श्री-कृष्णजन्माष्टमी-पूजा

(मूलम्—श्री-व्रतराजः)
व्रतपूर्वदिने दन्तधावनपूर्वकं कृतैकभक्तो व्रतदिने कृतनित्यक्रियो देवताः प्रार्थयेत्—

सूर्यः सोमो यमः कालसन्ध्या भूतान्यहःक्षपा।
पवनो दिक्पतिर्भूमिराकाशं खेचरा नराः।
ब्रह्मशासनमास्थाय कल्पन्तामिह सन्निधिम्॥

इत्युक्त्वा सफलं पुष्पाक्षतजलपूर्णं ताम्रपात्रमादाय मासपक्षाद्युल्लिख्य अमुकफलकामं पापक्षयकामो वा
कृष्णप्रीतये कृष्णजन्माष्टमीव्रतं करिष्ये इति सङ्कल्प्य।

वासुदेवं समुद्दिश्य सर्वपापप्रशान्तये।
उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम्॥
अद्य कृष्णाष्टमी देवी नभश्चन्द्रं सरोहिणीम्।
अर्चयित्वोपवासेन भोक्ष्येऽहमपरेऽहनि॥
एनसो मोक्षकामोऽस्मि यद्गोविन्दवियोनिजम्।
तन्मे मुञ्चतु मां त्राहि पतितं शोकसागरे॥
आजन्ममरणं यावद् यन्मया दुष्कृतं कृतम्।
तत्प्रणाशय गोविन्द प्रसीद पुरुषोत्तम॥

इत्युक्त्वा पात्रस्थं जलं निक्षिपेत्।
ततः कदली-स्तम्भ-वासोभि-राम्र-पल्लव-युत-सजल-पूर्ण-कलशेर्दीपैः पुष्प-मालाभिर्युतमगुरु-धूपित-मग्नि-खड्ग-कृष्णच्छाग-रक्षामणि-द्वार-न्यस्त-मुसलादि-युतं मङ्गलोपेतं षष्ठया देव्याधिष्ठितं देवक्याः
सूतिकागृहं विधाय तस्य समन्ताद्भित्तिषु कुसुमाञ्जलीन् देवगन्धर्वादीन् खड्ग-चर्मधर-वसुदेव-देवकी-नन्द-यशोदा-गर्ग-गोपी-गोपान्-कंस-नियुक्तान्
गो-धेनु-कुञ्जरान्-यमुनां तन्मध्ये कालियमन्यच्च तत्कालीनं गोकुलचरितं
यथासम्भवं लिखित्वा सूतिकागृहमध्ये प्रछदपटावृतं मञ्चकं स्थापयित्वा
मध्याह्ने नद्यादौ तिलैः स्नात्वा अर्धरात्रे श्रीकृष्णं सपरिवारं सुपूजयेत्॥

पूर्वाङ्ग-विघ्नेश्वर-पूजा

(आचम्य)

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि॥

ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]

अगजानानपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥

अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।

अर्चना

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः॥
गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम्।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम्॥

अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते॥

प्रार्थनाः समर्पयामि।

प्रधान-पूजा — श्रीकृष्ण-पूजा

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।

सङ्कल्पः

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां
प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे दक्षिणायने वर्ष-ऋतौ (कर्कटक/सिंह)-श्रावण-मासे
कृष्णपक्षे अष्टम्यां शुभतिथौ (इन्दु/भौम/बुध/गुरु/भृगु /स्थिर/भानु)-वासरयुक्तायाम्
( )-नक्षत्रयुक्तायां ( )-योग ( )-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम्
अस्याम् नवम्यां शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम्
धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थम्
मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं
श्रावण-कृष्ण-जन्माष्टमी-पुण्यकाले देवकी-सहित-श्रीकृष्ण-प्रीत्यर्थं देवकी-सहित-श्रीकृष्ण-प्रसाद-सिध्यर्थं कल्पोक्त-प्रकारेण देवकी-सहित-श्रीकृष्ण-पूजां करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि।
(गणपति-प्रसादं शिरसा गृहीत्वा)

आसन-पूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु॥

घण्टा-पूजा

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताऽऽह्वानकारणम्॥

कलश-पूजा

कलशाय नमः दिव्यगन्धान् धारयामि।

गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु॥

श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः।
अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः॥
सर्वे समुद्राः सरितः तीर्थानि च ह्रदा नदाः।
आयान्तु देवपूजार्थं दुरितक्षयकारकाः॥

(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)

आत्म-पूजा

आत्मने नमः, दिव्यगन्धान् धारयामि।

१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः

समस्तोपचारान् समर्पयामि।

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत्॥

पीठ-पूजा

आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः

गुरु-ध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥

श्रीकृष्णजन्माष्टमी-षोडशोपचार-पूजा

गायद्भिः किन्नराद्यैः सततपरिवृता वेणुवीणानिनादैः
भृङ्गारादर्श-कुन्तप्रवर-कृतकरैः किङ्करैः सेव्यमाना।
पर्यङ्के स्वास्तृते या मुदिततरमुखी पुत्रिणी सम्यगास्ते
सा देवी देवमाता जयति सुवदना देवकी दिव्यरूपा॥

इति देवकीं ध्यात्वा।

ध्यायामि बालकं सुप्तं मात्रङ्के स्तनपायिनम्।
श्रीवत्स-वक्षसं शान्तं नीलोत्पल-दलच्छविम्॥

एवं देवक्या सहितं श्रीकृष्णं ध्यात्वा।
ॐ नमो देव्यै श्रियै नमः इति श्रियं ध्यात्वा, आवाह्य।
ॐ नमो वसुदेवाय नमः इति देवकीसहितं वसुदेवं ध्यात्वा, आवाह्य।
ॐ नमो नन्दाय नमः इति यशोदासहितं नन्दं ध्यात्वा, आवाह्य।
ॐ नमो बलदेवाय नमः इति श्रीकृष्णसहितं बलदेवं ध्यात्वा, आवाह्य।
ॐ नमश्चण्डिकायै नमः इति चण्डिकां ध्यात्वा आवाह्य।
ततः श्रीकृष्णपूजां कुर्यात्। ध्यानम्—

कृष्णं चतुर्भुजं देवं शङ्खचक्रगदाधरम्।
पीताम्बरयुगोपतं लक्ष्मीयुक्तं विभूषितम्॥
लसत्कौस्तुभ-शोभाढ्यं मेघश्यामं सुलोचनम्।
ध्यायामि पुण्डरीकाक्षं जगदानन्दकारकम्॥

श्रीकृष्णं ध्यायामि।

स॒हस्र॑शीर्‌षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात्।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा। अत्य॑तिष्ठद्दशाङ्गु॒लम्॥
आगच्छ देवदेवेश जगद्योने रमापते।
बिम्बे चास्मिन्नधिष्ठाने सन्निधेहि कृपां कुरु॥

श्रीकृष्णमावाहयामि।

पुरु॑ष ए॒वेदꣳ सर्वम्᳚। यद्भू॒तं यच्च॒ भव्यम्᳚।
उ॒तामृ॑त॒त्वस्येशा॑नः। यदन्ने॑नाति॒रोह॑ति॥
देवदेव जगन्नाथ गरुडासनसंस्थित।
गृहाणासनकं दिव्यं जगद्धातर्नमोऽस्तु ते॥

सपरिवाराय कृष्णाय नमः, आसनं समर्पयामि।

ए॒तावा॑नस्य महि॒मा। अतो॒ ज्यायाꣴ॑श्च॒ पूरु॑षः।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑। त्रि॒पाद॑स्या॒मृतं॑ दि॒वि॥
नानातीर्थाहृतं शुद्धं निर्मलं पुष्पमिश्रितम्।
पाद्यं गृहाण दैत्यारे विश्वरूप नमोऽस्तु ते॥

सपरिवाराय कृष्णाय नमः, पाद्यं समर्पयामि।

त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः। पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑।
ततो॒ विश्व॒ङ्व्य॑क्रामत्। सा॒श॒ना॒न॒श॒ने अ॒भि॥
गन्धपुष्पाक्षतोपेतं फलेन च समन्वितम्।
अर्घ्यं गृहाण देवेश मया दत्तं हि भक्तितः॥

सपरिवाराय कृष्णाय नमः, अर्घ्यं समर्पयामि।

तस्मा᳚द्वि॒राड॑जायत। वि॒राजो॒ अधि॒ पूरु॑षः।
स जा॒तो अत्य॑रिच्यत। प॒श्चाद्भूमि॒मथो॑ पु॒रः॥
गङ्गादिसर्वतीर्थेभ्यो मयाऽऽनीतं सुशीतलम्।
गृहाणाचमनं देव विश्वकाय नमोऽस्तु ते॥

सपरिवाराय कृष्णाय नमः, आचमनीयं समर्पयामि।

यत्पुरु॑षेण ह॒विषा᳚। दे॒वा य॒ज्ञमत॑न्वत।
व॒स॒न्तो अ॑स्याऽऽसी॒दाज्यम्᳚। ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः॥
दधि क्षौद्रं घृतं शुद्धं कपिलायाः सुगन्धि यत्।
सुस्वादु मधुरं शौरे मधुपर्कं गृहाण भोः॥

सपरिवाराय कृष्णाय नमः, मधुपर्कं समर्पयामि।
सपरिवाराय कृष्णाय नमः, आचमनीयं समर्पयामि।

पञ्चामृतेन स्नपनं करिष्यामि सुरोत्तम।
क्षीरोदधिनिवासाय लक्ष्मीकान्ताय ते नमः॥

सपरिवाराय कृष्णाय नमः, पञ्चामृतस्नानं समर्पयामि।

स॒प्तास्या॑ऽऽसन् परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः। अब॑ध्न॒न् पु॑रुषं प॒शुम्॥
मन्दाकिनी गौतमी च यमुना च सरस्वती।
ताभ्यः स्नानार्थमानीतं गृहाण शिशिरं जलम्॥

सपरिवाराय कृष्णाय नमः, स्नानं समर्पयामि।
स्नानानन्तरमाचमनीयं समर्पयामि।

तं य॒ज्ञं ब॒र्{}हिषि॒ प्रौक्षन्॑। पुरु॑षं जा॒तम॑ग्र॒तः।
तेन॑ दे॒वा अय॑जन्त। सा॒ध्या ऋष॑यश्च॒ ये॥
शुद्ध-जाम्बूनद-प्रख्ये तटिद्भासुर-रोचिषी।
मयोपपादिते तुभ्यं वाससी च गृहाण भोः॥

सपरिवाराय कृष्णाय नमः, वस्रं समर्पयामि।

तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। सम्भृ॑तं पृषदा॒ज्यम्।
प॒शूꣴस्ताꣴश्च॑क्रे वाय॒व्यान्॑। आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये॥
दामोदर नमस्तेऽस्तु त्राहि मां भवसागरात्।
ब्रह्मसूत्रं मया दत्तं गृहाण पुरुषोत्तम॥

सपरिवाराय कृष्णाय नमः, यज्ञोपवीतं समर्पयामि।

किरीटकुण्डलादीनि काञ्चीवलययुग्मकम्।
कौस्तुभं वनमालां च भूषणानि भजस्व भोः॥

सपरिवाराय कृष्णाय नमः, आभरणानि समर्पयामि।

तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। ऋचः॒ सामा॑नि जज्ञिरे।
छन्दासि जज्ञिरे॒ तस्मा᳚त्। यजु॒स्तस्मा॑दजायत॥
मलयाचलसम्भूतं गन्धसारं मनोहरम्।
हृदयानन्दनं चारु प्रीत्यर्थे प्रतिगृह्यताम्॥

सपरिवाराय कृष्णाय नमः, चन्दनं समर्पयामि।

तस्मा॒दश्वा॑ अजायन्त। ये के चो॑भ॒याद॑तः।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त्। तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑॥
मालतीचम्पकादीनि यूथिकावकुलानि च।
तुलसीपत्रमिश्राणि गृहाण सुरसत्तम॥

सपरिवाराय कृष्णाय नमः, पुष्पाणि समर्पयामि।

अङ्ग-पूजा

१.गोविन्दाय नमःपादौ पूजयामि
२.माधवाय नमःजङ्घे पूजयामि
३.मधुसूदनाय नमःकटिं पूजयामि
४.पद्मनाभाय नमःनाभिं पूजयामि
५.हृषीकेशाय नमःहृदयं पूजयामि
६.सङ्कर्षणाय नमःस्तनौ पूजयामि
७.वामनाय नमःबाहू पूजयामि
८.दैत्यसूदनाय नमःहस्तौ पूजयामि
९.हरिकेशाय नमःकण्ठं पूजयामि
१०.चारुमुखाय नमःमुखं पूजयामि
११.त्रिविक्रमाय नमःनासिकां पूजयामि
१२.पुण्डरीकाक्षाय नमःनेत्रे पूजयामि
१३.नृसिंहाय नमःश्रोत्रे पूजयामि
१४.उपेन्द्राय नमःललाटं पूजयामि
१५.हरये नमःशिरः पूजयामि
१६.श्रीकृष्णाय नमःसर्वाणि अङ्गानि पूजयामि

चतुर्विंशति नामपूजा

ॐ केशवाय नमः
ॐ नारायणाय नमः
ॐ माधवाय नमः
ॐ गोविन्दाय नमः
ॐ विष्णवे नमः
ॐ मधुसूदनाय नमः
ॐ त्रिविक्रमाय नमः
ॐ वामनाय नमः
ॐ श्रीधराय नमः
ॐ हृषीकेशाय नमः
ॐ पद्मनाभाय नमः
ॐ दामोदराय नमः
ॐ सङ्कर्षणाय नमः
ॐ वासुदेवाय नमः
ॐ प्रद्युम्नाय नमः
ॐ अनिरुद्धाय नमः
ॐ पुरुषोत्तमाय नमः
ॐ अधोक्षजाय नमः
ॐ नृसिंहाय नमः
ॐ अच्युताय नमः
ॐ जनार्दनाय नमः
ॐ उपेन्द्राय नमः
ॐ हरये नमः
ॐ श्रीकृष्णाय नमः

उत्तराङ्ग-पूजा

यत्पुरु॑षं॒ व्य॑दधुः। क॒ति॒धा व्य॑कल्पयन्।
मुखं॒ किम॑स्य॒ कौ बा॒हू। कावू॒रू पादा॑वुच्येते॥
वनस्पतिरसोद्भूतं कालागरुसमन्वितम्।
धूपं गृहाण गोविन्द गुणसागर गोपते॥

सपरिवाराय कृष्णाय नमः, धूपमाघ्रापयामि।

ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत्। बा॒हू रा॑ज॒न्यः॑ कृ॒तः।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑। प॒द्भ्याꣳ शू॒द्रो अ॑जायत॥
यज्ञेश्वराय देवाय तथा यज्ञोद्भवाय च।
यज्ञानां पतये नाथ गोविन्दाय नमो नमः॥
साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापह॥

सपरिवाराय कृष्णाय नमः, दीपं दर्शयामि।

च॒न्द्रमा॒ मन॑सो जा॒तः। चक्षोः॒ सूर्यो॑ अजायत।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑। प्रा॒णाद्वा॒युर॑जायत॥
विश्वेश्वराय विश्वाय तथा विश्वोद्भवाय च।
विश्वस्य पतये तुभ्यं गोविन्दाय नमो नमः॥
शाल्योदनं पायसं च सिताघृतविमिश्रितम्।
नानापक्वान्नसंयुक्तं नैवेद्यं प्रतिगृह्यताम्॥

सपरिवाराय कृष्णाय नमः, सूपसहितं शाल्योदनं शाकोपदंसं निवेदयामि।
मध्ये मध्ये अमृतपानीयं समर्पयामि । उत्तरापोशनं समर्पयामि।
हस्तप्रक्षालनं समर्पयामि । पादप्रक्षालनं समर्पयामि । गण्डूषं समर्पयामि।
हस्तप्रक्षालनं समर्पयामि । आचमनीयं समर्पयामि।
सपरिवाराय कृष्णाय नमः, शष्कुली-लवनचिपिट-गुडचिपिट-गुड-शुण्ठी-नवनीतादीनि,
जम्बूफल-तिन्त्रिणीफल-प्रभृतीनि नानाफलानि च निवेदयामि।

नाभ्या॑ आसीद॒न्तरि॑क्षम्। शी॒र्ष्णो द्यौः सम॑वर्तत।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त्। तथा॑ लो॒काꣳ अ॑कल्पयन्॥
पूगीफलसमायुक्तं नागवल्ली-दलैर्युतम्।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥

सपरिवाराय कृष्णाय नमः, कर्पूरताम्बूलं निवेदयामि।

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚। आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑। नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚॥
नीराजयेत्ततो भक्त्या मङ्गलं समुदीरयन्।
जय-मङ्गल-निर्घोषैर्देवदेवं समर्चयेत्॥

सपरिवाराय कृष्णाय नमः, कर्पूरनीराजनं दर्शयामि।

धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑। श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॒ अय॑नाय विद्यते॥

यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति।
य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति।ओं᳚ तद्ब्र॒ह्म। ओं᳚ तद्वा॒युः। ओं᳚ तदा॒त्मा।
ओं᳚ तथ्स॒त्यम्।
ओं᳚ तथ्सर्वम्᳚। ओं᳚ तत्पुरो॒र्नमः॥अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु।
त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ
रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः।
त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्॥सपरिवाराय कृष्णाय नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि।

दत्त्वा पुष्पाञ्जलिं चैव प्रदक्षिणपुरस्सरम्।
प्रणमेद् दण्डवद्भूमौ भक्तिप्रह्वः पुनः पुनः॥
स्तुत्वा नानाविधैः स्तोत्रैः प्रार्थयेत जगत्पतिम्।
नमस्तुभ्यं जगन्नाथ देवकीतनय प्रभो॥
वसुदेवात्मजानन्त यशोदानन्दवर्धन।
गोविन्द गोकुलाधार गोपीकान्त नमोऽस्तु ते॥

सपरिवाराय कृष्णाय नमः, प्रदक्षिणनमस्कारान् समर्पयामि।
ततो जातकर्मनालच्छेदषष्ठीपूजानामकरणकर्माणि सङ्क्षेपेण कार्याणि।

अर्घ्यप्रदानम्

ततस्तु दापयेदर्घ्यम् इन्दोरुदयतः शुचिः।
कृष्णाय प्रथमं दद्याद् देवकीसहिताय च॥
नालिकेरेण शुद्धेन दद्यादर्घ्यं विचक्षणः।
कृष्णाय परया भक्त्या शङ्खे कृत्वा विधानतः॥
जातः कंसवधार्थाय भूभारोत्तारणाय च।
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च॥
कौरवाणां विनाशाय दैत्यानां निधनाय च।
गृहाणार्घ्यं मया दत्तं देवकीजनित प्रभो॥

सपरिवाराय कृष्णाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
पूजिताभ्यः सर्वाभ्यो देवताभ्यः तत्तन्नाममन्त्रेण अर्घ्यं दद्यात्

१.ॐ देवक्यै नमःइदमर्घ्यम्
२.ॐ वसुदेवाय नमःइदमर्घ्यम्
३.ॐ रोहिण्यै नमःइदमर्घ्यम्
४.ॐ सबलायै नमःइदमर्घ्यम्
५.ॐ सात्यक्यै नमःइदमर्घ्यम्
६.ॐ उद्धवाय नमःइदमर्घ्यम्
७.ॐ अक्रूराय नमःइदमर्घ्यम्
८.ॐ उग्रसेनादि-यादवेभ्यो नमःइदमर्घ्यम्
९.ॐ नन्दाय नमःइदमर्घ्यम्
१०.ॐ यशोदायै नमःइदमर्घ्यम्
११.ॐ तत्कालप्रसूताभ्यः गोपगोपिकाभ्यो नमःइदमर्घ्यम्
१३.ॐ कालिन्द्यै नमःइदमर्घ्यम्
१४.ॐ काल्यै नमःइदमर्घ्यम्

इति पृथक्पृथगर्घ्यं दत्त्वा॥
ततश्चन्द्रोदये रोहिणीयुतं चन्द्रं स्थण्डिले प्रतिमायां वा नाममन्त्रेण सम्पूज्य।

ततस्तु रोहिणीयुक्तं चन्द्रं सम्पूज्य भक्तितः।
स्तुत्वा तु स्तोत्रमन्त्रेण चन्द्रायार्घ्यं प्रदापयेत्॥

आप्यायस्वेति मन्त्रेण देवसमीपे चन्दनबिम्बे रोहिणीसहितं
चन्द्रमावाह्य षोडशोपचारैः सम्पूजयेत्॥
चन्द्रप्रार्थना–

ज्योत्स्नायाः पतये तुभ्यं ज्योतिषां पतये नमः।
नमस्ते रोहिणीकान्त सुधावास नमोऽस्तु ते॥
नमो मण्डलदीपाय शिरोरत्नाय धूर्जटे।
कलाभिर्वर्धमानाय नमश्चन्द्राय चारवे॥

इति प्रणमेत्।

ज्योत्स्नापते नमस्तुभ्यं नमस्ते ज्योतिषां पते।
नमस्ते रोहिणीकान्त नमस्ते युवमोहन॥

इति स्तुत्वा।

शङ्खे कृत्वा ततस्तोयं सपुष्पफलचन्दनम्।
जानुभ्यामवनीं गत्वा चन्द्रायार्घ्यं निवेदयेत्॥

चन्द्रार्घ्यमन्त्रः–

क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव।
रोहिणीश गृहाणार्घ्यं रमाभ्रातर्मनःपते॥

रोहिणीसहिताय चन्द्राय नमः इदमर्घ्यम् (त्रिः)
इत्यर्घ्यं दत्त्वा देवकीसहिताय कृष्णाय छत्रचामराद्युपचारं कृत्वा
पूजां समाप्य कृष्णावतारघट्टं पठेत्॥

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः। तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते। यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः॥

सपरिवाराय कृष्णाय नमः, छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

अनघं वामनं शौरिं वैकुण्ठं पुरुषोत्तमम्।
वासुदेवं हृषीकेशं माधवं मधुसूदनम्॥१॥
वराहं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम्।
दामोदरं पद्मनाभं केशवं गरुडध्वजम्॥२॥
गोविन्दमच्युतं कृष्णमनन्तमपराजितम्।
अधोक्षजं जगद्बीजं सर्गस्थित्यन्तकारणम्॥३॥
अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम्।
नारायणं चतुर्बाहुं शङ्खचक्रगदाधरम्॥४॥
पीताम्बरधरं नित्यं वनमालाविभूषितम्।
श्रीवत्साङ्कं जगत्सेतुं श्रीकृष्णं श्रीधरं हरिम्॥५॥
शरणं त्वां प्रपद्येऽहं सर्वकामार्थसिद्धये।
प्रणममामि सदा देवं वासुदेवं जगत्पतिम्॥६॥

इति मन्त्रैः प्रणम्य॥

त्राहि मां सर्वलोकेश हरे संसारसागरात्।
त्राहि मां सर्वपापघ्न दुःखशोकार्णवात्प्रभो।
सर्वलोकेश्वर त्राहि पतितं मां भवार्णवे॥१॥
देवकीनन्दन श्रीश हरे संसारसागरात्।
त्राहि मां सर्वदुःखघ्न रोगशोकार्णवाद्धरे॥२॥
दुर्वृत्तात्त्रायसे विष्णो ये स्मरन्ति सकृत्सकृत्।
सोऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसागरात्॥३॥
पुष्कराक्ष निमग्नोऽहं मायाव्यज्ञानसागरे।
त्राहि मां देवदेवेश त्वत्तो नान्योऽस्ति रक्षिता॥४॥
यद्बाल्ये यच्च कौमारे यौवने यच्च वार्धके।
तत्पुण्यं वृद्धिमायातु पापं हर हलायुध॥५॥

इति मन्त्रैः प्रार्थयेत्॥
ततः स्तोत्रं पठन् पुराणश्रवणादिना जागरं कुर्यात्॥
द्वितीयेऽह्नि प्रातःकाले स्नानादिनित्यकर्म कृत्वा पूर्ववद् देवं पूजयित्वा ब्राह्मणान् भोजयेत्॥
तेभ्यः सुवर्णधेनुवस्त्रादि दत्त्वा कृष्णो मे प्रीयतामिति वदेत्॥

यं देवं देवकी देवी वसुदेवादजीजनत्।
भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः॥
नमस्ते वासुदेवाय गोब्राह्मणहिताय च।
शान्तिरस्तु शिवं चास्तु इत्युक्त्वा मां विसर्जयेत्॥

इति प्रतिमामुद्वास्य तां ब्राह्मणाय दत्त्वा पारणं कृत्वा व्रतं समापयेत्॥
सर्वस्मै सर्वेश्वराय सर्वेषां पतये सर्वसम्भवाय गोविन्दाय नमो नम इति पारणे॥
भूताय भूतपतये नम इति समापने मन्त्रः॥
इति पूजाविधिः॥

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे॥

श्री-कृष्णजन्माष्टमी-पुण्यकाले अस्मिन् मया क्रियमाण-सपरिवार-कृष्णपूजायां यद्देयमुपायनदानं तत्प्रतिनिधित्वेन हिरण्यं सपरिवार-श्री-कृष्ण-प्रीतिं कामयमानः मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम।
अनया पूजया सपरिवार-श्रीकृष्णः प्रीयताम्।

कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥

ॐ तत्सद्ब्रह्मार्पणमस्तु।

❀ ❀ ❀

जन्माष्टमी-व्रत-कथा

(मूलम्—श्री-व्रतराजः)

युधिष्ठिर उवाच

जन्माष्टमीव्रतं ब्रूहि विस्तरेण ममाच्युत।
कस्मिन्काले समुत्पन्नं किं पुण्यं को विधिः स्मृतः॥१॥

श्रीकृष्ण उवाच

मल्लयुद्धे परावृत्ते शमिते कुकुरान्धके।
स्वजनैर्बन्धुभिः स्त्रीभिः समः स्निग्धैः समावृते॥२॥
हते कंसासुरे दुष्टे मथुरायां युधिष्ठिर।
देवकी मां परिष्वज्य कृत्वोत्सङ्गे रुरोद ह॥३॥
वसुदेवोऽपि तत्रैव वात्सल्यात् प्ररुरोद ह।
समालिङ्ग्याश्रुवदनः पुत्र पुत्रेत्युवाच ह॥४॥
सगद्गदस्वरो दीनो बाष्पपर्याकुलेक्षणः।
बलभद्रं च मां चैव परिष्वज्य मुदा पुनः॥५॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम्।
उभाभ्यामद्य पुत्राभ्यां समुद्भूतः समागमः॥६॥
एवं हर्षेण दाम्पत्यं हृष्टं पुष्टं तदा ह्यभूत्।
प्रणिपत्य जनाः सर्वे बभूवुस्ते प्रहर्षिताः॥७॥
एवं महोत्सवं दृष्ट्वा मामूचुर्मधुसूदनम्।

जना ऊचुः

प्रसादः क्रियतामस्य लोकस्याऽऽर्तस्य दुःखहन्॥८॥
यस्मिन् दिने च प्रासूत देवकी त्वां जनार्दन।
तद्दिनं देहि वैकुण्ठ कुर्मस्तत्र महोत्सवम्॥९॥
एवं स्तुतो जनौघेन वासुदेवो मयेक्षितः।
विलोक्य बलभद्रं च मां च हृष्टतनूरुहः॥१०॥
उवाच स ममादेशाल्लोकाञ्जन्माष्टमीव्रतम्।
मथुरायां ततः पश्चात् पार्थ सम्यक् प्रकाशितम्॥११॥
कुर्वन्तु ब्राह्मणाः सर्वे व्रतं जन्माष्टमीदिने।
क्षत्रिया वैश्यजातीयाः शूद्रा येऽन्येऽपि धर्मिणः॥१२॥

युधिष्ठिर उवाच

कीदृशं तद्व्रतं देवदेव सर्वैरनुष्ठितम्।
जन्माष्टमीति संज्ञं च पवित्रं पापनाशनम्॥१३॥
येन त्वं तुष्टिमायासि कार्त्स्न्येन प्रभवाव्यय।
एतन्मे तत्त्वतो ब्रूहि सविधानं सविस्तरम्॥१४॥

श्रीकृष्ण उवाच

मासि भाद्रपदेऽष्टम्यां निशीथे कृष्णपक्षके।
शशाङ्के वृषराशिस्थे ऋक्षे रोहिणीसंज्ञके॥१५॥
योगेऽस्मिन्वसुदेवाद्धि देवकी मामजीजनत्।
भगवत्याश्च तत्रैव क्रियते सुमहोत्सवः॥१६॥
योगेऽस्मिन्कथितेऽष्टम्यां सिंहराशिगते रवौ।
सप्तम्यां लघुभुक् कुर्याद्दन्तधावनपूर्वकम्॥१७॥
उपवासस्य नियमं रात्रौ स्वप्याज्जितेन्द्रियः।
केवलेनोपवासेन तस्मिञ्जन्मदिने मम॥१८॥
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः।
उपावृत्तस्य पापेभ्यो यस्तु वासोगुणैः सह॥१९॥
उपवासः स विज्ञेयः सर्वभोगविवर्जितः।
ततोऽष्टम्यां तिलैः स्नात्वा नद्यादौ विमले जले॥२०॥
सुदेशे शोभनं कुर्याद् देवक्याः सूतिकागृहम्।
सितपीतैस्तथा रक्तैः कर्बुरैरितरैरपि॥२१॥
वासोभिः शोभितं कृत्वा समन्तात्कलशैर्नवैः।
पुष्पैः फलैरनेकैश्च दीपालिभिरितस्ततः॥२२॥
पुष्पमालाविचित्रं च चन्दनागुरुधूपितम्।
अतिरम्यमनौपम्यं रक्षामणिविभूषितम्॥२३॥
हरिवंशस्य चरितं गोकुलं च विलेखयेत्।
ततो वादित्रनिनदैर्वीणावेणुरवाकुलम्॥२४॥
नृत्यगीतक्रमोपेतं मङ्गलैश्च समन्ततः।
वेष्टकारीं लोहखड्गं कृष्णछागं च यत्नतः॥२५॥
द्वारे विन्यस्य मुसलं रक्षितं रक्षपालकैः।
षष्ठ्या देव्याधिष्ठितं च तद्गृहं चोत्सवैस्तथा॥२६॥
एवं विभवसारेण कृत्वा तत् सूतिकागृहम्।
तन्मध्ये प्रतिमा स्थाप्या सा चाप्यष्टविधा स्मृता॥२७॥
काञ्चनी राजती ताम्री पैत्तली मृन्मयी तथा।
वार्क्षी मणिमयी चैव वर्णकैर्लिखिता तथा॥२८॥
सर्वलक्षणसम्पूर्णा पर्यङ्के चाष्टशल्यके।
प्रतप्तकाञ्चनाभासां महार्हां सुतपस्विनीम्॥२९॥
प्रसूतां च प्रसुप्तां च स्थापयन्मञ्चकोपरि।
मां तत्र बालकं सुप्तं पर्यङ्के स्तनपायिनम्॥३०॥
श्रीवत्सवक्षसं शान्तं नीलोत्पलदलच्छविम्।
यशोदा तत्र चैकस्मिन् प्रदेशे सूतिकागृहे॥३१॥
तद्वच्च कल्पयेत् पार्थ प्रसूतां वरकन्यकाम्।
तथैव मम पार्श्वस्थाः कृताञ्जलिपुटा नृप॥३२॥
देवा ग्रहास्तथा नागा यक्षविद्याधराभराः।
प्रणताः पुष्पमालाग्रचारुहस्ताः सुरासुराः॥३३॥
सञ्चरन्त इवाऽऽकाशे प्रहारैरुदितोदितैः।
वसुदेवोऽपि तत्रैव खड्गचर्मधरः स्थितः॥३४॥
कश्यपो वसुदेवोऽयमदितिश्चैव देवकी।
शेषो वै बलदेवोऽयं यशोदा दितिरन्वभूत्॥३५॥
नन्दः प्रजापतिर्दक्षो गर्गश्चापि चतुर्मुखः।
गोप्यश्चाप्सरसश्चैव गोपाश्चापि दिवौकसः॥३६॥
एषोऽवतारो राजेन्द्र कंसोऽयं कालनेमिजः।
तत्र कंसनियुक्ताश्च मोहिता योगनिद्रया॥३७॥
गोधेनुकुञ्जराश्चैव दानवाः शस्त्रपाणयः।
नृत्यतश्चाप्सरोभिस्ते गन्धर्वा गीततत्पराः॥३८॥
लेखनीयश्च तत्रैव कालियो यमुनाह्रदे।
इत्येवमादि यत्किञ्चिद् विद्यते चरितं मम॥३९॥
लेखयित्वा प्रयत्नेन पूजयेद् भक्तितत्परः।
रम्यमेवं बीजपूरैः पुष्पमालादिशोभितम्॥४०॥
कालदेशोद्भवैः पुष्पैः फलैश्चापि युधिष्ठिर।
पाद्यार्घ्यैः पूजयेद् भक्त्या गन्धपुष्पाक्षतैः सह।
मन्त्रेणानेन कौन्तेय देवकीं पूजयेन्नरः॥४१॥
गायद्भिः किन्नराद्यैः सततपरिवृता वेणुवीणानिनादैः
भृङ्गारादर्शकुम्भप्रवरवृतकरैः किङ्करैः सेव्यमाना।
पर्यङ्के स्वास्तृते यामुदिततरमुखी पुत्रिणी सम्यगास्ते
सा देवी देवमाता जयतु च ससुता देवकी कान्तरूपा॥४२॥
पादावभ्यञ्जयन्ती श्रीदेवक्याश्चरणान्तिके।
निषण्णा पङ्कजे पूज्या दिव्यगन्धानुलेपनैः॥४३॥
पङ्कजैः पूजयेद् देवीं नमो देव्यै श्रिया इति।
देववत्से नमस्तेऽस्तु कृष्णोत्पादनतत्परा॥४४॥
पापक्षयकरा देवी तुष्टिं यातु मयाऽर्चिता।
प्रणवादिनमोऽन्तं च पृथङ्नामानुकीर्तनम्॥४५॥
कुर्यात्पूजा विधिज्ञश्च सर्वपापापनुत्तये।
देवक्यै वसुदेवाय वासुदेवाय चैव हि॥४६॥
बलदेवाय नन्दाय यशोदायै पृथक् पृथक्।
क्षीरादिस्नपनं कृत्वा चन्दनेनानुलेपयेत्॥४७॥
विध्यन्तरमपीच्छन्ति केचिदत्रैव सूरयः।
चन्द्रोदये शशाङ्काय अर्घ्यं दत्त्वा हरिं स्मरन्॥४८॥
अनघं वामनं शौरिं वैकुण्ठं पुरुषोत्तमम्।
वासुदेवं हृषीकेशं माधवं मधुसूदनम्॥४९॥
वराहं पुण्डरीकाक्षं नृसिंहं ब्रह्मणः प्रियम्।
समस्तस्यापि जगतः सृष्टिस्थित्यन्तकारकम्॥५०॥
अनादिनिधनं विष्णुं त्रैलोक्येशं त्रिविक्रमम्।
नारायणं चतुर्बाहुं शङ्खचक्रगदाधरम्॥५१॥
पीताम्बरधरं नित्यं वनमालाविभूषितम्।
श्रीवत्साक्षं जगत्सेतुं श्रीपतिं श्रीधरं हरिम्॥५२॥
योगेश्वराय देवाय योगिनां पतये नमः।
योगोद्भवाय नित्याय गोविन्दाय नमो नमः॥५३॥
यज्ञेश्वराय देवाय तथा यज्ञोद्भवाय च।
यज्ञानां पतये नाथ गोविन्दाय नमो नमः॥५४॥
विश्वेश्वराय विश्वाय तथा विश्वोद्भवाय च।
विश्वस्य पतये तुभ्यं गोविन्दाय नमो नमः॥५५॥
जगन्नाथ नमस्तुभ्यं संसारभयनाशन।
जगदीशाय देवाय भूतानां पतये नमः॥५६॥
धर्मेश्वराय धर्माय सम्भवाय जगत्पते।
धर्मज्ञाय च देवाय गोविन्दाय नमो नमः॥५७॥
एताभ्यां चैव मन्त्राभ्यां नैवेद्यं शयनं तथा।
चन्द्रायार्घ्यं च मन्त्रेण अनेनैवाथ दापयेत्॥५८॥
क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भव।
गृहाणार्घ्यं शशाङ्केश रोहिण्या सहितो मम॥५९॥
ज्योत्स्नापते नमस्तुभ्यं ज्योतिषां पतये नमः।
नमस्ते रोहिणीकान्त अर्घ्यं नः प्रतिगृह्यताम्॥६०॥
स्थण्डिले स्थापयेद् देवं शशाङ्कं रोहिणीयुतम्।
देवक्या वसुदेवं च नन्दं चैव यशोदया॥६१॥
बलदेवं मया सार्धं भक्त्या परमया नृप।
सम्पूज्य विधिवद्देहि किं नाऽऽप्नोत्यतिदुर्लभम्॥६२॥
एकादशीनां विंशत्यः कोटयो याः प्रकीर्तिताः।
ताभिः कृष्णाष्टमी तुल्या ततोऽनन्तचतुर्दशी॥६३॥
अर्धरात्रे वसोर्धारां पातयेद् द्रव्यसर्पिषा।
ततो वर्धापयेन्नालं षष्ठीनामादिकं मम॥६४॥
कर्तव्यं तत्क्षणाद्रात्रौ प्रभाते नवमीदिने।
यथा मम तथा कार्यो भगवत्या महोत्सवः॥६५॥
ब्राह्मणान् भोजयेद् भक्त्या तेभ्यो दद्याच्च दक्षिणाम्।
हिरण्यं मेदिनीं गावो वासांसि कुसुमानि च॥६६॥
यद्यदिष्टतमं तत् तत् कृष्णो मे प्रीयतामिति।
यं देवं देवकी देवीं वसुदेवादजीजनत्॥६७॥
भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः।
नमस्ते वासुदेवाय गोब्राह्मणहिताय च॥६८॥
शान्तिरस्तु शिवं चास्तु इत्युक्त्वा मां विसर्जयेत्।
ततो बन्धुजनौघं च दीनानाथांश्च भोजयेत्॥६९॥
भोजयित्वा सुशान्तांस्तान् स्वयं भुञ्जीत वाग्यतः।
एवं यः कुरुते देव्या देवक्याः सुमहोत्सवम्॥७०॥
प्रतिवर्षं विधानेन मद्भक्तो धर्मनन्दन।
नरो वा यदि वा नारी यथोक्तं लभते फलम्॥७१॥
पुत्रसन्तानमारोग्यं सौभाग्यमतुलं लभेत्।
इह धर्मरतिर्भूत्वा मृतो वैकुण्ठमाप्नुयात्॥७२॥
तत्र देवविमानेन वर्षलक्षं युधिष्ठिर।
भोगान्नानाविधान् भुक्त्वा पुण्यशेषादिहागतः॥७३॥
सर्वकामसमृद्धे च सर्वाशुभविवर्जिते।
कुले नृपतिशीलानां जायते हृच्छयोपमः॥७४॥
यस्मिन् सदैव देशे तु लिखितं तु पटार्पितम्।
मम जन्मदिनं भक्त्या सर्वालङ्कारभूषितम्॥७५॥
पूज्यते पाण्डवश्रेष्ठ जनैरुत्सवसंयुतैः।
परचक्रभयं तत्र न कदाऽपि भवेत्पुनः॥७६॥
पर्जन्यः कामवर्षी स्यादीतिभ्यो न भयं भवेत्।
गृहे वा पूज्यते यत्र देवक्याश्चरितं मम॥७७॥
तत्र सर्वं समृद्धं स्यान्नोपसर्गादिकं भवेत्।
पशुभ्यो नकुलाद् व्यालात् पापरोगाच्च पातकात्॥७८॥
राजतश्चोरतो वाऽपि न कदाचिद् भयं भवेत्।
संसर्गेणापि यो भक्त्या व्रतं पश्येदनाकुलम्।
सोऽपि पापविनिर्मुक्तः प्रयाति हरिमन्दिरम्॥७९॥
जन्माष्टमीं जनमनोनयनाभिरामा
पापापहां सपदि नन्दितनन्दगोपाम्।
यो देवकी सुतयुतां च भजेद्धि भक्त्या
पुत्रानवाप्य समुपैति पदं स विष्णोः॥८०॥

॥इति भविष्योत्तरे जन्माष्टमीव्रतकथा॥

शिष्टाचारप्राप्ता जन्माष्टमीव्रतकथा

व्यास उवाच

निवृत्ते भारते युद्धे कृतशौचो युधिष्ठिरः।
उवाच वाक्यं धर्मात्मा कृष्णं देवकिनन्दनम्॥१॥

युधिष्ठिर उवाच

त्वत्प्रसादात् तु गोविन्द निहताः शत्रवो रणे।
कर्णश्च निहतः सैन्ये त्वत्प्रसादात् किरीटिना॥२॥
जेता को युधि भीष्मस्य यस्य मृत्युर्न विद्यते।
अजेयोऽपि जितः सोऽपि त्वत्प्रसादाज्जनार्दन॥३॥
प्राप्तं निष्कण्टकं राज्यं कृत्वा कर्म सुदुष्करम्।
आचारो दण्डनीतिश्च राजधर्माः क्रियान्विताः॥४॥
अधुना श्रोतुमिच्छामि शुभं जन्माष्टमीव्रतम्।
जन्माष्टमी व्रतं ब्रूहि विस्तरेण ममाच्युत॥५॥
कुतः काले समुत्पन्नं किं पुण्यं को विधिः स्मृतः।

श्रीकृष्ण उवाच

शृणु राजन् प्रवक्ष्यामि व्रतानामुत्तमं व्रतम्॥६॥
यतः प्रभृति विख्यातं फलेन विधिनान्वितम्।
राजवंशसमुत्पन्नैर्दैत्यानीकैः सुपीडिता॥७॥
धरा भारसमाक्रान्ता ब्रह्माणं शरणं ययौ।
ज्ञात्वा तदा प्रभुर्ब्रह्मा भूमेर्भारं समाहितः॥८॥
श्वेतदीपं समागत्य सर्वदेवसमन्वितः।
समाहितमतिर्ब्रह्मा मां तुष्टाव विशाम्पते॥९॥
स्तुत्या तयाऽहं सम्प्रीतस्तेषां दृग्गोचरोऽभवम्।
दृष्ट्वा मां प्रणिपत्याऽऽशु भक्तिभावसमन्विताः॥१०॥
ब्रह्माणमग्रतः कृत्वा तुष्टाः सर्वे दिवौकसः।
विजिज्ञपुर्महराज भूमिभारापनुत्तये॥११॥
उपधार्य तदा तेषां वचनं चान्वचिन्तयम्।
केनोपायन हन्तव्या दानवाः क्षत्रियोद्भवाः॥१२॥
स्वधर्मनिरताः सर्वे महाबलपराक्रमाः।
ततो निश्चित्य मनसा ब्रह्माणमहमब्रुवम्॥१३॥
वसुदेवो देवकी च प्रजाकामौ पुरा नृप।
भक्त्या मां भजमानौ तौ तप्तवन्तौ महत्तपः॥१४॥
तयोः प्रसन्नः सुप्रीतो याचतं वरमुत्तमम्।
अब्रुवं तावपि ततो वरयामासतुः किल॥१५॥
यदि देव प्रसन्नोऽसि त्वादृशौ नौ भवेत् सुतः।
तथेति च मया ताभ्यामुक्तं प्रीतेन चेतसा॥१६॥
तत्कामपूरणार्थाय सम्भविष्याम्यहं तयोः।
दिवौकसोऽपि स्वांशेन सम्भवन्तु सुरस्त्रियः॥१७॥
योगमाया च नन्दस्य यशोदायां भविष्यति।
देवक्या जठरे गर्भमनन्तं धाम मामकम्॥१८॥
सन्निकृष्य च सा तूर्णं रोहिण्या जठरं नयेत्।
इति सन्दिश्य तान् सर्वानहमन्तर्हितोऽभवम्॥१९॥
ततो देवैः समं ब्रह्मा तां दिशं प्रणिपत्य च।
आश्वास्य च महीं देवीं वरधाम्नि जगाम ह॥२०॥
ततोऽहं देवकीगर्भमाविशं स्वेन तेजसा।
हतेषु षट्सु बालेषु देवक्या औग्रसेनिना।
कारागृहस्थितायाश्च वसुदेवेन वै सह॥२१॥
गतेऽर्धरात्रसमये सुप्ते सर्वजने निशि।
भाद्रे मास्यसिते पक्षेऽष्टम्यां ब्रह्मर्क्षसंयुजि॥२२॥
सर्वग्रहशुभे काले प्रसन्नहृदयाशये।
आविरासं निजेनैव रुपेण ह्यवनीपते॥२३॥
वसुदेवोऽपि मां दृष्ट्वा हर्षशोकसमन्वितः।
भीतः कंसादतितरां तुष्टाव च कृताञ्जलिः॥२४॥
पुनः पुनः प्रणम्याथ प्रार्थयामास सादरम्।

वसुदेव उवाच

अलौकिकमिदं रूपं दुर्दर्शं योगिनामपि॥२५॥
यत् तेजसाऽरिष्टगृहमभवत् सम्प्रकाशितम्।
उद्धिजे भगवन् कंसाद् यो मे बालानघातयत्॥२६॥
उपसंहर तस्माच्च एतद् रूपमलौकिकम्।
शङ्खचक्रगदापद्मलसत्कौस्तुभमालिनम्॥२७॥
किरीटहारमुकुटकेयूरवलयाङ्कितम्।
तडिद्वसनसंवीतक्वणत्काञ्चनमेखलम्॥२८॥
स्फुरद्राजीवताम्राक्षं स्निग्धाञ्जनसमप्रभम्।
महामरकतस्वच्छं कोटिसूर्यसमप्रभम्॥२९॥

कृष्ण उवाच

एवं सम्प्रार्थितो राजन् वसुदेवेन वै तदा।
तेनैव निजरूपेण भूत्वाऽहं प्राकृतः शिशुः॥३०॥
नय मां गोकुलमिति वसुदेवमचोदयम्।
समादायाऽऽगमत् सोऽपि नन्दगोकुलमञ्जसा॥३१॥
द्वाराण्यपाकृतान्यासन्मत्प्रभावात् स्वयं प्रभो।
ददौ मार्गं च कालिन्दी जलकल्लोलमालिनी॥३२॥
ततो यशोदाशयने न्यस्य माऽऽनकदुन्दुभिः।
तत्पर्यङ्के स्थितां गृह्य दारिकामगमत् पुनः॥३३॥
द्वाराणि पिहितान्यासन् पूर्ववन्निगडं ततः।
विन्यस्य पादयोरास्ते शयने न्यस्य दारिकाम्॥३४॥
ततो रुरोद महता स्वरेणाऽऽपूर्य सा दिशः।
तस्या रुदितशब्देन उत्थिता रक्षका गृहात्॥३५॥
कंसायाऽऽगत्य चाचख्युः प्रसूता देवकीति च।
सोऽपि तल्पात् समुत्थाय भयेनातीव विह्वलः॥३६॥
जगाम सूतिकागेहं देवक्याः प्रस्खलन् पथि।
दारिकां शयनाद् गृह्य रुदत्याश्चैव स्वस्वसुः॥३७॥
अपोथयच्छिलापृष्ठे साऽपि तस्य कराच्च्युता।
उवाच कंसमाभाष्य देवी ह्याकाशगा सती॥३८॥
किं मया हतया मन्द जातः कुत्रापि ते रिपुः।
इत्युक्तः सोऽप्यभूत् कंसः परमोद्विग्नमानसः॥३९॥
आज्ञापयामास ततो बालानां कदनाय वै।
दानवा अपि बालानां कदनं चक्रुरुद्यताः॥४०॥
वनेषूपवने चैव पुरग्रामव्रजेष्वपि।
अहं च गोकुले स्थित्वा पूतनां बालघातिनीम्॥४१॥
स्तनं दातुं प्रवृत्तां च प्राणैः सममशोषयम्।
तृणावर्तबकारिष्टान् धेनुकं केशिनं तथा॥४२॥
अन्यानपि खलान् हत्वा स्वप्रभावमदर्शयम्।
ततश्च मथुरां गत्वा हत्वा कंसादिदानवान्॥४३॥
ज्ञातीनां परमं हर्षं कृतवानस्मि सादरम्।
देवकीवसुदेवौ च परिष्वज्य मुदा मम॥४४॥
आनन्दजैर्जलैर्मूर्ध्नि सेचयामासतुर्नृप।
तस्मिन् रङ्गवरे मल्लान् हत्वा चाणूरमुख्यकान्॥४५॥
गजं कुवलयापीडं कंसभ्रातॄननेकशः।
एवं हतेऽसुरे कंसे सर्वलोकैककण्टके॥४६॥
अन्येषु दुष्टदैत्येषु सर्वलोकभयङ्करम्।
लोकाः समुत्सुकाः सर्वे मांसमेत्योचुरादृताः॥४७॥
कृष्ण कृष्ण महायोगिन् भक्तानामभयप्रद।
प्रलयात्पाहि नो देव शरणागतवत्सलः॥४८॥
अनाथनाथ सर्वज्ञ सर्वभूतहिते रत।
किञ्चिद् विज्ञाप्यतेऽस्माभिस्तन्नो वक्तुं त्वमर्हसि॥४९॥
तव जन्मदिनं लोके न ज्ञातं केनचित् क्वचित्।
ज्ञात्वा च तत्त्वतः सर्वे कुर्मो वर्धापनोत्सवम्॥५०॥
तेषां दृष्ट्वा तु तां भक्तिं श्रद्धामपि च सौहृदम्।
मया जन्मदिनं तेभ्यः ख्यातं निर्मलचेतसा॥५१॥
श्रुत्वा तेऽपि तथा चक्रुर्विधिना येन तच्छृणु।
पार्थ तद्दिवसे प्राप्ते दन्तधावनपूर्वकम्॥५२॥
स्नात्वा पुण्यजले शुद्धे वाससी परिधाय च।
निर्वर्त्यावश्यकं कर्म व्रतसङ्कल्पमाचरेत्॥५३॥
अद्य स्थित्वा निराहारः श्वोभूते तु परेऽहनि।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाव्यय॥५४॥
गृहीत्वा नियमं चैव सम्पाद्यार्चनसाधनम्।
मण्डपं शोभनं कृत्वा फलपुष्पादिभिर्युतम्॥५५॥
तस्मिन्मां पूजयेद् भक्त्या गन्धपुष्पादिभिः क्रमात्।
उपचारैः षोडशभिर्द्वादशाक्षरविद्यया॥५६॥
सद्यः प्रसूतां जननीं वसुदेवं च मारिषः।
बलदेवसमायुक्तां रोहिणीं गुणशोभिनीम्॥५७॥
नन्दं यशोदां गोपीश्च गोपान् गाश्चैव सर्वशः।
गोकुलं यमुनां चैव योगमायां च दारिकाम्॥५८॥
यशोदाशयने सुप्तां सद्योजातां वरप्रभाम्।
एवं सम्पूजयेत् सम्यङ्नाममन्त्रैः पृथक् पृथक्॥५९॥
सुवर्णरौप्यताम्रारमृदादिभिरलङ्कृताः।
काष्ठपाषाणरचिताश्चित्रमय्योऽथ लेखिताः॥६०॥
प्रतिमा विविधाः प्रोक्तास्तासु चान्यतमां यजेत्।
रात्रौ जागरणं कुर्याद् गीतनृत्यादिभिः सह॥६१॥
पुराणैः स्तोत्रपाठैश्च जातनामादिसूत्सवैः।
श्वभूते पारणं कुर्याद् द्विजान् सम्भोज्य यत्नतः॥६२॥
एवं कृते महाराज व्रतानामुत्तमे व्रते।
सर्वान् कामानवाप्नोति विष्णुलोके महीयते॥६३॥
मोहान्न कुरुते यस्तु याति संसारगह्वरे।
तस्मात् कुर्वन् प्रयत्नेन निष्पापो जायते नरः॥६४॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
अङ्गदेशोद्भवो राजा मित्रजिन्नाम नामतः॥६५॥
तस्य पुत्रो महातेजः सत्यजित् सत्पथे स्थितः।
पालयामास धर्मज्ञो विधिवद् रञ्जयन् प्रजाः॥६६॥
तस्यैवं वर्तमानस्य कदाचिद् दैवयोगतः।
पाषण्डैः सह संवासो बभूव बहुवासरम्॥६७॥
तत्संसर्गात् स नृपतिरधर्मनिरतोऽभवत्।
वेदशास्त्रपुराणानि विनिन्द्य बहुशो नृप॥६८॥
ब्राह्मणेषु तथा धर्मे विद्वेषं परमं गतः।
एवं बहुतिथे काले गते भरतसत्तम॥६९॥
कालेन निधनप्राप्तो यमदूतवशं गतः।
बद्धा पाशैर्नीयमानो यमदूतैर्यमान्तिकम्॥७०॥
पीडितस्ताड्यमानोऽसौ दुष्टसङ्गवशं गतः।
नरके पतितः पापो यातनां बहुवत्सरम्॥७१॥
भुक्त्वा पापस्य शेषेण पैशाची योनिमास्थितः।
तृषाक्षुधासमाक्रान्तो भ्रमन् स मरुधन्वसु॥७२॥
कस्यचित् त्वथ वैश्यस्य देहमाविश्य संस्थितः।
सह तेनैव सम्प्राप्तो मथुरा पुण्यदां पुरीम्॥७३॥
तत्रत्यैरक्षकैः सोऽथ तद्देहात् तु बहिष्कृतः।
बभ्राम विपिने सोऽपि ऋषीणामाश्रमेष्वपि॥७४॥
कदाचिद् दैवयोगेन मम जन्माष्टमीदिने।
क्रियमाणां महापूजां व्रतिभिर्मुनिभिर्द्विजैः॥७५॥
रात्रौ जागरणं चैव नामसङ्कीर्तनादिभिः।
ददर्श सर्वं विधिवच्छुश्राव च हरेः कथाः॥७६॥
निष्पापस्तत्क्षणादेव शुद्धनिर्मलमानसः।
प्रेतदेहं समुत्सृज्य विष्णुलोकं विमानतः॥७७॥
मम दूतैः समानीतो दिव्यभोगसमन्वितः।
मम सान्निध्यमापन्नो व्रतस्यास्य प्रभावतः॥७८॥
नित्यमेव व्रतं चैतत् पुराणे सार्वकालिकम्।
गीयते विधिवत् सम्यङ्मुनिभिस्तत्त्वदर्शिभिः॥७९॥
सार्वकालिकमेवैतत्कृत्वा कामानवाप्नुयात्।
एतत्ते सर्वमाख्यातं व्रतानामुत्तमं व्रतम्।
मम सान्निध्यकृद् राजन् किं भूयः श्रोतुमिच्छसि॥८०॥

॥इति भविष्ये जन्माष्टमीव्रतकथा॥

व्रतोद्यापनम्

युधिष्ठिर उवाच

उद्यापनविधिं ब्रूहि सर्वदेव दयानिधे।
येन सम्पूर्णतां याति व्रतमेतदनुत्तमम्॥१॥

श्रीकृष्ण उवाच

पूर्णां तिथिमनुप्राप्य वित्तचित्तादिसंयुतः।
पूर्वेद्युरेकभक्ताशी स्वपेन्मां संस्मरन्हदि॥२॥
प्रातरुत्थाय संस्मृत्य पुण्यश्लोकान् समाहितः।
निर्वर्त्यावश्यकं कर्म ब्राह्मणान्स्वस्ति वाचयेत्॥३॥
गुरुमानीय धर्मज्ञं वेदवेदाङ्गपारगम्।
वृणुयादृत्विजश्चैव वस्त्रालङ्करणादिभिः॥४॥
पलेन वा तदर्धेन तदर्धार्धेन वा पुनः।
शक्त्या वाऽपि नृपश्रेष्ठ वित्तशाठ्यविवर्जितः॥५॥
सौवर्णीं प्रतिमां कुर्यात्पाद्यार्घ्याचमनीयकम्।
पात्रं सम्पाद्य विधिवत्पूजोपकरणं तथा॥६॥
गोचर्ममात्रं संलिप्य मध्ये मण्डलमाचरेत्।
ब्रह्माद्या देवतास्तत्र स्थापयित्वा प्रपूजयेत्॥७॥
मण्डपं रचयेत् तत्र कदलीस्तम्भमण्डितम्।
चतुर्द्वारसमोपेतं फलपुष्पादिशोभितम्॥८॥
वितानं तत्र बध्नीयाद्विचित्रं चैव शोभनम्।
मण्डले स्थापयेत्कुम्भं ताम्रं वा मृन्मयं शुचिम्॥९॥
तस्योपरि न्यसेत्पात्रं राजतं वैष्णवं तु वा।
वाससाऽऽच्छाद्य कौन्तेय पूजयेत् तत्र मां बुधः॥१०॥
उपचारैः षोडशभिर्मन्त्रैरेतैः समाहितः।
ध्यात्वाऽऽवाह्यामृतीकृत्य स्वागतादिभिरादरात्॥११॥
ध्यायेच्चतुर्भुजं देवं शङ्खचक्रगदाधरम्।
पीताम्बरयुगोपेतं लक्ष्मीयुक्तं विभूषितम्।
लसत्कौस्तुभशोभाढ्यं मेघश्यामं सुलोचनम्॥१२॥

ध्यानम्॥

आगच्छ देवदेवेश जगद्योने रमापते।
शुद्धे ह्यस्मिन्नधिष्ठाने सन्निधेहि कृपां कुरु॥१३॥

आवाहनम्॥

देवदेव जगन्नाथ गरुडासनसंस्थित।
गृहाण चासनं दिव्यं जगद्धातर्नमोऽस्तु ते॥१४॥

आसनम्॥

नानातीर्थाहृतं तोयं निर्मलं पुष्षमिश्रितम्।
पाद्यं गृहाण देवेश विश्वरूप नमोऽस्तु ते॥१५॥

पाद्यम्॥

गङ्गादिसर्वतीर्थेभ्यो भक्त्याऽऽनीतं सुशीतलम्।
गन्धपुष्पाक्षतोपेतं गृहाणार्घ्यं नमोऽस्तु ते॥१६॥

अर्घ्यम्॥

कृष्णावेणीसमुद्भूतं कालिन्दीजलसंयुतम्।
गृहाणाऽऽचमनं देव विश्वकाय नमोऽस्तु ते॥१७॥

आचमनम्॥

दधि क्षौद्रं घृतं शुद्धं कपिलायाः सुगन्धि यत्।
सुस्वादु मधुरं शौरे मधुपर्कं गृहाण मे॥१८॥

मधुपर्कम्॥
पुनराचमनम्॥

पञ्चामृतेन स्नपनं करिष्यामि सुरोत्तम।
क्षीरोदधिनिवासाय लक्ष्मीकान्ताय ते नमः॥१९॥

पञ्चामृतस्नानम्॥

मन्दाकिनी गौतमी च यमुना च सरस्वती।
ताभ्यः स्नानार्थमानीतं गृहाण शिशिरं जलम्॥२०॥

स्नानम्॥
पुनराचमनम्॥

शुद्धजाम्बूनदप्रख्ये तडिद्भासुररोचिषी।
मयोपपादिते तुभ्यं वाससी प्रतिगृह्यताम्॥२१॥

वस्त्रयुग्मम्॥
यज्ञोपवीतमिति यज्ञोपवीतम्॥

किरीटकुण्डलादीनि काञ्चीवलययुग्मकम्।
कौस्तुभं वनमालां च भूषणानि भजस्व मे॥२२॥

भूषणानि॥

मलयाचलसम्भूतं घनसारं मनोहरम्।
हृदयानन्दनं चारु चन्दनं प्रतिगृह्यताम्॥२३॥

चन्दनम्॥
अक्षताश्च सुरश्रेष्ठेति कुङ्कुमाक्षतान्।

मालतीचम्पकादीनि यूथिकाबकुलानि च।
तुलसीपत्रमिश्राणि गृहाण सुरसत्तम॥२४॥

पुष्पाणि॥
अथाङ्गपूजा-
अघनाशनाय नमः — पादौ पूजयामि।
वामनाय नमः — गुल्फौ पूजयामि।
शौरये नमः — जङ्घे पूजयामि।
वैकुण्ठवासिने नमः — ऊरू पूजयामि।
पुरुषोत्तमाय नमः — मेढ्रं पूजयामि।
वासुदेवाय नमः — कटिं पूजयामि।
हृषीकेशाय नमः — नाभिं पूजयामि।
माधवाय नमः — हृदयं पूजयामि।
मधुसूदनाय नमः — कण्ठं पूजयामि।
वराहाय नमः — बाहू पूजयामि।
नृसिंहाय नमः — हस्तौ पूजयामि।
दैत्यसूदनाय नमः — मुखं पूजयामि।
दामोदराय नमः — नासिकां पूजयामि।
पुण्डरीकाक्षाय नमः — नेत्रे पूजयामि।
गरुडध्वजाय नमः — श्रोत्रे पूजयामि।
गोविन्दाय नमः — ललाटं पूजयामि।
अच्युताय नमः — शिरः पूजयामि।
कृष्णाय नमः — सर्वाङ्गं पूजयामि॥
अथ परिवारदेवतापूजा—

देवकीं वसुदेवं च रोहिणीं सबलां तथा।
सात्यकिं चोद्धवाक्रूरावुग्रसेनादियादवान्॥२५॥
नन्दं यशोदां तत्कालप्रसूतां गोपगोपिकाः।
कालिन्दीं कालियं चैव पूजयेन्नाममन्त्रतः॥२६॥
वनस्पतिरसोद्भतं कालागुरुसमन्वितम्।
धूपं गृहाण गोविन्द गुणसागर गोपते॥२७॥

धूपम्॥
साज्यं त्रिवर्तिसंयुक्तम्॥
दीपम्॥

शाल्योदनं पायसं च सिताघृतविमिश्रितम्।
नानापक्वान्नसंयुक्तं नैवेद्यं प्रतिगृह्यताम्॥२८॥

नैवेद्यम्।
उत्तरापोशनम्॥
इदं फलमिति फलम्॥
पूगीफलमिति ताम्बूलम्॥
हिरण्यगर्भेति दक्षिणाम्॥

नीराजयेत्ततो भक्त्या मङ्गलं समुदीरयन्।
जयमङ्गलनिर्घोषैर्देवदेवं समर्चयेत्॥२९॥

नीराजनम्॥

दत्त्वा पुष्पाञ्जलिं चैव प्रदक्षिणपुरःसरम्।
प्रणमेद्दण्डवद् भूभौ भक्तिप्रह्वः पुनः पुनः॥३०॥

स्तुत्वा नानाविधैः स्तोत्रैः प्रार्थयेत जगत्पतिम्॥

नमस्तुभ्यं जगन्नाथ देवकीतनय प्रभो।
वसुदेवात्मजानन्त यशोदानन्दवर्धन॥३१॥
गोविन्द गोकुलाधार गोपीकान्त नमोऽस्तु ते।
ततस्तु दापयेदर्घ्यमिन्दोरुदयतः शुचिः॥३२॥
कृष्णाय प्रथमं दद्याद् देवकीसहिताय च।
नालिकेरेण शुद्धेन मुक्तमर्घ्यं विचक्षण॥३३॥

कृष्णाय परया भक्त्या शङ्खे कृत्वा विधानतः॥

जातः कंसवधार्थाय भूभारोत्तारणाय च।
कौरवाणां विनाशाय दैत्यानां निधनाय च॥३४॥
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च।
गृहाणार्घ्यं मया दत्तं देवकीसहितो हरे॥३५॥

कृष्णार्घ्यमन्त्रः॥

शङ्खे कृत्वा ततस्तोयं सपुष्पफलचन्दनम्।
जानुभ्यामवनिं गत्वा चन्द्रायार्घ्यं निवेदयेत्॥३६॥
क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भव।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहित प्रभो॥३७॥
ज्योत्स्नापते नमस्तुभ्यं नमस्ते ज्योतिषां पते।
नमस्ते रोहिणीकान्त गृहाणार्घ्यं नमोऽस्तु ते॥३८॥

चन्द्रार्घ्यमन्त्रः॥

इत्थं सम्पूज्य देवेशं रात्रौ जागरणं चरेत्।
गीतनृत्यादिना चैव पुराणश्रवणादिभिः॥३९॥
प्रत्यूषे विमले स्नात्वा पूजयित्वा जगद्गुरुम्।
पायसेन तिलाज्यैश्च मूलमन्त्रेण भक्तितः॥४०॥
अष्टोत्तरशतं हुत्वा ततः पुरुषसूक्ततः।
इदं विष्णुरिति प्रोक्त्वा जुहुयाद्वै घृताहुतीः॥४१॥
होमशेषं समाप्याथ पूर्णाहुतिपुरःसरम्।
आचार्यं पूजयेद् भक्त्या भूषणाच्छादनादिभिः॥४२॥
गामेकां कपिलां दद्याद् व्रतसम्पूर्तिहेतवे।
पयस्विनीं सुशीलां च सवत्सां सगुणां तथा॥४३॥
स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहनिकायुताम्।
रत्नपुच्छां ताम्रपृष्ठीं स्वर्णघण्टासमन्विताम्॥४४॥
वस्त्रच्छन्नां दक्षिणाढ्यामेवं सम्पूर्णतां व्रजेत्।
कपिलाया अभावे तु गौरन्याऽपि प्रदीयते॥४५॥
ततो दद्याच्च ऋत्विग्भ्योऽन्येभ्यश्चैव यथाविधि।
शय्यां सोपस्करां दद्याद् व्रतसम्पूर्तिहेतवे॥४६॥
ब्राह्मणान्भोजयेत्पश्चादष्टौ तेभ्यश्च दक्षिणाम्।
कलशानन्नसम्पूर्णान्दद्याच्चैव समाहितः॥४७॥
दीनान्धकृपणांश्चैव यथार्हं प्रतिपूजयेत्।
प्राप्यानुज्ञां तथा तेभ्यो भुञ्जीत सह बन्धुभिः॥४८॥
एवं कृते महाराज व्रतोद्यापनकर्मणि।
निष्पापस्तत्क्षणादेव जायते विबुधोपमः॥४९॥
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः।
भुक्त्वा भोगांश्चिरं कालमन्ते मम पुरं व्रजेत्॥५०॥

॥इति श्रीभविष्यपुराणे कृष्णयुधिष्ठिरसंवादे जन्माष्टमीव्रतोद्यापनं सम्पूर्णम्॥

श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे तृतीयोऽध्यायः

श्रीशुक उवाच

अथ सर्वगुणोपेतः कालः परमशोभनः।
यर्ह्येवाजनजन्मर्क्षं शान्तर्क्षग्रहतारकम्॥१॥
दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम्।
मही मङ्गलभूयिष्ठ पुरग्रामव्रजाकरा॥२॥
नद्यः प्रसन्नसलिला ह्रदा जलरुहश्रियः।
द्विजालिकुलसन्नाद स्तवका वनराजयः॥३॥
ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः।
अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत॥४॥
मनांस्यासन् प्रसन्नानि साधूनामसुरद्रुहाम्।
जायमानेऽजने तस्मिन्नेदुर्दुन्दुभयः समम्॥५॥
जगुः किन्नरगन्धर्वास्तुष्टुवुः सिद्धचारणाः।
विद्याधर्यश्च ननृतुरप्सरोभिः समं मुदा॥६॥
मुमुचुर्मुनयो देवाः सुमनांसि मुदान्विताः।
मन्दं मन्दं जलधरा जगर्जुरनुसागरम्॥७॥
निशीथे तम उद्भूते जायमाने जनार्दने।
देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः।
आविरासीद् यथा प्राच्यां दिशीन्दुरिव पुष्कलः॥८॥
तमद्भुतं बालकमम्बुजेक्षणं
चतुर्भुजं शङ्खगदाद्युदायुधम्।
श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं
पीताम्बरं सान्द्रपयोदसौभगम्॥९॥
महार्हवैदूर्यकिरीटकुण्डल-
त्विषा परिष्वक्तसहस्रकुन्तलम्।
उद्दामकाञ्च्यङ्गदकङ्कणादिभिर्-
विरोचमानं वसुदेव ऐक्षत॥१०॥
स विस्मयोत्फुल्लविलोचनो हरिं
सुतं विलोक्यानकदुन्दुभिस्तदा।
कृष्णावतारोत्सवसम्भ्रमोऽस्पृशन्
मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम्॥११॥
अथैनमस्तौदवधार्य पूरुषं
परं नताङ्गः कृतधीः कृताञ्जलिः।
स्वरोचिषा भारत सूतिकागृहं
विरोचयन्तं गतभीः प्रभाववित्॥१२॥

श्रीवसुदेव उवाच

विदितोऽसि भवान्साक्षात्पुरुषः प्रकृतेः परः।
केवलानुभवानन्द स्वरूपः सर्वबुद्धिदृक्॥१३॥
स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम्।
तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे॥१४॥
यथेमेऽविकृता भावास्तथा ते विकृतैः सह।
नानावीर्याः पृथग्भूता विराजं जनयन्ति हि॥१५॥
सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव।
प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः॥१६॥
एवं भवान्बुद्ध्यनुमेयलक्षणैर्-
ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः।
अनावृतत्वाद्बहिरन्तरं न ते
सर्वस्य सर्वात्मन आत्मवस्तुनः॥१७॥
य आत्मनो दृश्यगुणेषु सन्निति
व्यवस्यते स्वव्यतिरेकतोऽबुधः।
विनानुवादं न च तन्मनीषितं
सम्यग्यतस्त्यक्तमुपाददत्पुमान्॥१८॥
त्वत्तोऽस्य जन्मस्थितिसंयमान्विभो
वदन्त्यनीहादगुणादविक्रियात्।
त्वयीश्वरे ब्रह्मणि नो विरुध्यते
त्वदाश्रयत्वादुपचर्यते गुणैः॥१९॥
स त्वं त्रिलोकस्थितये स्वमायया
बिभर्षि शुक्लं खलु वर्णमात्मनः।
सर्गाय रक्तं रजसोपबृंहितं
कृष्णं च वर्णं तमसा जनात्यये॥२०॥
त्वमस्य लोकस्य विभो रिरक्षिषुर्-
गृहेऽवतीर्णोऽसि ममाखिलेश्वर।
राजन्यसंज्ञासुरकोटियूथपैर्-
निर्व्यूह्यमाना निहनिष्यसे चमूः॥२१॥
अयं त्वसभ्यस्तव जन्म नौ गृहे
श्रुत्वाग्रजांस्ते न्यवधीत्सुरेश्वर।
स तेऽवतारं पुरुषैः समर्पितं
श्रुत्वाधुनैवाभिसरत्युदायुधः॥२२॥

श्रीशुक उवाच

अथैनमात्मजं वीक्ष्य महापुरुषलक्षणम्।
देवकी तमुपाधावत्कंसाद्भीता सुविस्मिता॥२३॥

श्रीदेवक्युवाच

रूपं यत्तत्प्राहुरव्यक्तमाद्यं
ब्रह्म ज्योतिर्निर्गुणं निर्विकारम्।
सत्तामात्रं निर्विशेषं निरीहं
स त्वं साक्षाद्विष्णुरध्यात्मदीपः॥२४॥
नष्टे लोके द्विपरार्धावसाने
महाभूतेष्वादिभूतं गतेषु।
व्यक्तेऽव्यक्तं कालवेगेन याते
भवानेकः शिष्यतेऽशेषसंज्ञः॥२५॥
योऽयं कालस्तस्य तेऽव्यक्तबन्धो
चेष्टामाहुश्चेष्टते येन विश्वम्।
निमेषादिर्वत्सरान्तो महीयांस्-
तं त्वेशानं क्षेमधाम प्रपद्ये॥२६॥
मर्त्यो मृत्युव्यालभीतः पलायन्
लोकान्सर्वान्निर्भयं नाध्यगच्छत्।
त्वत्पादाब्जं प्राप्य यदृच्छयाऽद्य
सुस्थः शेते मृत्युरस्मादपैति॥२७॥
स त्वं घोरादुग्रसेनात्मजान्नस्-
त्राहि त्रस्तान्भृत्यवित्रासहासि।
रूपं चेदं पौरुषं ध्यानधिष्ण्यं
मा प्रत्यक्षं मांसदृशां कृषीष्ठाः॥२८॥
जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन।
समुद्विजे भवद्धेतोः कंसादहमधीरधीः॥२९॥
उपसंहर विश्वात्मन्नदो रूपमलौकिकम्।
शङ्खचक्रगदापद्म श्रिया जुष्टं चतुर्भुजम्॥३०॥
विश्वं यदेतत्स्वतनौ निशान्ते
यथावकाशं पुरुषः परो भवान्।
बिभर्ति सोऽयं मम गर्भगोऽभू-
दहो नृलोकस्य विडम्बनं हि तत्॥३१॥

श्रीभगवानुवाच

त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायम्भुवे सति।
तदायं सुतपा नाम प्रजापतिरकल्मषः॥३२॥
युवां वै ब्रह्मणादिष्टौ प्रजासर्गे यदा ततः।
सन्नियम्येन्द्रियग्रामं तेपाथे परमं तपः॥३३॥
वर्षवातातपहिम घर्मकालगुणाननु।
सहमानौ श्वासरोध विनिर्धूतमनोमलौ॥३४॥
शीर्णपर्णानिलाहारावुपशान्तेन चेतसा।
मत्तः कामानभीप्सन्तौ मदाराधनमीहतुः॥३५॥
एवं वां तप्यतोस्तीव्रं तपः परमदुष्करम्।
दिव्यवर्षसहस्राणि द्वादशेयुर्मदात्मनोः॥३६॥
तदा वां परितुष्टोऽहममुना वपुषानघे।
तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः॥३७॥
प्रादुरासं वरदराड्युवयोः कामदित्सया।
व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः॥३८॥
अजुष्टग्राम्यविषयावनपत्यौ च दम्पती।
न वव्राथेऽपवर्गं मे मोहितौ देवमायया॥३९॥
गते मयि युवां लब्ध्वा वरं मत्सदृशं सुतम्।
ग्राम्यान्भोगानभुञ्जाथां युवां प्राप्तमनोरथौ॥४०॥
अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम्।
अहं सुतो वामभवं पृश्निगर्भ इति श्रुतः॥४१॥
तयोर्वां पुनरेवाहमदित्यामास कश्यपात्।
उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः॥४२॥
तृतीयेऽस्मिन्भवेऽहं वै तेनैव वपुषाथ वाम्।
जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति॥४३॥
एतद्वां दर्शितं रूपं प्राग्जन्मस्मरणाय मे।
नान्यथा मद्भवं ज्ञानं मर्त्यलिङ्गेन जायते॥४४॥
युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत्।
चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्गतिं पराम्॥४५॥

श्रीशुक उवाच

इत्युक्त्वासीद्धरिस्तूष्णीं भगवानात्ममायया।
पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः॥४६॥
ततश्च शौरिर्भगवत्प्रचोदितः
सुतं समादाय स सूतिकागृहात्।
यदा बहिर्गन्तुमियेष तर्ह्यजा
या योगमायाजनि नन्दजायया॥४७॥
तया हृतप्रत्ययसर्ववृत्तिषु
द्वाःस्थेषु पौरेष्वपि शायितेष्वथ।
द्वारश्च सर्वाः पिहिता दुरत्यया
बृहत्कपाटायसकीलशृङ्खलैः॥४८॥
ताः कृष्णवाहे वसुदेव आगते
स्वयं व्यवर्यन्त यथा तमो रवेः।
ववर्ष पर्जन्य उपांशुगर्जितः
शेषोऽन्वगाद्वारि निवारयन्फणैः॥४९॥
मघोनि वर्षत्यसकृद्यमानुजा
गम्भीरतोयौघजवोर्मिफेनिला।
भयानकावर्तशताकुला नदी
मार्गं ददौ सिन्धुरिव श्रियः पतेः॥५०॥
नन्दव्रजं शौरिरुपेत्य तत्र तान्
गोपान् प्रसुप्तानुपलभ्य निद्रया।
सुतं यशोदाशयने निधाय तत्
सुतामुपादाय पुनर्गृहानगात्॥५१॥
देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम्।
प्रतिमुच्य पदोर्लोहमास्ते पूर्ववदावृतः॥५२॥
यशोदा नन्दपत्नी च जातं परमबुध्यत।
न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः॥५३॥

॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे तृतीयोऽध्यायः॥

हरिवंशे पञ्चत्रिंशोऽध्यायः — कृष्णजन्मानुकीर्तनम्

वैशम्पायन उवाच

याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः।
पौरवी रोहिणी नाम इन्दिरा च तथा वरा॥१॥
वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी।
सहदेवा शान्तिदेवा श्रीदेवा देवरक्षिता॥२॥
वृकदेव्युपदेवी च देवकी चैव सप्तमी।
सुतनुर्वडवा चैव द्वे एते परिचारिके॥३॥
पौरवी रोहिणी नाम बाह्लिकस्याऽऽत्मजाऽभवत्।
ज्येष्ठा पत्नी महाराज दयिताऽऽनकदुन्दुभेः॥४॥
लेभे ज्येष्ठं सुतं रामं सारणं शठमेव च।
दुर्दमं दमनं श्वभ्रं पिण्डारकमुशीनरम्॥५॥
चित्रां नाम कुमारीं च रोहिणीतनया दश।
चित्रा सुभद्रेति पुनर्विख्याता कुरुनन्दन॥६॥
वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः।
रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः॥७॥
सुभद्रायां रथी पार्थादभिमन्युरजायत।
अक्रूरात् काशिकन्यायां सत्यकेतुरजायत॥८॥
वसुदेवस्य भार्यासु महाभागासु सप्तसु।
ये पुत्रा जज्ञिरे शूरा नामतस्तान् निबोध मे॥९॥
भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ।
वृकदेवः सुनामायां गदश्चास्ता सुतावुभौ॥१०॥
उपासङ्गवरं लेभे तनयं देवरक्षिता।
अगावहं महात्मानं वृकदेवी व्यजायत॥११॥
कन्यां त्रिगर्तराजस्य भर्ता वै शैशिरायणः।
जिज्ञासां पौरुषे चक्रे न चस्कन्देऽथ पौरुषम्॥१२॥
कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा।
मिथ्याभिशप्तो गार्ग्यस्तु मन्युनाभिसमीरितः॥१३॥
गोपकन्यामुपादाय मैथुनायोपचक्रमे।
गोपाली त्वप्सरास्तस्य गोपस्त्रीवेषधारिणी॥१४॥
धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम्।
मानुष्यां गार्ग्यभार्यायां नियोगाच्छूलपाणिनः॥१५॥
स कालयवनो नाम जज्ञे राजा महाबलः।
वृषपूर्वार्धकायास्तमवहन् वाजिनो रणे॥१६॥
अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः।
यवनस्य महाराज स कालयवनोऽभवत्॥१७॥
स युद्धकामी नृपतिः पर्यपृच्छद् द्विजोत्तमान्।
वृष्ण्यन्धककुलं तस्य नारदोऽकथयद् विभुः॥१८॥
अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात्तदा।
दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम्॥१९॥
ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम्।
समेता मन्त्रयामासुर्यवनस्य भयात् तदा॥२०॥
कृत्वा च निश्चयं सर्वे पलायनपरायणाः।
विहाय मथुरां रम्यां मानयन्तः पिनाकिनम्॥२१॥
कुशस्थलीं द्वारवतीं निवेशयितुमीप्सवः।
इति कृष्णस्य जन्मेदं यः शुचिर्नियतेन्द्रियः।
पर्वसु श्रावयेद् विद्वाननृणः स सुखी भवेत्॥२२॥

॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि श्रीकृष्णजन्मानुकीर्तनं नाम पञ्चत्रिंशोऽध्यायः॥३५॥

❀ ❀ ❀