श्री-गङ्गापूजा
पूर्वाङ्ग-विघ्नेश्वर-पूजा
(आचम्य)
प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]
ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]
अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
अर्चना
सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
प्रार्थनाः समर्पयामि।
प्रधान-पूजा — गङ्गा-पूजा
प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे दक्षिणायने
शरद्-ऋतौ तुला-मासे कृष्णपक्षे ( ) शुभतिथौ
(इन्दु / भौम / बुध / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायाम्
( ) नक्षत्र ( )-योग ( )-करण-युक्तायां च एवं गुण विशेषण विशिष्टायाम्
अस्यां ( ) शुभतिथौ
अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम्
धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थम्
मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं
गङ्गा-देवी-प्रीत्यर्थं
यावच्छक्ति-ध्यानावाहनादि-षोडशोपचार-गङ्गा-पूजां करिष्ये तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि।
(गणपति-प्रसादं शिरसा गृहीत्वा)
आसन-पूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥
घण्टा-पूजा
कलश-पूजा
कलशाय नमः दिव्यगन्धान् धारयामि।
श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्म-पूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः
समस्तोपचारान् समर्पयामि।
पीठ-पूजा
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः
गुरु-ध्यानम्
षोडशोपचार-पूजा
(आचम्य)
[विघ्नेश्वरपूजां कृत्वा।]
प्राणानायम्य। ममोपात्त + … ऋण-त्रय-विमोचनार्थं गङ्गा-भागीरथी-प्रसाद-सिद्ध्यर्थं गङ्गा-पूजां करिष्ये।
गङ्गा-देवीं ध्यायामि।
गङ्गा-देवीम् आवाहयामि।
गङ्गा-देव्यै नमः, आसनं समर्पयामि।
गङ्गा-देव्यै नमः, पाद्यं समर्पयामि।
गङ्गा-देव्यै नमः, अर्घ्यं समर्पयामि।
गङ्गा-देव्यै नमः, आचमनीयं समर्पयामि।
गङ्गा-देव्यै नमः, पञ्चामृतस्नानं समर्पयामि।
गङ्गा-देव्यै नमः, स्नानं समर्पयामि।
स्नानानन्तरम् आचमनीयं समर्पयामि।
गङ्गा-देव्यै नमः, वस्त्रं समर्पयामि।
गङ्गा-देव्यै नमः, गन्धान् धारयामि।
गङ्गा-देव्यै नमः, अक्षतान् समर्पयामि।
गङ्गा-देव्यै नमः, आभरणानि समर्पयामि।
गङ्गा-देव्यै नमः, पुष्पमालां समर्पयामि।
पुष्पैः सम्पूजयामि।
अङ्ग-पूजा
| पाप-पर्वत-नाशिन्यै नमः | पादौ पूजयामि |
| भक्त-वत्सलायै नमः | गुल्फौ पूजयामि |
| जगद्धात्र्यै नमः | जङ्घे पूजयामि |
| जाह्नव्यै नमः | जानुनी पूजयामि |
| शैल-सुतायै नमः | ऊरू पूजयामि |
| समुद्र-गामिन्यै नमः | कटिं पूजयामि |
| मकरारूढायै नमः | गुह्यं पूजयामि |
| आनन्द-वर्धिन्यै नमः | जघनं पूजयामि |
| गङ्गायै नमः | नाभिं पूजयामि |
| जगत्-कुक्ष्यै नमः | उदरं पूजयामि |
| विशाल-वक्षसे नमः | वक्षः-स्थलं पूजयामि |
| ह्लादिन्यै नमः | हृदयं पूजयामि |
| सुस्तन्यै नमः | स्तनौ पूजयामि |
| तरङ्गिण्यै नमः | पार्श्वौ पूजयामि |
| उन्नत-कण्ठ्यै नमः | कण्ठं पूजयामि |
| त्रैलोक्य-सुन्दर्यै नमः | स्कन्धौ पूजयामि |
| अमृत-कलश-हस्तायै नमः | हस्तान् पूजयामि |
| लीला-शुक-धारिण्यै नमः | बाहून् पूजयामि |
| विद्या-प्रकाशिन्यै नमः | मुखं पूजयामि |
| त्रैलोक्य-वासिन्यै नमः | ललाटं पूजयामि |
| सुनासिकायै नमः | नासिकां पूजयामि |
| मकर-कुण्डल-धारिण्यै नमः | श्रोत्रे पूजयामि |
| बिम्बोष्ठ्यै नमः | ओष्ठे पूजयामि |
| अनाथ-रक्षिण्यै नमः | अधरं पूजयामि |
| चञ्चल-गत्यै नमः | जिह्वां पूजयामि |
| अलक-नन्दायै नमः | गण्ड-स्थलं पूजयामि |
| तिलक-धारिण्यै नमः | फालं पूजयामि |
| ज्ञान-रूपिण्यै नमः | चुबुकं पूजयामि |
| अमृत-बिम्बायै नमः | अलकान् पूजयामि |
| किरीट-धारिण्यै नमः | शिरः पूजयामि |
| भागीरथ्यै नमः | सर्वाण्यङ्गानि पूजयामि |
गङ्गाष्टोत्तरशतनामावलिः
श्री-गङ्गायै नमःविष्णु-पादाब्ज-सम्भूतायै नमःहर-वल्लभायै नमःहिमाचलेन्द्र-तनयायै नमःगिरि-मण्डल-गामिन्यै नमःतारकाराति-जनन्यै नमःसगरात्मज-तारिकायै नमःसरस्वती-समायुक्तायै नमःसु-घोषायै नमःसिन्धु-गामिन्यै नमः१०भागीरथ्यै नमःभाग्य-वत्यै नमःभगीरथ-रथानुगायै नमःत्रिविक्रम-पदोद्भूतायै नमःत्रि-लोक-पथ-गामिन्यै नमःक्षीर-शुभ्रायै नमःबहु-क्षीरायै नमःक्षीर-वृक्ष-समाकुलायै नमःत्रि-लोचन-जटा-वासिन्यै नमःऋण-त्रय-विमोचिन्यै नमः२०त्रिपुरारि-शिरश्चूडायै नमःजाह्नव्यै नमःनर-भीति-हृते नमःअव्ययायै नमःनयनानन्द-दायिन्यै नमःनग-पुत्रिकायै नमःनिरञ्जनायै नमःनित्य-शुद्धायै नमःनीरजालि-परिष्कृतायै नमःसावित्र्यै नमः३०सलिलावासायै नमःसागराम्बु-समेधिन्यै नमःरम्यायै नमःबिन्दु-सरोव्यक्तायै नमःवृन्दारक-समाश्रितायै नमःउमा-सपत्न्यै नमःशुभ्राङ्गायै नमःश्री-मत्यै नमःधवलाम्बरायै नमःआखण्डल-वनावासायै नमः४०खण्डेन्दु-कृत-शेखरायै नमःअमृताकार-सलिलायै नमःलीला-लङ्घित-पर्वतायै नमःविरिञ्चि-कलशावासायै नमःत्रि-वेण्यै नमःत्रि-गुणात्मिकायै नमःसङ्गताघौघ-शमन्यै नमःशङ्ख-दुन्दुभि-निःस्वनायै नमःभीति-घ्न्यै नमःभाग्य-जनन्यै नमः५०भिन्न-ब्रह्माण्ड-दर्पिण्यै नमःनन्दिन्यै नमःशीघ्र-गायै नमःसिद्धायै नमःशरण्यायै नमःशशि-शेखरायै नमःशं-कर्यै नमःशफरी-पूर्णायै नमःभर्ग-मूर्ध-कृतालयायै नमःभव-प्रियायै नमः६०सत्य-सन्ध-प्रियायै नमःहंस-स्वरूपिण्यै नमःभगीरथ-सुतायै नमःअनन्तायै नमःशरच्चन्द्र-निभाननायै नमःओङ्कार-रूपिण्यै नमःअतुलायै नमःक्रीडा-कल्लोल-कारिण्यै नमःस्वर्ग-सोपान-सरण्यै नमःसर्व-देव-स्वरूपिण्यै नमः७०अम्भः-प्रदायै नमःदुःख-हन्त्र्यै नमःशान्ति-सन्तान-कारिण्यै नमःदारिद्र्य-हन्त्र्यै नमःशिव-दायै नमःसंसार-विष-नाशिन्यै नमःप्रयाग-निलयायै नमःशीतायै नमःताप-त्रय-विमोचिन्यै नमःशरणागत-दीनार्त-परित्राणायै नमः८०सु-मुक्ति-दायै नमःपाप-हन्त्र्यै नमःपावनाङ्गायै नमःपर-ब्रह्म-स्वरूपिण्यै नमःपूर्णायै नमःपुरातनायै नमःपुण्यायै नमःपुण्य-दायै नमःपुण्य-वाहिन्यै नमःपुलोमजार्चितायै नमः९०पूतायै नमःपूत-त्रि-भुवनायै नमःजयायै नमःजङ्गमायै नमःजङ्गमाधारायै नमःसिद्ध-योगि-निषेवितायै नमःजल-रूपायै नमःजगद्-धात्र्यै नमःजगद्-भूतायै नमःजनार्चितायै नमः१००जह्नु-पुत्र्यै नमःजगन्मात्रे नमःजम्बू-द्वीप-विहारिण्यै नमःभव-पत्न्यै नमःभीष्म-मात्रे नमःसिद्ध-रम्य-स्वरूप-धृते नमःउमा-सहोदर्यै नमःअज्ञान-तिमिरापहृते नमः१०८
॥इति श्री-गङ्गाष्टोत्तरशत-नामावलिः सम्पूर्णा॥
गङ्गाष्टोत्तरशतनामावलिः
गङ्गायै नमःत्रिपथगादेव्यै नमःशम्भुमौलिविहारिण्यै नमःजाह्नव्यै नमःपापहन्त्र्यै नमःमहापातकनाशिन्यै नमःपतितोद्धारिण्यै नमःस्रोतस्वत्यै नमःपरमवेगिन्यै नमःविष्णुपादाब्जसम्भूतायै नमः१०विष्णुदेहकृतालयायै नमःस्वर्गाब्धिनिलयायै नमःसाध्व्यै नमःस्वर्णद्यै नमःसुरनिम्नगायै नमःमन्दाकिन्यै नमःमहावेगायै नमःस्वर्णशृङ्गप्रभेदिन्यै नमःदेवपूज्यतमायै नमःदिव्यायै नमः२०दिव्यस्थाननिवासिन्यै नमःसुचारुनीररुचिरायै नमःमहापर्वतभेदिन्यै नमःभागीरथ्यै नमःभगवत्यै नमःमहामोक्षप्रदायिन्यै नमःसिन्धुसङ्गगतायै नमःशुद्धायै नमःरसातलनिवासिन्यै नमःमहाभोगायै नमः३०भोगवत्यै नमःसुभगानन्ददायिन्यै नमःमहापापहरायै नमःपुण्यायै नमःपरमाह्लाददायिन्यै नमःपार्वत्यै नमःशिवपत्न्यै नमःशिवशीर्षगतालयायै नमःशम्भोर्जटामध्यगतायै नमःनिर्मलायै नमः४०निर्मलाननायै नमःमहाकलुषहन्त्र्यै नमःजह्नुपुत्र्यै नमःजगत्प्रियायै नमःत्रैलोक्यपावन्यै नमःपूर्णायै नमःपूर्णब्रह्मस्वरूपिण्यै नमःजगत्पूज्यतमायै नमःचारुरूपिण्यै नमःजगदम्बिकायै नमः५०लोकानुग्रहकर्त्र्यै नमःसर्वलोकदयापरायै नमःयाम्यभीतिहरायै नमःतारायै नमःपारायै नमःसंसारतारिण्यै नमःब्रह्माण्डभेदिन्यै नमःब्रह्मकमण्डलुकृतालयायै नमःसौभाग्यदायिन्यै नमःपुंसां निर्वाणपददायिन्यै नमः६०अचिन्त्यचरितायै नमःचारुरुचिरातिमनोहरायै नमःमर्त्यस्थायै नमःमृत्युभयहायै नमःस्वर्गमोक्षप्रदायिन्यै नमःपापापहारिण्यै नमःदूरचारिण्यै नमःवीचिधारिण्यै नमःकारुण्यपूर्णायै नमःकरुणामय्यै नमः७०दुरितनाशिन्यै नमःगिरिराजसुतायै नमःगौरीभगिन्यै नमःगिरिशप्रियायै नमःमेनकागर्भसम्भूतायै नमःमैनाकभगिनीप्रियायै नमःआद्यायै नमःत्रिलोकजनन्यै नमःत्रैलोक्यपरिपालिन्यै नमःतीर्थश्रेष्ठतमायै नमः८०श्रेष्ठायै नमःसर्वतीर्थमय्यै नमःशुभायै नमःचतुर्वेदमय्यै नमःसर्वायै नमःपितृसन्तृप्तिदायिन्यै नमःशिवदायै नमःशिवसायुज्यदायिन्यै नमःशिववल्लभायै नमःतेजस्विन्यै नमः९०त्रिनयनायै नमःत्रिलोचनमनोरमायै नमःसप्तधारायै नमःशतमुख्यै नमःसगरान्वयतारिण्यै नमःमुनिसेव्यायै नमःमुनिसुतायै नमःजह्नुजानुप्रभेदिन्यै नमःमकरस्थायै नमःसर्वगतायै नमः१००सर्वाशुभनिवारिण्यै नमःसुदृश्यायै नमःचाक्षुषीतृप्तिदायिन्यै नमःमकरालयायै नमःसदानन्दमय्यै नमःनित्यानन्ददायै नमःनगपूजितायै नमःसर्वदेवाधिदेवैः परिपूज्यपदाम्बुजायै नमः
॥इति श्री-महाभागवते महापुराणे श्री-गङ्गाष्टोत्तरशतनामावलिः सम्पूर्णा॥
गङ्गा-देव्यै नमः, नाना-विध-परिमल-पत्र-पुष्पाणि समर्पयामि।
गङ्गा-देव्यै नमः, धूपम् आघ्रापयामि।
गङ्गा-देव्यै नमः, दीपं दर्शयामि।
गङ्गा-देव्यै नमः, नैवेद्यं समर्पयामि।
गङ्गा-देव्यै नमः, कर्पूर-ताम्बूलं समर्पयामि।
गङ्गा-देव्यै नमः, नीराजनं समर्पयामि।
गङ्गा-देव्यै नमः, प्रदक्षिण-नमस्कारान् समर्पयामि।
गङ्गा-देव्यै नमः, प्रार्थनां समर्पयामि।
पूजान्ते क्षीरार्घ्य-प्रदानं करिष्ये।
गङ्गायै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
यमुनायै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
सरस्वत्यै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
त्रिवेण्यै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
वट-राजाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
तीर्थ-राजाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
प्रार्थनाः समर्पयामि।
ॐ तत्सद्ब्रह्मार्पणमस्तु।
॥इति गङ्गा-पूजा-कल्पः सम्पूर्णः॥
गङ्गाष्टकम्
॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्री-गङ्गाष्टकं सम्पूर्णम्॥