पुरुषोत्तम-मासस्य कृष्ण-परमा-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
मलिम्लुचस्य मासस्य कृष्णा का कथ्यते विभो।
किं नाम को विधिस्तम्याः कथयस्व जगत्पते॥१॥
श्रीकृष्ण उवाच
परमेति समाख्याता पवित्रा पापहारिका।
भुक्तिमुक्तिप्रदा नॄणां स्त्रीणां चापि युधिष्ठिर॥२॥
पूर्वोक्तविधिना कार्या कृष्णाऽपि भुवि मानवैः।
सम्पूज्य परया भक्त्या नाम्ना देवं नरोत्तम॥३॥
अव ते कथयिष्यामि कथामेतां मनोरमाम्।
काम्पिल्यनगरे जातां मुनीनामग्रतः श्रुताम्॥४॥
आसीद् द्विजवरः कश्चित् सुमेधा नाम धार्मिकः।
तस्य पत्नी पवित्राख्या पातिव्रत्यपरायणा॥५॥
कर्मणा केनचिद् विप्रो धनधान्यविवर्जितः।
न क्वापि लभते भिक्षा याचन्नपि नरान् बहून्॥६॥
न भोज्यं लभते तादृङ्न वस्त्रं नैव मण्डनम्।
रूपयौवनमाधुर्या नारी शुश्रूषते पतिम्॥७॥
अतिथिं भोजयित्वा सा क्षुधिताऽपि स्वयं गृहे।
तिष्ठत्येव विशालाक्षी ह्यम्लानमुखपङ्कजा॥८॥
न भर्तारं क्वचिदपि नास्त्यन्नमिति भाषते।
विलोक्य भार्या सुदती कर्षती स्वकलेवरम्॥९॥
विचार्य ब्राह्मणश्चित्ते भार्यायाः प्रेमबन्धनम्।
निन्दन् भाग्यं स्वकं खिन्नः प्रोचे वाक्यं प्रियंवदाम्॥१०॥
कान्ते करोमि किं कार्यं न मया लभ्यते धनम्।
याचामि च नरान् भव्यान् न यच्छन्ति च मे धनम्॥११॥
किं करोमि क्व गच्छामि तन्मे कथय शोभने।
विना धनेन सुश्रोणि गृहकार्यं न सिध्यति॥१२॥
देह्याज्ञां परदेशाय गच्छामि धनलब्धये।
यस्मिन् देशे च यत् प्राप्यं भोग्यं तत्रैव लभ्यते॥१३॥
उद्यमेन विना सिद्धिः कर्मणां नोपलभ्यते।
तस्माद् बुधाः प्रशंसन्ति सर्वथैव शुभोद्यमम्॥१४॥
श्रुत्वा कान्तस्य वचनं साश्रुनेत्रा विचक्षणा।
प्रोवाच प्राञ्जलिर्भूत्वा विनयानतकन्धरा॥१५॥
त्वत्तो नास्ति सुविज्ञाता त्वयाऽऽज्ञप्ता ब्रवीम्यहम्।
हितैषिणो नरा ब्रूयुः शश्वत् साधु ह्यसाध्वपि॥१६॥
पूर्वदत्तं हि लभ्येत यत्र कुत्र महीतले।
विना दानं न लभ्येत मेरो कनकपर्वते॥१७॥
पूर्वदत्ता हि या विद्या पूर्वदत्तं हि यद्धनम्।
पूर्वदत्ता हि या भूमिरिह जन्मनि लभ्यते॥१८॥
यद् धात्रा लिखितं भाले तत् तथैव हि लभ्यते।
विना दानेन तु क्वापि लभ्यते नैव किञ्चन॥१९॥
पूर्वजन्मानि विप्रेन्द्र न मया न त्वया क्वचित्।
सत्पात्राणां करे दत्तं स्वरूपं भूर्यपि सद्धनम्॥२०॥
इह देशे परे वाऽपि दत्तं सर्वत्र लभ्यते।
अन्नमात्रं तु विश्वेशो विना दत्तेन यच्छति॥२१॥
तस्मादत्रैव विप्राग्र्य स्थातव्यं भवता मया।
त्वां विनाऽहं न तिष्ठामि क्षणमात्रं महामुने॥२२॥
न माता न पिता भ्राता न श्वश्रूः श्वशुरो जनः।
न सत्कुर्वन्ति केऽपि स्त्री स्वजनाश्च परे कुतः॥२३॥
भर्त्रा वियुक्तां निन्दन्ति दुर्भगेति वदन्ति च।
तस्मादत्र स्थिरो भूत्वा विहरस्व यथासुखम्॥२४॥
भवतो भाग्ययोगेन प्राप्तिश्चात्र भविष्यति।
श्रुत्वा तस्यास्तु वचनं स्थितस्तत्र विचक्षणः॥२५॥
तावत् तत्र समायातः कौण्डिन्यो मुनिसत्तमः।
दृष्ट्वा समागतं हृष्टः सुमेधा द्विजसत्तमः॥२६॥
सभार्यः सहसोत्थाय ननाम शिरसाऽसकृत्।
धन्योऽप्यनुगृहीतोऽस्मि सफलं जीवितं मम॥२७॥
यद् दृष्टोऽसि महाभाग्यादित्युवाच मुनीश्वरम्।
दत्त्वा सुविष्टरं तस्मै पूजयामास तं द्विजम्॥२८॥
भोजयित्वा विधानेन पप्रच्छ प्रमदोत्तमा।
विद्वन् केन प्रकारेण दारिद्र्यस्य क्षयो भवेत्॥२९॥
विना दत्तं कथं लभ्येद् धनं विद्या कुटुम्बिनी।
मां मे भर्ता परित्यज्य गन्तुकामोऽद्य वर्तते॥३०॥
अन्यदेशं पराँल्लोकान् याचितुं परपत्तने।
सम्प्रार्थ्य तु मया विद्वन् हेतुवाक्यमहत्तरैः॥३१॥
नादत्तं लभ्यते किञ्चिदित्युक्त्वा स निवारितः।
मम भाग्यान्मुनीन्द्राद्य त्वमत्रैव समागतः॥३२॥
दारिद्र्यं त्वत्प्रसादान्मे शीघ्रं नश्यत्यसंशयम्।
केनोपायेन विपेन्द्र दारिद्र्यं नश्यति ध्रुवम्॥३३॥
कथयस्व कृपासिन्धो व्रतं तीर्थं तपादिकम्।
श्रुत्वा तस्याः सुशीलाया भाषितं मुनिपुङ्गवः॥३४॥
प्रोवाच प्रवरं चित्ते विचार्य व्रतमुत्तमम्।
सर्वपापौघशमनं दुःखदारिद्यनाशनम्॥३५॥
परमा नाम विख्याता विष्णोस्तिथिरनुत्तमा।
मलिम्लुचे तु या कृष्णा भुक्तिमुक्तिफलप्रदा॥३६॥
तस्यामुपोषणं कृत्वा धनधान्ययुतो भवेत्।
विधिना जागरैः साकं गीतवादित्रसंयुतम्॥३७॥
धनदेन यदाचीर्णं व्रतमेतत् सुशोभनम्।
तदा हृष्टेन रुद्रेण धनानामधिपः कृतः॥३८॥
हरिश्चन्द्रेण च कृतं पुरा क्रीतसुतेन वै।
पुनः प्राप्ता प्रिया तेन राज्यं निहतकण्टकम्॥३९॥
तस्मात् कुरु विशालाक्षि व्रतमेतत् सुशोभनम्।
यथोक्तविधिना भद्रे समं जागरणेन च॥४०॥
इत्युक्त्वा तद्विधिं सर्वं कथयामास वाडवः।
पुनः प्रोवाच तं विप्रं पञ्चरात्रिव्रतं शुभम्॥४१॥
यस्यानुष्ठानमात्रेण भुक्तिर्मुक्तिश्च प्राप्यते।
परमादिवसे प्रातः कृत्वा पौर्वाह्णिकं विधिम्॥४२॥
कुर्यात् मुनियमाञ्छक्त्या पञ्चराविव्रतादरात्।
प्रातः स्नात्वा निराहारो यस्तिष्ठेदिनपञ्चकम्॥४३॥
स गच्छेद्वैष्णवं स्थानं पितृमातृप्रियायुतः।
एकाशनस्तु यो भूयाद् दिनानां पञ्चकं नरः॥४४॥
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते।
स्नात्वा यो भोजयेद् विप्रं दिनानां पञ्चकं नरः॥४५॥
भोजितं तेन हि जगत्सदेवासुरमानुषम्।
पूर्णं सुतोयेन कुम्भं यो ददाति द्विजातये॥४६॥
दत्तं तेनैव सकलं ब्रह्माण्डं सचराचरम्।
तिलपात्रं तु यो दद्याद्राह्मणाय विपश्चिते॥४७॥
तिलसङ्ख्यासमाः साध्वि स वसेच्चार्कमण्डले।
घृतपात्रं तु यो दद्यात् स्नात्वा पञ्चदिनं नरः॥४८॥
स भुक्त्वा विपुलान् भोगान्सूर्यलोके महीयते।
ब्रह्मचर्येण यस्तिष्ठेद् दिनानां पञ्चकं नरः॥४९॥
भुनक्ति स स्वर्गभोगान्स्वर्वेश्याभिः समं मुदा।
एवंविधं व्रतं साध्वि कुरु त्वं पतिना शुभे॥५०॥
धनधान्ययुता भूत्वा स्वर्गं यास्यसि सुव्रते।
इत्युक्ता सा व्रतं चक्रे कौण्डिन्येन यथोदितम्॥५१॥
भर्त्रा समं भावयुता स्नात्वा मासि मलिम्लुचे।
पञ्चरात्रव्रते पूर्णे परायाः प्रियसंयुता॥५२॥
सापश्यद् राजभवनादायान्तं नृपनन्दनम्।
स दत्त्वा नव्यभवनं भव्यवस्तुसमन्वितम्॥५३॥
वासयामास विधिना विधिना प्रेरितः स्वयम्।
दत्त्वा ग्रामं वृत्तिकरं ब्राह्मणाय सुमेधसे॥५४॥
प्रसन्नस्तपसा राजा तं स्तुत्वा स्वगृहं ययौ।
मलिम्लुचस्य मासस्य पराख्यायाः परादरात्॥५५॥
उपोषणात् स कृष्णायाः पञ्चरात्रव्रतेन च।
सर्वपापविनिर्मुक्तः सर्वसौख्यसमन्वितः॥५६॥
भुक्त्वा भोगास्त्रिया सार्धमन्ते विष्णुपुरं ययौ।
श्रीकृष्ण उवाच
पञ्चरात्रभवं पुण्यं मया वक्तुं न शक्यते॥५७॥
तथाऽपि किञ्चिद् वक्ष्यामि येन चीर्णं पराव्रतम्।
स्नातानि पुष्कराद्यानि गङ्गाद्याः सरितस्तथा॥५८॥
धेनुमुख्यानि दानानि तेन चीर्णानि सर्वथा।
गयाश्राद्धं कृतं तेन पितरः परितोषिताः॥५९॥
व्रतानि तेन चीर्णानि व्रतखण्डोदितानि वै।
द्विपदां ब्राह्मणः श्रेष्ठो गौर्वरिष्ठा चतुस्पदाम्॥६०॥
देवानां वासवः श्रेष्ठस्तथा मासो मलिम्लुचः।
मलिम्लुचे पञ्चरात्रं महापापहरं स्मृतम्॥६१॥
पञ्चरात्रे च परमा पद्मिनी पापशोषिणी।
सैकाप्यशक्तैः कर्तव्याऽवश्यं भक्त्या विचक्षणैः॥६२॥
मानुषं जनुरासाद्य न स्नातो यैर्मलिम्लुचः।
ते जन्मघातिनो नूनं नोपोष्य हरिवासरे॥६३॥
योनीर्भ्रमद्भिश्चतुरशीतिलक्षाणि मानवैः।
प्राप्यते मानुषं जन्म दुर्लभं पुण्यसञ्चयैः॥६४॥
तस्मात्कार्यं प्रयत्नेन परमाया व्रतं शुभम्।
श्रीकृष्ण उवाच
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वयानघ॥६५॥
मलिम्लुचस्य मासस्य परमायाः शुभं व्रतम्।
तत्सर्वं ते समाख्यातं कुरुष्वावहितो नृप॥६६॥
ये त्वेवं भुवि परमा व्रतं चरन्ति
सद्भक्त्या शुभविधिना मलिम्लुचे वै।
ते भुक्त्वा दिवि विभवं सुरेन्द्रतुल्यं
गच्छेयुस्त्रिभुवननन्दितस्य गेहम्॥६७॥
॥इत्यधिककृष्णैकादश्याः परमाख्याया माहात्म्यं सम्पूर्णम्॥
❀