पुरुषोत्तम-मासस्य शुक्ल-कमला-एकादशी-माहात्म्यम्
Puruṣottama-māsasya Śukla-kamalā-ekādaśī-māhātmyam
Script
युधिष्ठिर उवाच
मलिम्लुचस्य मासस्य का वा एकादशी भवेत्।
किं नाम को विधिस्तस्याः कथयस्व जनार्दन॥१॥
श्रीकृष्ण उवाच
मलमासस्य या पुण्या पोका नाम्ना च पशिनी।
सोपोषिता प्रयत्नेन पद्मनाभपुरं नयेत्॥२॥
मलमासे महापुण्या कीर्तिता कल्मषापहा।
तस्याः फलं कथयितुं न शक्तश्चतुराननः॥३॥
नारदाय पुरा प्रोक्तं विधिना व्रतमुत्तमम्।
पद्मिन्याः पापराशिनं भुक्तिमुक्तिफलप्रदम्॥४॥
श्रुत्वा वाक्यं मुरारेस्तु प्रोवाचातिमुदान्वितः।
युधिष्ठिरो जगन्नाथं विधि पप्रच्छ धर्मवित्॥५॥
श्रुत्वा राज्ञस्तु वचनमुवाच मधुसूदनः।
शृणु राजन् प्रवक्ष्यामि मुनीनामप्यगोचरम्॥६॥
दशमीदिवसे प्राप्ते व्रतारम्भो विधीयते।
कांस्यं मांसं मसूरांश्च चणकान्कोद्रवांस्तथा॥७॥
शाकं मधु परान्नं च दशम्यामष्ट वर्जयेत्।
हविष्यान्नं च भुञ्जीत अक्षारलवणं तथा॥८॥
भूमिशायी ब्रह्मचारी भवेच्च दशमीदिने।
एकादशीदिने प्राप्ते प्रातरुत्थाय सादरम्॥९॥
विधाय च मलोत्सर्गं न कुर्याद् दन्तधावनम्।
कृत्वा द्वादशगण्डूषाञ्छुचिर्भूत्वा समाहितः॥१०॥
सूर्योदये शुभे तीर्थे स्नानार्थं प्रवजेत् सुधीः।
गोमयं मृत्तिकां गृह्य तिलान् दर्भाञ्छुचिस्तथा॥११॥
चूर्णैरामलकीभूते विधिना स्नानमाचरेत्।
उद्धृताऽसि वराहेण कृष्णेन शतबाहुना॥१२॥
मृत्तिके ब्रह्मदत्ताऽसि काश्यपेनाभिमन्त्रिता।
हरिपूजनयोग्यं मां मृत्तिके कुरु ते नमः॥१३॥
सर्वौषधिसमुत्पन्नं गवोदरमधिष्ठितम्।
पवित्रकरणं भूमी पावयतु गोमयम्॥१४॥
ब्रह्मष्ठीवनसम्भूता धात्री भुवनपावनी।
संस्पृष्टा पावयाङ्गं मे निर्मलं कुरु ते नमः॥१५॥
देव देव जगन्नाथ शङ्खचक्रगदाधर।
देहि विष्णो ममानुज्ञा तव तीर्थावगाहने॥१६॥
वारुणांश्च जपेन्मन्त्रान् स्नानं कुर्याः द्विधानतः।
गङ्गादितीर्थं संस्मृत्य यत्र कुत्र जलाशयम्॥१७॥
पश्चात् सम्मार्जयेगात्रं विधिना नृपसत्तम।
परिधायाहतं वासः शुक्लं शुचि ह्यखण्डितम्॥१८॥
सन्ध्यामुपास्य विधिना तर्पयित्वा पितॄन् सुरान्।
हरेर्मन्दिरमागम्य पूजयेत् कमलापतिम्॥१९॥
स्वर्गमाषकृतं देवं राधिकासहितं हरिम्।
पार्वत्या सहितं शम्भु पूजयेद् विधिपूर्वकम्॥२०॥
धान्योपरि न्यसेत् कुम्भं ताम्रं मुन्मयमेव वा।
दिव्यवस्त्रसमायुक्तं दिव्यगन्धानुवासितम्॥२१॥
तस्योपरि न्यसेत् पात्रं ताम्रं रौप्यं हिरण्मयम्।
तस्मिन् संस्थापयेद् देवं विधिना पूजयेत् ततः॥२२॥
संस्नाप्य सलिलैः श्रेष्ठैर्गन्धधूपाधिवासितैः।
चन्दनागुरुकरैः पूजयेदेवमीश्वरम्॥२३॥
नानाकुसुमकस्तूरीकुङ्कुमेन सिताम्बुजैः।
तत्कालजातैः कुसुमैः पूजयेत् परमेश्वरम्॥२४॥
नैवेद्यैर्विविधैः शक्त्या तथा नीराजनादिभिः।
धूपैर्दीपैः सकर्पूरैः पूजयेत् केशवं शिवम्॥२५॥
नृत्यं गीतं तदने तु कुर्याद् भक्तिपुरःसरम्।
नालपेत् पतितान् पापांस्तस्मिन्नहनि न स्पृशेत्॥२६॥
नानृतं हि वदेद् वाक्यं सत्यपूतं वचो वदेत्।
रजस्वला न स्पृशेच्च न निन्देद् ब्राह्मणं गुरुम्॥२७॥
पुराणं पुरतो विष्णोः शृणुयात् सह वैष्णवैः।
निर्जला सा प्रकर्तव्या या च शुक्ले मलिम्लुचे॥२८॥
जलपानेन वा कुर्याद् दुग्धाहारेण नान्यथा।
रात्रौ जागरणं कुर्याद् गीतवादित्रसंयुतम्॥२९॥
प्रहरे प्रहरे पूजा कार्या विष्णोः शिवस्य च।
प्रथमे प्रहरे दद्यान्नारिकेलार्घमुत्तमम्॥३०॥
द्वितीये श्रीकलैश्चैव तृतीये बीजपूरकैः।
चतुर्थप्रहरे पूगै रिङ्गैश्च विशेषतः॥३१॥
प्रथमप्रहरे पुण्यमाग्निष्टोमस्य जायते।
द्वितीये वाजपेयस्य तृतीये हयमेधजम्॥३२॥
चतुथें राजसूयस्य जापतो जायते फलम्।
नातः परतरं पुण्यं नातः परतरा मखाः॥३३॥
नातः परतरा विद्या नातः परतरं तपः।
पृथिव्यां यानि तीर्थानि क्षेत्राण्यायतनानि च॥३४॥
तेन स्नातानि दृष्टानि येनाकारि हरेवतम्।
एवं जागरणं कुर्याद्यावत्सूर्योदयो भवेत्॥३५॥
सूर्योदये शुभे तीर्थे गत्वा स्नानं समाचरेत्।
स्नात्वा चामत्य भवनं पूजयेदेवमीश्वरम्॥३६॥
पूर्वोदितन विधिना भोजयेद्ब्राह्मणाञ्छुभान्।
कुम्भादिकं च यत्सर्वं प्रतिमा केशवस्य च॥३७॥
पूजयित्वा विधानेन ब्राह्मणाय समर्पयेत्।
एवंविधं व्रतं यो वै कुरुते भुवि मानवः॥३८॥
सफलं जायते जन्म तस्य मुक्तिफलप्रदम्।
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वयानघ॥३९॥
व्रतानि तेन चीर्णानि सर्वाणि नृपनन्दन।
पद्मिन्याः प्रीतियुक्तो यः कुरुते व्रतमुत्तमम्॥४०॥
अम्ब ते कथयिष्यामि कथामेकां मनोरमाम्।
नारदाय पुलस्त्येन विस्तरैण निवोदिताम्॥४१॥
कार्तवीर्येण कारायां निक्षिप्तं वीक्ष्य रावणम्।
विमोचितः पुलस्त्येन याचयित्वा महीपतिम्॥४२॥
तदाश्चर्यं तदा श्रुत्वा नारदो दिव्यदर्शनः।
पप्रच्छ च यथाभक्त्या पुलस्त्यं मुनिपुङ्गवम॥४३॥
नारद उवाच
दशाननेन विजिताः सर्वे देवाः सवासवाः।
कार्तवीर्येण विजिताः कथं रणविशारदः॥४४॥
नारदस्य वचः श्रुत्वा पुलस्त्यो मुनिरब्रवीत्।
पुलस्त्य उवाच
शृणु वत्स प्रवक्ष्यामि कार्तवीर्यसमुद्भवम्॥४५॥
पुरा त्रेतायुगे राजन् माहिष्मत्यां बृहत्तरः।
हैहयानां कुले जातः कृतवीर्यो महीपतिः॥४६॥
सहस्रं प्रमदास्तस्य नृपस्य प्राणवल्लभाः।
न तासां तनयं काचिल्लेभे राज्यधुरन्धरम्॥४७॥
यजन् देवान् पितॄन् सिद्धान् प्रतिपूज्य महत्तरान्।
कुर्वंस्तदुदितं सर्वं लब्धवांस्तनयं न सः॥४८॥
सुतं विना तदा राज्यं न सुखाय महीपतेः।
क्षुधितस्य यथा भोगा न भवन्ति सुखप्रदाः॥४९॥
विचार्य चित्ते नृपतिस्तपस्तप्तुं मनो दधे।
तपसैव सदा सिद्धिर्जायते मनसेप्सिता॥५०॥
इत्युक्त्वा स हि धर्मात्मा चीरवासा जटाधरः।
तपस्तप्तुं गतः सद्यो गृहे न्यस्य सुमन्त्रिणम्॥५१॥
निर्गतं नृपतिं वीक्ष्य पद्मिनी प्रमदोत्तमा।
हरिश्चन्द्रस्य तनया तपस्तप्तुं कृतोद्यमम्॥५२॥
भूषणादि परित्यज्य चीरमेकं समाश्रयत्।
जगाम पतिना सार्ध पर्वते गन्धमादने॥५३॥
गत्वा तत्र तपस्तेपे वर्षाणामयुतं नृपः।
न लेभेऽथापि तनयं ध्यायन् देवं गदाधरम्॥५४॥
अस्थिस्नायुमयं कान्तं दृष्ट्वा सा प्रमदोत्तमा।
अनसूयां महासाध्वीं पप्रच्छ विनयान्विता॥५५॥
भर्तुः प्रतपतः साध्वि वर्षाणामयुतं गतम्।
तथाऽपि न प्रसन्नोऽभूत् केशवः कष्टनाशनः॥५६॥
व्रतं मम महाभागे कथयस्व यथातथम्।
येन प्रसन्नो भगवान्भविष्यति सदा मयि॥५७॥
येन जायेत मे पुत्रश्चक्रवर्ती महत्तरः।
श्रुत्वा तस्यास्तु वचनं पतिव्रतपरायणा॥५८॥
तदा प्रोवाच संहृष्टा पद्मिनी पद्मलोचनाम्।
मासो मलिम्लुचः सुभ्र मासद्वादशकाधिकः॥५९॥
द्वात्रिंशद्भिर्गतै सरा याति स शुभानने।
तन्मध्ये द्वादशीयुग्मं पद्मिनी परमा तथा॥६०॥
उपोष्य तत्प्रकर्तव्यं विधिना जागरैः समम्।
शीघ्र प्रसन्नो भगवान् भविष्यति सुतप्रदः॥६१॥
इत्युक्त्वाकथयत् सर्वं मया पूर्वोदितं नृप।
विधिव्रतस्य विधिवत्प्रसन्ना कर्दमाङ्गजा॥६२॥
श्रुत्वा व्रतविधिसर्वं यथोक्तमनसूयया।
चक्रे राज्ञी च तत्सर्वं पुत्रप्राप्तिमभीप्सती॥६३॥
एकादश्यां निराहारा सदा जाता च निर्जला।
जागरेण युता रात्रौ गीतनृत्यसमन्विता॥६४॥
पूर्णे व्रते च वै शीघ्र प्रसन्नः केशवः स्वयम्।
बभाषे गरुडारूढो वरं वरय शोभने॥६५॥
श्रुत्वा वाक्यं जगद्धातुः स्तुत्वा प्रीत्या शुचिस्मिता।
ययाचे द्य वरं देहि मम भर्तुर्वृहत्तरम्॥६६॥
पद्मिन्यास्तद्वचः श्रुत्वा प्रत्युवाच जनार्दनः।
यथा मलिम्लुचो मासो नान्यो मे प्रीतिदायकः॥६७॥
तन्मध्यैकादशी रम्या मम प्रीतिविवर्धनी।
सा त्वयोपोषिता सुभ्र यथोक्तविधिना शुभे॥६८॥
तेन त्वया प्रसन्नोऽहं कृतोऽस्मि सुभगानने।
तव भर्तुः प्रदास्यामि वरं यन्मनसेप्सितम्॥६९॥
इत्युक्त्वा नृपति प्राह विष्णुर्विश्वार्तिनाशनः।
वरं वरय राजेन्द्र यत्ते मनसि काङ्क्षितम्॥७०॥
सन्तोषितोऽहं प्रियया तव सिद्धिचिकीर्षया।
श्रुत्वा तद्वचनं विष्णोः प्रसन्नो नृपसत्तमः॥७१॥
पत्रे सुतं महाबाहुं सर्वलोकनमस्कृतम्।
न देवैर्मानुषैर्ना गर्दैत्यदानवराक्षसैः॥७२॥
जेतुं शक्यो जगन्नाथ विना त्वां मधुसूदन।
इत्युक्तो भगवान् बाहमित्युक्त्वान्तरधीयत॥७३॥
नृपोऽपि सुप्रसनात्मा हृष्टः पुष्टः प्रियायुतः।
समायात् स्वपुरं रम्यं नरनारीमनोरमम्॥७४॥
स पद्मिन्यां सुतं लेभे कार्तवीर्य महाबलम्।
न तेन सदृशः कश्चित्रिषु लोकेषु मानवः॥७५॥
तस्मात्पराजितःसङ्ख्ये रावणो दशकन्धरः।
न तं जेतुं समर्थोऽस्ति त्रिषु लोकेषु कश्चन॥७६॥
विना नारायणं देवं चक्रपाणि गदाधरम्।
न त्वया विस्मयः कार्यो रावणस्य पराजये॥७७॥
मलिम्लुचप्रसादेन पद्मिन्याश्चाप्युपोषणात्।
दत्तो देवाधिदेवेन कार्तवीर्यो महाबलः॥७८॥
इत्युक्त्वा प्रययौ विप्रेः प्रसनेनान्तरात्मना।
श्रीकृष्ण उवाच
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वयानघ॥७९॥
मलिम्लुचस्य मासस्य शुक्लाया व्रतमुत्तमम्।
ये करिष्यन्ति मनुजास्ते यास्यन्ति हरेः पदम्॥८०॥
त्वमेवं कुरु राजेन्द्र यदि चेष्टमभीप्ससि।
केशवस्य वचः श्रुत्वा धर्मराजोऽतिहर्षितः॥८१॥
चक्रे व्रतं विधानेन बन्धुमिः परिवारितः।
सूत उवाच
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं पुरा द्विज।
पुण्यं पवित्रं परमं किं भूयः श्रोतुमिच्छसि॥८२॥
एवंविधं येपि व्रतं मनुष्या भक्त्या करिष्यन्ति मलिम्लुचस्य।
उपोष्य शुक्कामतिसौख्यदात्रीमे कादशी ते भुवि शन्यन्याः॥८३॥
श्रोष्यन्ति ये तस्य विधि समयं तेऽप्यशभाजो मतुजा भवन्ति।
ये वै पठिष्यन्ति कथां समयां ते वै गमिष्यन्ति हरेनिवासम्॥८४॥
॥इत्यधिकमासस्य शुक्लैकादशीमाहात्म्यं सम्पूर्णम्॥
❀