अथ पञ्चमोऽध्यायः

नारद उवाच

कदा स्नानं प्रकर्तव्यं कथं स्थेयं दिनावधि।
आह्निकं तत्समाचक्ष्व विशेषेण पितामह॥१॥

ब्रह्मोवाच

रात्र्यां तुर्यांशशेषायामुत्तिष्ठेत्सर्वदा व्रती।
विष्णुं स्तुत्वा बहुस्तोत्रैर्दिनकार्यं विचारयेत्॥२॥
ग्रामनैर्ऋत्यदिग्भागे मलोत्सर्गं यथाविधि।
ब्रह्मसूत्रं दक्षकर्णे स्थाप्य तत्र उदङ्मुखः॥३॥
अन्तर्धाय तृणं भूमौ शिरः प्रावृत्य वाससा।
वक्त्रं नियम्य वस्त्रेणासङ्गः सोदकभाजनः॥४॥
कुर्यान्मूत्रपुरीषं तु रात्रौ चेद्दक्षिणामुखः।
तत उत्थाय चाऽऽगच्छेत् समीपं कलशस्य हि॥५॥
गन्धलेपक्षयकरं मृत्तिकाशौचमाचरेत्।
एका लिङ्गे करे तिस्र उभयोर्मृद्द्वयं स्मृतम्॥६॥
मूत्रशौचे त्विदं ज्ञेयं विष्ठाशौचमतः शृणु।
पञ्चापानेऽथवा सप्त दश वामकरे तथा॥७॥
उभयोः सप्त दातव्याः पादयोर्मृत्तिकात्रयम्।
एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः॥८॥
वानप्रस्थस्य त्रिगुणं यतीनां च चतुर्गुणम्।
एतच्छौचं दिवा प्रोक्तं रात्रावर्धं समाचरेत्॥९॥
मार्गस्थस्य तदर्धं स्यात्स्त्रीशूद्राणां तदर्धकम्।
शौचकर्मविहीनस्य समस्ता निष्फलाः क्रियाः॥१०॥
दन्तजिह्वाविशुद्धिं च ततः कुर्यादतन्द्रितः।
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च॥११॥
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते।
दन्तकाष्ठं तु गृह्णीयाद्द्वादशाङ्गुलसम्मितम्॥१२॥
क्षीरवृक्षस्य न ग्राह्यं कार्पासस्य तथैव च।
कण्टकस्य च वृक्षस्य दग्धवृक्षस्य चैव हि॥१३॥
सद्वासनं मृदुतरं दन्तधावनमादितः॥१४॥
उपवासे नवम्यां च षष्ठ्यां श्राद्धदिने रवौ।
ग्रहणे प्रतिपद्दर्शे न कुर्याद्दन्तधावनम्।
कुर्याद्द्वादशगण्डूषाननुक्ते दन्तधावने॥१५॥
दन्तान्विशोध्य विधिवन्मुखं सम्मार्ज्य वारिणा।
ललाटे चोर्ध्वपुण्ड्रं तु धृत्वा चाचम्य वारिणा॥१६॥
देवालये नदीतीरे राजमार्गे विशेषतः।
दत्त्वा चाकाशदीपं तु तुलसीसन्निधावथ॥१७॥
गृहीत्वार्चनसामग्रीमिष्टदेवगृहं व्रजेत्।
ततो गायेत नृत्येत पूजां कृत्वा तु बुद्धिमान्॥१८॥
पठित्वा विष्णुनामानि कुर्यान्नीराजनं हरेः।
नाडीद्वयावशिष्टायां रात्र्यां गच्छेज्जलाशयम्॥१९॥
तत्रोक्तविधिना स्नानं कुर्याद्वै कार्तिकव्रती।
वस्त्रनिष्पीडनं कृत्वा कुर्याच्च तिलकं तथा॥२०॥
ततः सन्ध्यामुपासीत स्वसूत्रोक्तेन वर्त्मना।
ततः कार्यो जपो देव्या यावदर्कोदयो भवेत्॥२१॥
एतत्प्रोक्तं रात्रिशेषकृत्यं दैनमथोच्यते।
यस्मिन्कृते कार्तिकोऽयं सकलः सफलो भवेत्॥२२॥
विष्णोः सहस्रनामाऽऽद्यं सन्ध्यान्ते च पठेत्ततः।
देवालये समागत्य पुनः पूजनमारभेत्॥२३॥
नृत्यगानादिकार्येषु प्रहरं दिवसं नयेत्।
ततः पुराणश्रवणं यामार्धं सम्यगाचरेत्॥२४॥
पौराणिकस्य पूजां तु तुलसीपूजनं तथा।
कृत्वा माध्याह्निकं कर्म भुञ्जीत द्विदलोज्झितम्॥२५॥
बलिदानं वैश्वदेवमतिथीनां समर्पणम्।
कृत्वा भुङ्क्ते तु यो मर्त्यः केवलं चामृतं हि तत्॥२६॥
यथाशक्ति द्विजा भोज्याः प्रत्यहं वाऽथ पर्वणि।
हविष्यभोजनं कुर्यादामिषं परिवर्जयेत्॥२७॥
भक्षयेत्तुलसीं वक्त्रशुद्ध्यर्थं तीर्थवारिणा।
संसारव्यवहारेण दिनशेषं समापयेत्॥२८॥
सायङ्काले पुनर्गच्छेद्विष्णोर्देवालयं प्रति।
सन्ध्यां कृत्वा प्रयुञ्जीत तत्र दीपन्यथाबलम्॥२९॥
विष्णुं प्रणम्य हरये कृत्वा नीराजनं शुभम्।
स्तोत्रपाठादिकं कुर्वन्नाद्ययामे तु जागरम्॥३०॥
यामे तु प्रथमेऽतीते निद्रां कुर्याद्विचक्षणः।
ब्रह्मचर्यव्रतं कुर्याद्भार्यामीयादृतौ तथा॥३१॥
तया कामयमानो वा भार्यां गच्छेन्न दोषभाक्।
एवं प्रतिदिनं कुर्यादामासं तु यथाविधि॥३२॥
एवं तु कार्तिके मासि यः कुर्यात्परमं व्रतम्।
सर्वपापविनिर्मुक्तो याति विष्णोः सलोकताम्॥३३॥
रोगापहं पातकनाशकृत्परं
सद्बुद्धिदं पुत्रधनादिसाधकम्।
मुक्तेर्निदानं नहि कार्तिकव्रताद्
विष्णुप्रियादन्यदिहास्ति भूतले॥३४॥

आदितः श्लोकाः — २८१
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
नित्यकर्मकथनं
नाम पञ्चमोऽध्यायः॥५॥