अथ चतुर्थोऽध्यायः

ब्रह्मोवाच

नाडीद्वयावशिष्टायां रात्र्यां गच्छेज्जलाशयम्।
तुलसीमृत्तिकायुक्तः सवस्त्रकलशो मुने॥१॥
आगत्य तोयनिकटे तीरे संस्थाप्य पात्रकम्।
पादप्रक्षालनं कृत्वा देशकालादि चोच्चरेत्॥२॥
स्मरेद्गङ्गादिका नद्यो विष्णुशर्वादिदेवताः।
नाभिमात्रे जले स्थित्वा मन्त्रमेतमुदीरयेत्॥३॥
कार्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्दन।
प्रीत्यर्थं तव देवेश दामोदर मया सह॥४॥
नित्ये नैमित्तिके कृत्वा कार्तिके पापनाशन।
स्नानं चार्घं प्रदास्यामि निर्विघ्नं कुरु केशव॥५॥
तीर्थादिदेवताभ्यश्च क्रमादर्घ्यादि दापयेत्।
गृहाणार्घ्यं मया दत्तं राधया सहितो हरे॥६॥
नमः कमलनाभाय नमस्ते जलशायिने।
नमस्तेऽस्तु हृषीकेश गृहाणार्घ्यं नमोऽस्तु ते॥७॥
व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम।
गृहाणार्घ्यं मया दत्तं दनुजेन्द्रनिषूदन॥८॥
किरणा धूतपापा च पुण्यतोया सरस्वती।
गङ्गा च यमुना चैव पञ्चनद्यः पुनन्तु माम्॥९॥
अन्यासां च नदीनां च दद्यादर्घ्यं यथाविधि।
जाह्नवीस्मरणं कुर्यात्सर्वतीर्थेषु मानवः॥१०॥
नान्यत्तीर्थं तु जाह्नव्यां स्मरणीयं कदाचन।
एतान्मन्त्रान्समुच्चार्य मलस्नानं समाचरेत्॥११॥
मृत्स्नानं च पितृस्नानं गुरुस्नानं ततः परम्।
ततस्तु पावमानीभिरभिषिञ्चेत्स्वमस्तकम्॥१२॥
अघमर्षणकं कृत्वा स्नानाङ्गं तर्पणं तथा।
ततः पुरुषसूक्तेन जलं शिरसि सिञ्चयेत्॥१३॥
ततस्तु बहिरागत्य तीर्थं शिरसि निक्षिपेत्।
तीर्थं पीत्वा त्रिवारं तु तुलसीं गृह्य पाणिना॥१४॥
ततो जलाद्विनिष्क्रम्य चाञ्चलं पीडयेद्बहिः।
यन्मया दूषितं तोयं शारीरमलसञ्चयैः॥१५॥
तद्दोषपरिहारार्थं यक्ष्मणं तर्पयाम्यहम्।
वस्त्रनिष्पीडनं कृत्वा कुर्याच्च तिलकादिकम्॥१६॥

सूत उवाच

शृणुध्वमृषयः सर्वे कार्तिकस्नानजं फलम्।
अरुणं प्रति सूर्येण यदुक्तं च सविस्तरम्॥१७॥

अरुण उवाच

कस्मिंस्तीर्थे विशेषेण फलं कार्तिकसम्भवम्।
क्षेत्रे वा एतदाख्याहि भगवन् स्नानयोगतः॥१८॥

सूर्य उवाच

यत्र कुत्रापि कर्तव्यं जले स्नानं तु कार्तिकम्।
उष्णोदकेन कर्तव्यं स्नानं कुत्रापि कार्तिके॥१९॥
ततो दशगुणं पुण्यं शीततोयनिमज्जनात्।
ततः शतगुणं पुण्यं बहिः कूपोदके कृतम्॥२०॥
कूपात्सहस्रगुणितं फलं वापीनिषेकतः।
ततोऽयुतगुणं पुण्यं तडागस्नानतो भवेत्॥२१॥
ततो दशगुणं पुण्यं निर्झरेषु निमज्जनात्।
ततोऽधिकतरं पुण्यं नदीस्नानस्य कार्तिके॥२२॥
नद्या दशगुणं प्रोक्तं तीर्थस्नानं खगोत्तम।
ततो दशगुणं पुण्यं नद्योर्यत्र च सङ्गमः॥२३॥
नदीत्रयस्य संयोगे पुण्यस्यान्तो न विद्यते।
सिन्धुः कृष्णा च वेणी च यमुना च सरस्वती॥२४॥
गोदावरी विपाशा च नर्मदा तमसा मही।
कावेरी शरयूः शिप्रा तथा चर्मण्वती नदी॥२५॥
वितस्ता वेदिका शोणो वेत्रवत्यपराजिता।
गण्डकी गोमती पूर्णा ब्रह्मपुत्रा सरोवरम्॥२६॥
वाग्मती च शतद्रुश्च तथा बदरिकाश्रमः।
दुर्लभाः कार्तिके त्वेते तीर्थान्यथ निबोध मे॥२७॥
सर्वेभ्यश्च स्थलेभ्यश्च आर्यावर्तं तु पुण्यदम्।
कोल्हापुरी ततः श्रेष्ठा ततः काञ्चीद्वयं स्मृतम्॥२८॥
अनन्तसेनवसतिर्वराहक्षेत्रमेव च।
चक्रक्षेत्रं ततः पुण्यं मुक्तिक्षेत्रं ततोऽधिकम्॥२९॥
अवन्तिका ततः श्रेष्ठा ततो बदरिकाश्रमः।
अयोध्या च ततः श्रेष्ठा गङ्गाद्वारं ततोऽधिकम्॥३०॥
ततः कनखलं तीर्थं ततो मधुपुरी वरा।
एकोऽपि कार्तिको मासो मथुरायमुनाजले॥३१॥
यैः स्नातस्ते तु वैकुण्ठे बहुकालं वसन्ति हि।
राधादामोदरस्तत्र स्वयं स्नातस्तु कार्तिके॥३२॥
अतो मधुपुरी श्रेष्ठा यमुना च विशेषतः॥३३॥
द्वारावती ततः श्रेष्ठा प्रत्यहं स्नाति केशवः।
षोडशस्त्रीसहस्रेण सार्धं यादवसंयुतः॥३४॥
द्वारकायां मृत्तिकायास्तिलको येन मस्तके।
धार्यतेऽसौ नरो ज्ञेयो जीवन्मुक्तो न संशयः।
द्वारकास्नानमाहात्म्यं न वक्तुं शक्यते मया॥३५॥
गोविन्दार्पितचित्तानां जायते पुण्यभास्करा।
ततो भागीरथी श्रेष्ठा यत्र विन्ध्येन सङ्गता॥३६॥
तस्माद्दशगुणं पुण्यं तीर्थराजेऽत्र जायते॥३७॥
कलौ दशसहस्रान्ते विष्णुस्त्यक्ष्यति मेदिनीम्।
तदर्धं जाह्नवीतोयं तदर्धं देवतागणाः॥३८॥
यावत्तिष्ठति गङ्गाऽत्र तावत्तीर्थानि सन्ति च।
स्वस्वस्थाने नृणां पापं तावदेव हरन्ति च॥३९॥
यदैव गङ्गा नष्टा स्यात्को वा तत्पापमाहरेत्।
विचार्यैवं सुतीर्थानि गमिष्यन्ति धरातले॥४०॥
तस्मान्मुनीश्वराः सर्वे यावत्तिष्ठति जाह्नवी।
तावच्च क्रियतां धर्मस्ततो भूमौ निलीयताम्॥४१॥
समाधिं गृह्य सुदृढां यावत्कृतयुगं भवेत्।
अन्यथा कलिकालेन भ्रंशनीयो भवेत् सुधीः॥४२॥
ततः श्रेष्ठतरा काशी यस्या नाशो न जायते।
यदाश्रयेण गङ्गाऽपि सर्वपापं व्यपोहति॥४३॥
काशिकाया नैव नाशो ब्रह्मण्यपि मृते सति।
यद्दर्शनार्थं गङ्गाऽपि जाता चोत्तरवाहिनी।
तस्यां पञ्चनदं तीर्थं त्रिषु लोकेषु विश्रुतम्॥४४॥
आगते कार्तिके मासि रौरवं नरकं गताः।
आक्रोशन्ते तु पितरो वंशेऽस्माकं भविष्यति॥४५॥
कश्चिद्भाग्यवतां श्रेष्ठो गत्वा पञ्चनदे शुभे।
अस्माकं तर्पणं कुर्यान्नरकार्णवतारकम्॥४६॥
तीर्थराजादितीर्थानि प्राप्ते कार्तिकमासके।
स्नानार्थं पञ्चगङ्गं तु समायान्ति न संशयः॥४७॥
कृत्वा तु लक्षपापानि स्नात्वा पञ्चनदे शुभे।
बिन्दुमाधवमभ्यर्च्य विलयं यान्ति तत्क्षणात्॥४८॥
यैः स्नातं कार्तिके मासि सकृत्पञ्चनदे शुभे।
सर्वतीर्थकृतास्नानात्फलं कोटिगुणं भवेत्॥४९॥

ब्रह्मोवाच

कार्तिके मासि कावेर्यां यः स्नानं कर्तुमिच्छति।
तावता वै विमुक्ताघो विष्णुसायुज्यमाप्नुयात्॥५०॥
कावेर्याश्चैव माहात्म्यं को वदेत्परमुत्तमम्।
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम्॥५१॥
कावेर्या विषये ब्रह्मन्सावधानमनाः शृणु।
गौतम्या उत्तरे तीरे विष्णुपादाब्जसम्भवा॥५२॥
गङ्गा त्रैलोक्यपापघ्नी वर्तते लोकपूजिता।
सा गङ्गा चिन्तयामास कदाचित्पापशङ्किता॥५३॥
सर्वलोकाः समागत्य मयि पापं त्यजन्ति हि।
तत्पापं तु कथं गच्छेदिति चिन्तापरा तदा॥५४॥
प्रष्टुं जगाम कैलासं गिरिजावल्लभं भवम्।
तत्र दृष्ट्वा महारुद्रं प्रोवाच हरिपादजा॥५५॥

गङ्गोवाच

महारुद्र नमस्तेऽस्तु त्वां प्रष्टुमहमागता।
सर्वे लोकाः समागत्य मयि पापं त्यजन्ति हि॥५६॥
तत्पापं तु मया सोढुं न शक्यं पार्वतीपते।
येनोपायेन तत्पापं नाऽऽगच्छेन्मम तद्वद॥५७॥
एवं गङ्गावचः श्रुत्वा प्रत्याह परमेश्वरः।

रुद्र उवाच

पापनिर्हरणायादौ पद्मनाभाङ्घ्रिपङ्कजात्॥५८॥
प्रादुर्भूताऽसि त्वं देवि किमर्थं तप्यते त्वया।
पापप्रहाराऽऽधिपत्यं कल्पितं तव विष्णुना॥५९॥
तथाऽपि पापनिर्हार उपायं ते ब्रवीम्यहम्।
कवेश्च तनया देवी कावेरी सरितां वरा॥६०॥
सर्वोत्कृष्टा च सर्वेषां हरेर्बलवशात्तु सा।
सर्वपापप्रहरणे सामर्थ्यं तत्र वर्तते॥६१॥
कार्तिके मासि कावेर्यां यः स्नानं कुरुते नरः।
स तु पापविनिर्मुक्तो याति विष्णोः परं पदम्॥६२॥
तस्मात् तां गच्छ देवि त्वं ततः पापाद्विमोक्ष्यसे।
इत्युक्ता सा तदागच्छत्कावेरीं पापहारिणीम्॥६३॥
तज्जलस्पर्शमात्रेण कार्तिके विष्णुपादजा।
निर्धूतपातका गङ्गा जगाम स्वनिकेतनम्॥६४॥
कार्तिके प्रतिवर्षं तु गङ्गा त्रैलोक्यपावनीम्।
स्नातुं भक्त्या समायाति कावेरीं पापहारिणीम्॥६५॥
तज्जलस्पर्शमात्रेण कार्तिके विष्णुपादजा।
निर्धूतपातका गङ्गा जगाम स्वनिकेतनम्॥६६॥
तस्माच्छस्तं तुलास्नानं कावेर्यां शस्यते बुधैः।
यः कावेर्यां तुलास्नानं भक्त्या तु कुरुते मुने॥६७॥
विमुक्तदुरितः सद्यस्ततो याति परां गतिम्।
तस्मात् स्नानं तु कावेर्यां कार्तिके मासि शस्यते॥६८॥
इतिहासमिमं श्रुत्वा कार्तिकव्रततत्परः।
स कावेरीस्नानफलं प्राप्नोति च परां गतिम्॥६९॥
रात्रिशेषे भवेत् स्नानमुत्तमं विष्णुतुष्टिकृत्।
सूर्योदये मध्यमं स्याद्यावन्नाऽऽस्ता तु कृत्तिका॥७०॥
तावदेव भवेत् स्नानमन्यथा तन्न कार्तिकम्।
स्नानं स्त्रीभिर्विधातव्यं गृहीत्वाऽऽज्ञां धवस्य च॥७१॥
अपृष्ट्वा यत्कृतं धर्म्यं भर्तारं तत्क्षयं नयेत्।
स्त्रीणां नास्त्यपरो धर्मो भर्तारं प्रोज्झ्य कश्चन॥७२॥
कुर्यात्सहस्रपापानि भर्त्राज्ञां या समाचरेत्।
सैषा धर्मवती लोके न जायेत व्रतादिना॥७३॥
दरिद्रः पतितो मूर्खो दीनोऽपि यदि चेत्पतिः।
तादृशः शरणं स्त्रीणां तत्त्यागान्निरयं व्रजेत्॥७४॥
कलौ वत्स मनुष्याणां शैथिल्यं स्नानकर्मणि।
तथाऽपि कथयिष्यामि स्नानं कार्तिकमाघयोः॥७५॥
यस्य हस्तौ च पादौ च वाङ्मनश्च सुसंयतम्।
विद्या तपश्च कीर्तिश्च स तीर्थफलभाङ्नरः॥७६॥
अश्रद्दधानः पापात्मा नास्तिकश्छिन्नमानसः।
हेतुवादी च पञ्चैते न तीर्थफलभागिनः॥७७॥
प्रातरुत्थाय यो विप्रस्तीर्थस्नायी सदा भवेत्।
सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति॥७८॥
स्नानं चतुर्विधं प्रोक्तं स्नानविद्भिर्मनीषिभिः।
वायव्यं वारुणं दिव्यं ब्राह्मं चेति तथा स्मृतम्॥७९॥
वायव्यं गोरजःस्नानं वारुणं सागरादिषु।
ब्राह्मं ब्राह्मणमन्त्रोक्तं दिव्यं मेघाम्बु भास्करम्॥८०॥
स्नानानां चैव सर्वेषां विशिष्टं तत्र वारुणम्।
ब्राह्मणः क्षत्रियो वैश्यो मन्त्रवत्स्नानमाचरेत्॥८१॥
तूष्णीमेव हि शूद्रस्य स्त्रीणां चैव तथा स्मृतम्।
बाला च तरुणी वृद्धा नरनारीनपुंसकाः॥८२॥
पापैः सर्वैः प्रमुच्यन्ते स्नानात्कार्तिकमाघयोः।
स्नाता वै कार्तिके लोकाः प्राप्नुवन्तीप्सितं फलम्॥८३॥
पुष्करे तीर्थवर्ये तु नन्दायाः सङ्गमे पुरा।
प्रभञ्जनश्च मुक्तोभूत्तदैव व्याघ्रजन्मतः॥८४॥
नन्दाया वचनेनैव कार्तिके सा परं ययौ।
एवं स्नानविधिः प्रोक्तः किं भूयः श्रोतुमिच्छसि॥८५॥

आदितः श्लोकाः — २४७
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
कार्तिकस्नानविधिनिरूपणं
नाम चतुर्थोऽध्यायः॥४॥