अथ तृतीयोऽध्यायः
ब्रह्मोवाच
भूयः शृणुष्व विप्रेन्द्र कार्तिकस्य च वैभवम्।
दशमीदिनमारभ्य दशम्यां तु समापयेत्॥१॥
पौर्णमासीं समारभ्य पौर्णमास्यां समापयेत्।
आश्विनस्य हरिदिनीं समारभ्य तु भक्तिमान्॥२॥
दामोदरं नमस्कृत्य कुर्यात्सङ्कल्पमादितः।
दामोदर नमस्तेऽस्तु सर्वपापविनाशन॥३॥
कार्तिकस्य व्रतं कर्तुमनुज्ञां दातुमर्हसि।
निर्विघ्नं कुरु देवेश आमासं पुरुषोत्तम॥४॥
इति सम्प्रार्थ्य विधिना कार्तिकव्रतमाचरेत्।
अनूरुं वदता प्रोक्तं भास्करेण श्रुतं मया।
कलौ च स्वर्गगमनकारणं श्रूयतां हि तत्॥५॥
सूर्य उवाच
द्वादशानां तु मासानां मार्गशीर्षोऽतिपुण्यदः॥६॥
तस्मात् पुण्यफलः प्रोक्तो वैशाखो नर्मदातटे।
ततो लक्षगुणः प्रोक्तः प्रयागे माघमासकः॥७॥
तस्मान्महाफलः प्रोक्तः कार्तिको जलमात्रके।
एकतः सर्वदानानि व्रतानि नियमास्तथा॥८॥
एकतः कार्तिकस्नानं ब्रह्मणा तुलया धृतम्।
सन्ततिश्चैव सम्पत्तिः कलौ येषां प्रजायते॥९॥
अवश्यं तैः कृतं विद्धि कार्तिकस्नानमादरात्।
स्नानं च दीपदानं च तुलसीवनपालनम्॥१०॥
भूमिशय्या ब्रह्मचर्यं तथा द्विदलवर्जनम्।
विष्णुसङ्कीर्तनं सत्यं पुराणश्रवणं तथा॥११॥
कार्तिके मासि कुर्वन्ति जीवन्मुक्तास्त एव हि।
न कार्तिकसमं धर्म्यमर्थ्यं नो कार्तिकात्परम्॥१२॥
न कार्तिकसमं काम्यं मोक्षदानं न कार्तिकात्।
युधिष्ठिरेण धर्मार्थमर्थार्थं च ध्रुवेण च॥१३॥
श्रीकृष्णेन तु कामार्थं मोक्षार्थं नारदेन च।
कृतमेतद्व्रतं तस्माच्छ्रेष्ठं कृष्णप्रियं च हि॥१४॥
अरुण उवाच
ब्रूहि भास्कर सर्वात्मन् कदाऽऽरभ्य व्रतं कृतम्।
सफलं जायते सम्यक् का च पूज्याऽत्र देवता॥१५॥
भास्कर उवाच
अहं विष्णुश्च शर्वश्च देवी विघ्नेश्वरस्तथा।
एकोऽहं पञ्चधा जातो नाट्ये सूत्रधरो यथा॥१६॥
अस्माकं सर्व एवैते भेदा विद्धि खगेश्वर।
तस्मात् सौरैश्च गाणेशैः शाक्तैः शैवैश्च वैष्णवैः॥१७॥
कर्तव्यं कार्तिकस्नानं सर्वपापापनुत्तये।
सूर्यस्य प्रीतये कार्यं तुलासंस्थे दिवाकरे॥१८॥
इषपूर्णां समारभ्य यावत्कार्तिकपूर्णिमा।
तावत्स्नानं विधातव्यं शिवसन्तुष्टये नरैः॥१९॥
देवीपक्षं समारभ्य महारात्रिचतुर्दशी।
तावत्स्नानं विधातव्यं देवी सम्प्रीयतामिति॥२०॥
गणपक्षं समारभ्य कृष्णा या कार्तिके भवेत्।
चतुर्थी तावदेव स्यात्स्नानं गणपतुष्टये॥२१॥
एकादशीं समारभ्य आश्विनस्यासितेतराम्।
एकादश्यां कार्तिकस्य शुक्लायां परिपूर्यते।
कृतं येन तु तस्य स्यात्परितुष्टो जनार्दनः॥२२॥
न कार्तिकसमो मासो न काशीसदृशी पुरी।
न प्रयागसमं तीर्थं न देवः केशवात्परः॥२३॥
प्रसङ्गाद्वा बलात्कारैर्ज्ञात्वाऽज्ञात्वा कृतं भवेत्।
स्नानं कार्तिकमासस्य न पश्येद्यमयातनाम्॥२४॥
स्नानार्थं चेन्न सामर्थ्यं दत्त्वाऽन्यस्मै धनादिकम्।
स्नातस्य तस्य हस्तस्य ग्रहणा पुण्यभाग्भवेत्॥२५॥
अथवा कार्तिकस्नानं ये कुर्वन्ति द्विजातयः।
तेषां प्रावरणं दत्त्वा स्नानजं फलमाप्नुयात्॥२६॥
राधादामोदरः पूज्यः कार्तिके तु विशेषतः॥२७॥
स्वर्णस्य वाऽथ रौप्यस्याप्यभावे शुल्बजामपि।
मृज्जां वा चित्रजातां वाऽथ वा पिष्टविचित्रिताम्॥२८॥
दामोदरस्य राधायास्तुलस्यधोऽर्चयन्ति ये।
मूर्तिं ते तु नरा ज्ञेया जीवन्मुक्ता न संशयः॥२९॥
अपि पापसहस्राढ्यः कार्तिकस्नानतो नरः।
मुक्तोऽवश्यं स भवति नात्र कार्या विचारणा॥३०॥
तुलस्यभावे कर्तव्या पूजा धात्रीतले खग।
मुख्यपूजाविधानं तु कर्तव्यं सूर्यमण्डले॥३१॥
अप्रत्यक्षाः सर्वदेवाः प्रत्यक्षो भगवानयम्।
सर्वे देवाः कालवशाः कालकालो दिवाकरः॥३२॥
एतदाराधनेऽशक्तः प्रतिमां पूजयेन्नरः।
प्रतिमातोऽधिकं पुण्यं ब्राह्मणस्य तु पूजने॥३३॥
दरिद्रो दानपात्रं स्याद्विद्यावांस्तु विशेषतः।
विप्राभावे पूजनीया गावः कृष्णा मनोहराः॥३४॥
विष्णोर्मूर्तिर्जङ्गमतः स्थावरा तु प्रशस्यते।
शूद्रस्थापितमूर्तीनां नमस्कारं करोति यः।
पितृभिर्निरयं याति दशपूर्वैर्दशापरैः॥३५॥
शूद्रार्चितस्य संस्पर्शाद्दहेदासप्तमं कुलम्॥३६॥
तस्माद्विचार्य विप्रैर्या स्थापिता तां समर्चयेत्।
ततोऽपि या देवताभिः कृता सा भुक्तिमुक्तिदा॥३७॥
मूर्त्यभावे पूजनीयोऽश्वत्थो वाऽथ वटोऽथ वा।
अश्वत्थरूपी विष्णुः स्याद्वटरूपी शिवो यतः॥३८॥
कार्तिके तुलसीशाकं ताम्बूलं वा नराधमः।
अज्ञानाज्ज्ञानतो वाऽपि भुञ्जानो निरयं व्रजेत्॥३९॥
शालिग्रामशिलाचक्रे नित्यं सन्निहितो हरिः।
तस्मात् सर्वप्रयत्नेन शालिग्रामं प्रपूजयेत्॥४०॥
रुद्रशापवशाद्गावो विष्ठाभक्षणतत्पराः।
तथाऽपि ताः पूजनीया लोकद्वयफलप्रदाः॥४१॥
ब्रह्मांशकसमुद्भूते पालाशे यस्तु भोजनम्।
कुर्यात्कार्तिकमासेऽसौ विष्णुलोकं प्रयास्यति॥४२॥
अश्वत्थरूपी भगवान्वटरूपी सदाशिवः।
तस्मात् सर्वप्रयत्नेन कार्तिकेऽश्वत्थमर्चयेत्॥४३॥
या नारी कार्तिके मासि लक्षं कुर्यात्प्रदक्षिणाः।
राधादामोदरं पूज्य मन्दवारे च तत्तले॥४४॥
दम्पती भोजयेद्राधादामोदरस्वरूपिणौ।
भोजयित्वा सपत्नीकान् पश्चाद्भुञ्जीत वाग्यतः॥४५॥
वन्ध्याऽपि लभते पुत्रमितरासां तु का कथा।
सदा सन्निहितो विष्णुर्द्विपत्सु ब्राह्मणे यथा॥४६॥
बोधिद्रुमे पादपेषु शालिग्रामे शिलासु च।
तस्मादश्वत्थमूले वै कर्तव्यं विष्णुपूजनम्॥४७॥
अश्वत्थपूजा स्पर्शेन कर्तव्या शनिवासरे।
अन्यवारेऽश्वत्थसङ्गाद्दरिद्रो जायते नरः॥४८॥
स्नानं जागरणं दीपं तुलसीवनपालनम्।
कार्तिके मासि कुर्वन्ति ते नरा विष्णुमूर्तयः॥४९॥
सम्मार्जनं विष्णुगृहे स्वस्तिकादिनिवेदनम्।
विष्णोः पूजां च ये कुर्युर्जीवन्मुक्तास्तु ते नराः॥५०॥
स्नानकालं प्रवक्ष्यामि तीर्थादिषु च यत्फलम्।
स्नानधर्माश्च ये केचित्तान्सर्वान्मे निबोधत॥५१॥
आदितः श्लोकाः — १६२
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
कार्तिकवैभववर्णनं
नाम तृतीयोऽध्यायः॥३॥
❀