१२४॥
तस्य वंशे प्रजायन्ते बालकाः कुलदीपकाः।
पितृपक्षेऽन्नदानेन ज्येष्ठाषाढे च वारिणा॥१२५॥
कार्तिके तत्फलं तेषां परदीपप्रबोधनात्।
बोधनात्परदीपस्य वैष्णवानां च सेवनात्॥१२६॥
कार्तिके फलमाप्नोति राजसूयाश्वमेधयोः।
पुरा हरिकरो नाम द्विजः पापरतः सदा॥१२७॥
कृतं द्यूतप्रसङ्गेन दीपदानं हि कार्तिके।
तेन पुण्यप्रभावेन स्वर्गं प्राप द्विजोत्तमः॥१२८॥
आकाशदीपदानेन पुरा वै धर्मनन्दनः।
विमानवरमारुह्य विष्णुलोकं ययौ नृपः॥१२९॥
यः कुर्यात्कार्तिके विष्णोः पुरः कर्पूरदीपकम्।
प्रबोधिन्यां विशेषेण तस्य पुण्यं वदाम्यहम्॥१३०॥
कुले तस्य प्रसूता ये पुरुषास्ते हरिप्रियाः।
क्रीडित्वा सुचिरं कालमन्ते मुक्तिं व्रजन्ति च॥१३१॥
दीपको ज्वलते यस्य दिवा रात्रौ हरेर्गृहे।
एकादश्यां विशेषेण स याति हरिमन्दिरम्॥१३२॥
लुब्धकोऽपि चतुर्दश्यां दीपं दत्त्वा शिवालये।
भक्त्या विना परे लिङ्गे शिवलोकं जगाम सः॥१३३॥
गोपः कश्चिदमावास्यां दीपं प्रज्वाल्य शार्ङ्गिणः।
मुहुर्जयजयेत्युक्त्वा स च राजेश्वरोऽभवत्॥१३४॥

आदितः श्लोकाः — ४७१
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
दीपदानमाहात्म्यवर्णनं
नाम सप्तमोऽध्यायः॥७॥