अथ द्वितीयोऽध्यायः
ब्रह्मोवाच
अथ कार्तिकमासस्य धर्मान्वक्ष्यामि नारद।
सम्प्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत्॥१॥
स तु मोक्षमवाप्नोति नात्र कार्या विचारणा।
सर्वेषामेव धर्माणां गुरुपूजा परा मता।
गुरुशुश्रूषया सर्वं प्राप्नोति ऋषिसत्तम॥२॥
गुरौ तुष्टे च तुष्टाः स्युर्देवाः सर्वे सवासवाः।
गुरौ रुष्टे च रुष्टाः स्युर्देवाः सर्वे सवासवाः॥३॥
कार्तिकं मासि सम्प्राप्ते कृत्वा कर्माणि भूरिशः।
अकृत्वा गुरुशुश्रूषां नरकानेव विन्दति॥४॥
यत्किञ्चिद्वा समादिष्टो गुरुणा तत्समाचरेत्॥५॥
आज्ञप्तो गुरुणा विप्र न तद्वाक्यं तु लङ्घयेत्।
यदि दुःखादिकं प्राप्तं गुरुं तु शरणं व्रजेत्॥६॥
मातृत्वे च पितृत्वे च गुरुमेव स्मरेद्बुधः।
गुरौ न प्राप्यते यत्तन्नान्यत्रापि हि लभ्यते॥७॥
गुरुप्रसादात्सर्वं तु प्राप्नोत्येव न संशयः।
मेधावी कपिलश्चैव सुमतिश्च महातपाः।
गौतमस्य गुरोः सम्यक्सेवयाऽमरतां गताः॥८॥
तस्मात् सर्वप्रयत्नेन कार्तिके विष्णुतत्परः।
गुरुसेवां प्रकुर्वीत ततो मोक्षमवाप्नुयात्॥९॥
नरेभ्यो वैष्णवं धर्मं यो ददाति द्विजोत्तमः।
ससागरमहीदाने तत्पुण्यं लभते हि सः॥१०॥
तिलधेनुं हिरण्यं च रजतं भूमिवाससी।
गोप्रदानानि दास्यन्ति सर्वभावेन सुव्रत॥११॥
सर्वेषामेव दानानां कन्यादानं विशिष्यते।
सहस्रमेव धेनूनां शतं चानडुहां समम्॥१२॥
दशानडुत्समं यानं दशयानसमो हयः।
हयदानसहस्रेभ्यो गजदानं विशिष्यते॥१३॥
गजदानसहस्राणां स्वर्णदानं च तत्समम्।
स्वर्णदानसहस्राणां विद्यादानं च तत्समम्॥१४॥
विद्यादानात्कोटिगुणं भूमिदानं विशिष्यते।
भूमिदानसहस्रेण गोप्रदानं विशिष्यते॥१५॥
गोप्रदानसहस्रेभ्यो ह्यन्नदानं विशिष्यते।
अन्नाधारमिदं प्रोक्तं तस्माद्देयं तु कार्तिके॥१६॥
परान्नवर्जनादेव लभेच्चान्द्रायणं फलम्।
दिनेदिनेऽतिकृच्छ्रस्य फलं प्राप्नोति मानवः॥१७॥
कार्तिके वर्जयेन्मांसं सन्धानं च विशेषतः।
राक्षसीं योनिमाप्नोति सकृन्मांसस्य भक्षणात्॥१८॥
प्रवृत्तानां तु भक्ष्याणां कार्तिके नियमे कृते।
अवश्यं विष्णुरूपत्वं प्राप्यते मोक्षदं पदम्॥१९॥
ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे सूर्यचन्द्रयोः।
यत्फलं लभते वत्स तत्फलं भूमिशायिनः॥२०॥
भोजनं द्विजदम्पत्योः पूजनं च विलेपनैः।
कम्बलानि च रत्नानि वासांसि विविधानि च॥२१॥
तूलिकाश्च प्रदातव्याः प्रच्छादनपटैः सह।
उपानहावातपत्रं कार्तिके देहि सुव्रत॥२२॥
कार्तिके क्षितिशायी च हन्यात्पापं युगार्जितम्।
जागरं कार्तिके मासि यः करोत्यरुणोदये॥२३॥
दामोदराग्रे देवर्षे गोसहस्रफलं लभेत्।
नदीस्नानं कथा विष्णोर्वैष्णवानां च दर्शनम्॥२४॥
न भवेत्कार्तिके यस्य हरेत्पुण्यं दशाब्दिकम्।
पुष्करं यः स्मरेत्प्राज्ञः कर्मणा मनसा गिरा॥२५॥
कार्तिके मुनिशार्दूल लक्षकोटिगुणं भवेत्।
प्रयागो माघमासे तु पुष्करं कार्तिके तथा॥२६॥
अवन्ती माधवे मासि हन्यात्पापं युगार्जितम्।
धन्यास्ते मानवा लोके कलिकाले विशेषतः॥२७॥
ये कुर्वन्ति नरा नित्यं प्रीत्यर्थं हरिपूजनम्।
तारितास्तैश्च पितरो नरकाच्च न संशयः॥२८॥
क्षीरादिस्नपनं विष्णोः क्रियते पितृकारणात्।
कल्पकोटिं दिवं प्राप्य वसन्ति त्रिदिवैः सह॥२९॥
कार्तिके नार्चितो यैस्तु कृष्णस्तु कमलेक्षणः।
जन्मकोटिषु विप्रेन्द्र न तेषां कमला गृहे॥३०॥
अहो मुष्टा विनष्टास्ते पतिताः कलिकन्दरे।
यैर्नार्चितो हरिर्भक्त्या कमलैरसितैः सितैः॥३१॥
पद्मेनैकेन देवेशं योऽर्चयेत्कमलापतिम्।
वर्षायुतसहस्रस्य पापस्य कुरुते क्षयम्।
पुष्करार्चनयोगेन श्वेतो मुक्तिमवाप ह॥३२॥
अपराधसहस्राणि तथा सप्तशतानि च।
पद्मेनैकेन देवेशः क्षमते प्रणतोऽर्चितः॥३३॥
तुलसीपत्रलक्षेण कार्तिके योऽर्चयेद्धरिम्।
पत्रेपत्रे मुनिश्रेष्ठ मौक्तिकं लभते फलम्॥३४॥
मुखे शिरसि देहे तु कृष्णोत्तीर्णां तु यो वहेत्।
तुलसी कृष्णनिर्माल्यैर्यो गात्रं परिमार्जयेत्।
सर्वरोगैस्तथा पापैर्मुक्तो भवति मानवः॥३५॥
शङ्खोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलम्।
चन्दनं धूपशेषं च ब्रह्महत्यापहारकम्॥३६॥
कार्तिके मासि विप्रेन्द्र प्रातःस्नानपरायणः।
विप्रेभ्यश्चान्नदानं तु कुर्याच्छक्त्यनुसारतः॥३७॥
सर्वेषामेव दानानामन्नदानं विशिष्यते।
अन्नेन जायते लोको ह्यन्नेनैवाभिवर्धते॥३८॥
अन्नं हि सर्वभूतानां प्राणभूतं परं विदुः।
अन्नदः सर्वदो लोके सर्वयज्ञादिकृद्भवेत्॥३९॥
तीर्थस्नानेन किं तस्य देवयात्रादिनाऽपि किम्।
सर्वं सम्पाद्यते ब्रह्मन्नन्नदानान्न संशयः॥४०॥
सत्यकेतुर्द्विजः पूर्वं चान्नदानेन केवलम्।
सर्वपुण्यफलं प्राप्य मोक्षं प्राप सुदुर्लभम्॥४१॥
कार्तिकव्रतनिष्ठस्तु कुर्याद्गोदानमुत्तमम्।
व्रतं सम्पूर्णतां याति गोदानेन न संशयः॥४२॥
गोदानात्परमं दानं संसारार्णवतारकम्।
नास्ति नारद लोकेऽस्मिन्सुशर्मा ब्राह्मणो यथा॥४३॥
कार्तिके मासि विप्रेन्द्र दत्त्वा दानान्यनेकशः।
हरिस्मृतिविहीनश्चेन्न पुनन्ति कदाचन॥४४॥
नामस्मरणमाहात्म्यं मया वक्तुं न शक्यते।
पुष्करेण यथा पूर्वं नारकीयाश्च मोचिताः॥४५॥
गोविन्द गोविन्द हरे मुरारे
गोविन्द गोविन्द मुकुन्द कृष्ण।
गोविन्द गोविन्द रथाङ्गपाणे
गोविन्द दामोदर माधवेति॥४६॥
श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम्।
कार्तिके यः पठन्मर्त्यः श्रद्धाभक्तिसमन्वितः॥४७॥
यैर्न श्रुतं भागवतं पुराणं
नाऽऽराधितो वै पुरुषः पुराणः।
हुतं मुखे नैव धरामराणां
तेषां वृथा जन्म गतं नराणाम्॥४८॥
कार्तिके मासि विप्रेन्द्र यस्तु गीतां पठेन्नरः।
तस्य पुण्यफलं वक्तुं मम शक्तिर्न विद्यते॥४९॥
गीतायास्तु समं शास्त्रं न भूतं न भविष्यति।
सर्वपापहरा नित्यं गीतैका मोक्षदायिनी॥५०॥
एकेनाध्यायपाठेन सर्वपापकृतोऽपि च।
मुच्यन्ते नरकाद् घोराज्जडो वै ब्राह्मणो यथा॥५१॥
शालिग्रामशिलादानं यः कुर्यात्कार्तिके मुने।
तस्य पुण्यस्य विश्रान्तिर्विष्णुना न निरूपिता॥५२॥
शालिग्रामं समभ्यर्च्य श्रोत्रियाय महामुने।
दानं यः कुरुते विप्र तस्य पुण्यफलं शृणु॥५३॥
सप्तसागरपर्यन्तं भूदानाद्यत्फलं भवेत्।
शालिग्रामशिलादानात्तत्फलं समवाप्नुयात्॥५४॥
शालिग्रामशिलादानात्कार्तिके ब्राह्मणी यथा।
विधवा सधवा जाता विवाहे पञ्चमेऽहनि॥५५॥
तस्मात् तु कार्तिके मासि स्नानदानपुरःसरम्।
शालिग्रामशिलादानं कर्तव्यं नात्र संशयः॥५६॥
आदितः श्लोकाः — १११
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
कार्तिकव्रतधर्मनिरूपणं
नाम द्वितीयोऽध्यायः॥२॥
❀