अथ प्रथमोऽध्यायः
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥१॥
ऋषय ऊचुः
सूत नः कथितं पुण्यं माहात्म्यमाश्विनस्य च।
भूयोऽन्यच्छ्रोतुमिच्छामः कार्तिकस्य च वैभवम्॥२॥
कलौ कलुषचित्तानां नराणां पापकर्मणाम्।
संसाराब्धौ निमग्नानामनायासेन का गतिः॥३॥
को धर्मः सर्वधर्माणामधिको मोक्षसाधकः।
इहापि मुक्तिदो नॄणामेतत्त्वं कथय प्रभो॥४॥
सूत उवाच
भवद्भिर्यदहं पृष्टस्तदेतत्पृष्टवान्मुनिः।
नारदो ब्रह्मणः पुत्रो ब्रह्माणं तु जगद्गुरुम्॥५॥
तथैव सत्यभामा च श्रीकृष्णं जगदीश्वरम्।
अपृच्छत्कार्तिकस्यैव वैभवं श्रवणोत्सुका॥६॥
वालखिल्यैश्च ऋषिभिर्यदुक्तमृषिसंसदि।
श्रीसूर्यारुणसंवादरूपेणातिमनोहरम्॥७॥
कैलासे शङ्करेणैव कार्तिकस्य च वैभवम्।
वर्णितं षण्मुखस्याग्रे नानाख्यानसमन्वितम्॥८॥
पृथुं प्रति नारदेन कथितं च महात्म्यकम्।
कार्तिकस्य च विप्रेन्द्रा श्रुत्वा ब्रह्ममुखात्पुरा॥९॥
एकदा नारदो योगी सत्यलोकमुपागतः।
पप्रच्छ विनयेनैव सर्वलोकपितामहम्॥१०॥
नारद उवाच
पापेन्धनस्य घोरस्य शुष्कार्द्रस्य च भूरिशः।
को वह्निर्दहते ब्रह्मंस्तद्भवान्वक्तुमर्हति॥११॥
नाज्ञातं त्रिषु लोकेषु ब्रह्माण्डान्तर्गतस्य यत्।
विद्यते तव देवेश त्रिविधस्य सुनिश्चितम्॥१२॥
मासानां प्रवरो मासो देवानामुत्तमोत्तमः।
तीर्थानि तद्विशेषेण कथयस्व पितामह॥१३॥
ब्रह्मोवाच
मासानां कार्तिकः श्रेष्ठो देवानां मधुसूदनः।
तीर्थं नारायणाख्यं हि त्रितयं दुर्लभं कलौ॥१४॥
नारद उवाच
भगवंस्तव दासोऽस्मि भक्तोऽस्मि हरिवल्लभ।
वैष्णवान्ब्रूहि मे धर्मान्सर्वज्ञोऽसि पितामह॥१५॥
आदौ कार्तिकमाहात्म्यं वक्तुमर्हसि मे प्रभो।
दीपदानस्य माहात्म्यं व्रतिनां नियमांस्तथा॥१६॥
गोपीचन्दनमाहात्म्यं तुलस्याश्च तथा विभो।
धात्र्याश्चैव च माहात्म्यं विधिं स्नानादिकस्य च।
व्रतारम्भः कदा कार्यं उद्यापनविधिं तथा॥१७॥
यत्किञ्चिद्वैष्णवं धर्मं तत्सर्वं वक्तुमर्हसि।
येनाहं त्वत्प्रसादेन पदं यास्याम्यनामयम्॥१८॥
सूत उवाच
इति पुत्रवचः श्रुत्वा ब्रह्मा हर्षसमन्वितः।
राधादामोदरं स्मृत्वा प्रोवाच तनुजं प्रति॥१९॥
ब्रह्मोवाच
साधु पृष्टं त्वया पुत्र लोकोद्धरणहेतवे।
कथयामि न सन्देहः कार्तिकस्य च वैभवम्॥२०॥
एकतः सर्वतीर्थानि सर्वे यज्ञाः सदक्षिणाः।
कार्तिकस्य तु मासस्य कलां नार्हन्ति षोडशीम्॥२१॥
एकतः पुष्करे वासः कुरुक्षेत्रे हिमालये।
एकतः कार्तिकः पुत्र सर्वपुण्याधिको मतः॥२२॥
स्वर्णानि मेरुतुल्यानि सर्वदानानि चैकतः।
एकतः कार्तिको वत्स सर्वदा केशवप्रियः॥२३॥
यत्किञ्चित्क्रियते पुण्यं विष्णुमुद्दिश्य कार्तिके।
तस्य क्षयं न पश्यामि मयोक्तं तव नारद॥२४॥
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम्।
तथात्मानं समादद्यान्न भ्रश्येत यथा पुनः॥२५॥
दुष्प्राप्यं प्राप्य मानुष्यं कार्तिकोक्तं चरेन्न यः।
धर्मं धर्मभृतां श्रेष्ठ स मातापितृघातकः॥२६॥
कार्तिकः खलु वै मासः सर्वमासेषु चोत्तमः।
पुण्यानां परमं पुण्यं पावनानां च पावनम्॥२७॥
अस्मिन्मासे त्रयस्त्रिंशद् देवाः सन्निहिता मुने।
अत्र स्नानानिदानानि भोजनानि व्रतानि च॥२८॥
तिलधेनुं हिरण्यं च रजतं भूमिवाससी।
गोप्रदानानि कुर्वन्ति सर्वभावेन नारद॥२९॥
तानि दानानि दत्तानि गृह्णन्ति विधिवत्सुराः।
यत्किञ्च दत्तं विप्रेन्द्र तपश्चैव तथा कृतम्॥३०॥
तदक्षय्यफलं प्रोक्तं विष्णुना प्रभविष्णुना।
पापानां मोक्षणं चैव कार्तिके मासि शस्यते॥३१॥
तस्माद्यत्नेन विप्रेन्द्र कार्तिके मासि दीयते।
यत्किञ्चित्कार्तिके दत्तं विष्णुमुद्दिश्य मानवैः॥३२॥
तदक्षयं हि लभते अन्नदानं विशेषतः।
यथा नदीनां विप्रेन्द्र शैलानां चैव नारद॥३३॥
उदधीनां च विप्रर्षे क्षयो नैवोपपद्यते।
दानं कार्तिकमासे तु यत्किञ्चिद्दीयते मुने॥३४॥
न तस्यास्ति क्षयो विप्र पापं याति सहस्रधा।
सम्प्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत्॥३५॥
दिनेदिनेऽतिकृच्छ्रस्य फलं प्राप्नोत्ययत्नतः।
न कार्तिकसमो मासो न कृतेन समं युगम्॥३६॥
न वेदसदृशं शास्त्रं न तीर्थं गङ्गया समम्।
न चान्नसदृशं दानं न सुखं भार्यया समम्॥३७॥
न्यायेनोपार्जितं द्रव्यं दुर्लभं दानकारिणाम्।
दुर्लभं मर्त्यधर्माणां तीर्थे च प्रतिपादनम्॥३८॥
कार्तिके मुनिशार्दूल शालिग्रामशिलार्चनम्।
स्मरणं वासुदेवस्य कर्तव्यं पापभीरुणा॥३९॥
एतादृशं कार्तिकं च अकृतेनैव यो नयेत्।
पूर्वं कृतस्य पुण्यस्य क्षयमाप्नोत्यसंशयम्॥४०॥
नारद उवाच
अशक्तेन कथं कार्यं कार्तिकव्रतमुत्तमम्।
येन तत्फलमाप्नोति तन्मे वद पितामह॥४१॥
ब्रह्मोवाच
अशक्तस्तु यदा मर्त्यस्तदैवं व्रतमाचरेत्।
अन्यस्मै द्रविणं दत्त्वा कारयेत्कार्तिकव्रतम्॥४२॥
तस्मात् पुण्यं प्रगृह्णीत दानसङ्कल्पपूर्वकम्।
द्रव्यदानेऽप्यशक्तश्चेद्यदा देवर्षिसत्तम॥४३॥
तदा तेन प्रकर्तव्यं पानं तीर्थजलस्य च।
तत्राप्यशक्तो यो मर्त्यस्तेन नित्यं हरेर्मुदा॥४४॥
स्मरणं च प्रकर्तव्यं नाम्ना नियमपूर्वकम्।
अखण्डितं तदा तेन कार्तिकव्रतजं फलम्॥४५॥
विष्णोः शिवस्य वा कुर्यादालये हरिजागरम्।
शिवविष्ण्वोर्गृहाभावे सर्वदेवालयेष्वपि॥४६॥
दुर्गाटव्यां स्थितो वाऽथ यदि वाऽऽपद्गतो भवेत्।
कुर्यादश्वत्थमूले तु तुलसीनां वनेष्वपि॥४७॥
विष्णुनामप्रबन्धानां गायनं विष्णुसन्निधौ।
गोसहस्रप्रदानस्य फलमाप्नोति मानवः॥४८॥
वाद्यकृत्पुरुषश्चापि वाजपेयफलं लभेत्।
सर्वतीर्थावगाहोत्थं नर्तकः फलमाप्नुयात्॥४९॥
सर्वमेतल्लभेत्पुण्यमेतेषां द्रव्यदः पुमान्।
श्रवणाद्दर्शनाद्वाऽपि षडंशं फलमाप्नुयात्॥५०॥
आपद्गतो यदाऽप्यम्भो न लभेत्कुत्रचिन्नरः।
व्याधितो वाऽथवा कुर्याद्विष्णोर्नाम्नाऽपि मार्जनम्॥५१॥
उद्यापनविधिं कर्तुमशक्तो यो व्रतस्थितः।
ब्राह्मणान्भोजयेत्पश्चाद्व्रतसम्पूर्तिहेतवे॥५२॥
अशक्तो दीपदानाय परदीपं प्रबोधयेत्।
तस्य वा रक्षणं कुर्याद्वातादिभ्यः प्रयत्नतः॥५३॥
श्रीविष्णोः पूजनाभावे तुलसीधात्रिपूजनम्।
सर्वाभावे व्रती कुर्याद्ब्राह्मणानां गवामपि।
तस्याप्यभावे मनसि विष्णोर्नामानुकीर्तनम्॥५४॥
नारद उवाच
ब्रह्मन्ब्रूहि विशेषेण धर्मान्कार्तिकसम्भवान्॥५५॥
आदितः श्लोकाः — ५५
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
कार्तिकव्रतप्रशंसावर्णनं
नाम प्रथमोऽध्यायः॥१॥
❀