अथ षष्ठोऽध्यायः

ब्रह्मोवाच

शृणु नारद वक्ष्यामि कार्तिकस्य व्रतं महत्।
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो मोक्षमवाप्स्यसि॥१॥
कार्तिके मासि सम्प्राप्ते निषिद्धानि च वर्जयेत्।
तैलाभ्यङ्गं परान्नं च तथा वै तैलभोजनम्॥२॥
फलानि बहुबीजानि धान्यानि द्विदलान्यपि।
वर्जयेत्कार्तिके मासि नात्र कार्या विचारणा॥३॥
अलाबुं गृञ्जरं चैव वृन्ताकं बृहतीफलम्।
अन्नं पर्युषितं वाऽपि भिस्सटं च मसूरिकम्॥४॥
पुनर्भोजनं माध्वं च परान्नं कांस्यभोजनम्।
नखं चर्म च छत्राकं काञ्जि दुर्गन्धमेव च॥५॥
गणान्नं गणिकान्नं च तथा वै ग्रामयाजिनः।
शूद्रान्नं शूद्रसम्पर्कं सूतकान्नं तथैव च॥६॥
श्राद्धान्नमृतुशान्त्याश्च जातकं नामकं तथा।
श्लेष्मातकफलं चैव वर्जयेत्कार्तिकव्रती॥७॥
निषिद्धेषु च पत्रेषु भोजनं नैव कारयेत्।
मधुपालाशकदलीजम्बूप्लक्षमकूटिकाः।
एतत्पत्रेषु भोक्तव्यं पुष्करे न कदाचन॥८॥
कार्तिके मासि सम्प्राप्ते यः कुर्याद्वनभोजनम्।
स याति परमं लोकं विष्णोर्देवस्य चक्रिणः॥९॥
प्रातःस्नानं तु कर्तव्यं तथैव हरिपूजनम्।
कथायाः श्रवणं चैव कार्तिके शस्यते मुने॥१०॥
गोपीचन्दनदानं तु गोदानं श्रोत्रियाय च।
कर्तव्यं कार्तिके मासि तेन मोक्षमवाप्नुयात्॥११॥
कदलीफलदानं तु दानं धात्रीफलस्य च।
वस्त्रदानं तथा कुर्याच्छीतार्ताय द्विजन्मने॥१२॥
शाकादिदानं कुर्वीत चान्नदानं विशेषतः।
शालिग्रामस्य दानं च कर्तव्यं तु द्विजन्मने॥१३॥
पौराणिकाय यो दद्यादामान्नं घृतपायसम्।
स चैश्वर्यमवाप्नोति शतब्राह्मणभोजनात्॥१४॥
कमलैः पूजयेद्यस्तु कार्तिके कमलाप्रियम्।
स तु पुण्यमवाप्नोति नात्र कार्या विचारणा॥१५॥
कार्तिके तुलसीपत्रं यो भक्त्या विष्णवेऽर्पयेत्।
संसाराच्च विनिर्मुक्तो याति विष्णोः परं पदम्॥१६॥
कार्तिके केतकीपुष्पैरर्चयेद्गरुडध्वजम्।
पूजितो जन्मसाहस्रं नात्र कार्या विचारणा॥१७॥
शङ्खदानं तु यः कुर्यात्तथा चक्राङ्कितस्य च।
तस्य पापानि नश्यन्ति दानमात्रान्न संशयः॥१८॥
गीतापाठं तु यः कुर्यात्कार्तिके विष्णुवल्लभे।
तस्य पुण्यफलं वक्तुं नालं वर्षशतैरपि॥१९॥
श्रीमद्भागवतस्यापि श्रवणं यः समाचरेत्।
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति॥२०॥
एकादश्यां निराहारमुपवासं करोति यः।
पूर्वजन्मकृतात्पापान्मुच्यते नात्र संशयः॥२१॥
शालिग्रामस्य नैवेद्यं कोटियज्ञफलं लभेत्।
अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत्॥२२॥
पूजाकाले तु देवस्य घण्टानादं करोति यः।
हरेस्तृप्तिं परां याति मनुजो नात्र संशयः॥२३॥
परान्नं वर्जयेद्यस्तु कार्तिके विष्णुतुष्टये।
दामोदरस्य प्रीतिं स सम्यक्प्राप्नोति मानवः॥२४॥
अध्वगं तु परिश्रान्तं काले च गृहमागतम्।
योऽतिथिं पूजयेद्भक्त्या जन्मसाहस्रनाशनम्॥२५॥
निन्दां कुर्वन्ति ये मूढा वैष्णवानां महात्मनाम्।
पतन्ति पितृभिः सार्धं महारौरवसंज्ञके॥२६॥
दृष्ट्वा भागवतान्विप्रान्सन्मुखो न च याति हि।
न गृह्णाति हरिस्तस्य पूजां द्वादशवार्षिकीम्॥२७॥
निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य च।
ततो नापैति यः सोऽपि हरेः प्रियतमो नहि॥२८॥
प्रदक्षिणां तु यः कुर्यात्कार्तिके केशवस्य हि।
पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयः॥२९॥
दण्डप्रणामं यः कुर्यात्कार्तिके केशवाग्रतः।
राजसूयाऽश्वमेधानां फलं प्राप्नोत्यसंशयः॥३०॥
कुटुम्बभोजनं चैव कार्तिके भक्तिसंयुतः।
कारयेद्विप्रशार्दूल तस्य पुण्यमनन्तकम्॥३१॥
परस्त्रीसङ्गमं यस्तु कार्तिके कुरुते नरः।
तस्य पापस्य विश्रान्तिर्यावद्वक्तुं न शक्यते॥३२॥
तुलसीमृत्तिकापुण्ड्रं ललाटे यस्य दृश्यते।
यमस्तं नेक्षितुं शक्तः किमु दूता भयङ्कराः॥३३॥
शाकं वा लवणं वाऽपि यत्किञ्चिद्वा भविष्यति।
तद्देयं कार्तिके मासि प्रीत्यर्थं शार्ङ्गधन्वनः॥३४॥
इत्याद्या बहवो धर्माः कार्तिके विष्णुवल्लभाः।
यथाशक्त्या प्रकुर्वीत धर्मं देवस्य तुष्टिदम्॥३५॥
हरिसन्तुष्टये कार्यस्त्यागो वा स्वेष्टवस्तुनः।
मासान्ते द्विजवर्याय दद्यात्तद्व्रतपूर्तये॥३६॥
सर्वव्रतानि चैकत्र सत्यव्रतमथैकतः।
तस्मात् सर्वप्रयत्नेन सत्यं भाषेत सर्वदा॥३७॥
अन्यधर्मेष्वधिकृतिः कुलजातिविभागतः।
अधिकारी कार्तिके तु सर्व एव जनो भवेत्॥३८॥
गोग्रासः कार्तिके मासि विशेषाद्यैस्तु दीयते।
तेषां पुण्यफलं वक्तुं न शक्नोति पितामहः॥३९॥
विष्णुदेवालयं प्रातः सम्मार्जयति कार्तिके।
तस्य वैकुण्ठभवने जायते सुदृढं गृहम्॥४०॥
दद्यात्कार्तिकमासे तु धर्मकाष्ठानि भूरिशः।
न तत्पुण्यस्य नाशोऽस्ति कल्पकोटिशतैरपि॥४१॥
सुधादि लेपयेद्यस्तु कार्तिके विष्णुमन्दिरे।
चित्रादिकं लिखेद् वाऽपि मोदते विष्णुसन्निधौ॥४२॥
देवालये वा तीर्थे वा कृतो दुष्टैर्नृपैः करः।
तं मोचयन्ति ये लोकास्तेषां धर्मः सनातनः॥४३॥
कार्तिके मासि यो विप्रो गभस्तीश्वरसन्निधौ।
शतरुद्रीजपं कुर्यान्मन्त्रसिद्धिः प्रजायते॥४४॥
वाराणस्यां तु यैः स्थित्वा त्रिवर्षं कार्तिकव्रतम्।
सोपाङ्गं साङ्गं यैर्मर्त्यैः कृतं भक्त्यैकतत्परैः॥४५॥
इह लोके फलं तेषां प्रत्यक्षं जायते किल।
सम्पत्त्या चैव सन्तत्या यशोभिर्धर्मबुद्धिभिः॥४६॥
पलाण्डुं शृङ्गं मांसं च शय्यां सौवीरकं तथा।
राजिकोन्मादिकं चापि चिपिटान्नं च वर्जयेत्॥४७॥
धात्रीफलं भानुवारे परदेशागमं तथा।
तीर्थं विना सदैवेह वर्जयेत्कार्तिकव्रती॥४८॥
देववेदद्विजातीनां गुरुगोव्रतिनां तथा।
स्त्रीराजमहतां निन्दां वर्जयेत्कार्तिकव्रती॥४९॥
नरकस्य चतुर्दश्यां तैलाभ्यङ्गं च कारयेत्।
अन्यत्र कार्तिके मासि तैलस्नानं विवर्जयेत्।
नालिकां मूलकं चैव कूष्माण्डं च कपित्थकम्॥५०॥
रजस्वलान्त्यजम्लेच्छपतिताव्रतिकैस्तथा।
द्विजद्विड्{}वेदबाह्यैश्च न वदेत्सर्वदा व्रती॥५१॥
एभिर्दृष्टं च काकैश्च सूतिकान्नं च यद्भवेत्।
द्विःपाचितं च दग्धान्नं नैवाद्याद्वैष्णवव्रती॥५२॥
क्रमात्कूष्माण्डबृहतीतरुणीमूलकं तथा।
श्रीफलं च कलिङ्गं च फलं धात्रीभवं तथा॥५३॥
नारिकेलमलाबुं च पटोलं बृहतीफलम्।
चर्मवृन्ताकचवलीशाकं तुलसिजं तथा॥५४॥
शाकान्येतानि वर्ज्यानि क्रमात्प्रतिपदादिषु।
एवमेव हि माघेऽपि कुर्याच्च नियमान्व्रती॥५५॥
कार्तिकव्रतिनः पुण्यं यथोक्तव्रतकारिणः।
न समर्थो भवेद्वक्तुं ब्रह्माऽपीह चतुर्मुखः॥५६॥

आदितः श्लोकाः — ३३७
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
कार्तिकव्रतनिरूपणं
नाम षष्ठोऽध्यायः॥६॥